TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १००

आचारकाण्डः - अध्यायः १००

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १००
॥याज्ञवल्क्य उवाच ॥
विनायकोपसृष्टस्य लक्षणानि निबोधत ॥
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥१॥

विमना विफलारम्भः संसदित्यनिमित्ततः ॥
राजा राज्यं कुमारी च पतिं पुत्रं च गुर्विणी ॥२॥

नाप्नुयात्स्नापनं तस्य पुण्येऽह्निविधिपूर्वकम् ॥
गौरसर्षपकल्केन साज्येनोत्सारितस्य तु ॥३॥

सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ॥
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजाञ्छुभान् ॥४॥

मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निः क्षिपेत् ॥
या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ॥५॥

चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा ॥
सहस्त्राक्षं शतधारमृषिभिः पावनं स्मृतम् ॥६॥

तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥
भगं तु वरुणो राजा भगं सूर्य्यो बृहस्पतिः ॥७॥

भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ॥८॥

ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नुंतु ते सदा ॥
स्नातस्य सार्षपं तैलं स्नुवेणौदुम्बरेण तु ॥९॥

जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ॥
मितश्चसमितश्चैव तथा शालकटङ्कटौ ॥१०॥

कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः ॥
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य्य सर्वशः ॥११॥

कृताकृतांस्तण्डुलांश्च पललौदनमेव च ॥
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ॥१२॥

मूलकं पूरिकापूपं तथैवौण्डेरकस्रजः ॥
दधि पायसमन्नं च गुडपिष्टं समोदकम् ॥१३॥

एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः ॥१४॥

दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः ॥
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् ॥१५॥

रूपं देहि यशोदेहि भाग्यं भगवति ! देहि मे ॥
पुत्रान्देहि श्रियं देहि सर्वान्कामांश्च देहि मे ॥१६॥

ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः ॥
वस्त्रयुग्मंगुरोर्दद्यासंपूज्य च ग्रहांस्तथा ॥
श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा ॥१७॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमोऽध्यायः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:04.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सातमजली

  • वि. उंच , उंचच उंच , उत्तुंग , गगनचुंबी . 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.