संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः २१४ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः २१४ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः २१४ Translation - भाषांतर ब्रह्मोवाच ।अथ स्नानविधिं वक्ष्ये स्नानमूला क्रिया यतः ।मृद्गोमयतिलान्दर्भान्पुष्पाणि सुरभीणि च ॥१॥आहरेत्स्नानकाले च स्नानार्थो प्रयतः शुचिः ।गन्धोदकान्तं विविक्ते (धं) स्थापयेत्तान्यथ क्षितौ ॥२॥त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः ।अद्भिर्मृद्भिश्च चरणौ प्रक्षाल्याथ करौ तथा ॥३॥उपवीती बद्धशिखः सम्यगाचम्य वाग्यतः ।उरुं राजेत्यृचा तोयमुपस्थाय प्रदक्षिणम् ॥४॥आवर्तयेत्तदुदकं ये ते शतमितित्र्यृचा ॥५॥ओं उरुं हि राजा वरुणश्चकार सूर्याय पन्थानमन्वेत वा ।प्रतिधाता च वक्तारस्ताहृदयाविपश्चित् ।नमोऽग्न्यरुणाया भिष्टुतोवरुणस्य पाशः ।वरुणाय नमः ॥६॥ओं ये ते शतं वरुणये सहस्रं यज्ञियाः पाशा वितता महान्तः ।तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ।सुमित्रियान इत्यबञ्जलिमाकृत्योत्तरेण तोयं पश्चाद्विराज्य चैव विनिः क्षिपेत् ।ओं सुमित्रिया न आप ओषधयः सन्तु ।दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॥७॥पादौ कटिं चैव पूर्वं मृद्भिस्त्रिभिस्त्रिभिः ।प्रक्षाल्य हस्ता वाचम्य नमस्कृत्य जलं ततः ॥८॥ओं इदं विष्णुर्विचक्रमे त्रेधा निधे पदं समूढमस्य पांसुरे ।महाव्याहृतिभिः पश्चादाचामेत्प्रयतोऽपि सन् ॥९॥मार्जयेद्वै मृदाङ्गानि इदं विष्णुरिति त्वृचा ।भास्कराभिमुखो मज्जेदापो अस्मानितित्यृचा ॥१०॥ओं आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतष्वः पुनन्तु ।विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥११॥ततोऽवृघृष्य पात्राणि निमज्योन्मज्य वै शनैः ।गोमयेन विलिप्याथ मानस्तोक इत्यृचा ॥१२॥ओं मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।मा नो वीरान्रुद्रभामिनोऽबधीर्हविष्मन्तः सदमित्वा हवामहे ॥१३॥ततोऽभिषिञ्चेन्मन्त्रैस्तु वरुणैस्तु यथाक्रमम् ।इमंमे वरुणे द्वाभ्यां त्वन्नः सत्वन्न इत्यपि ॥१४॥आपो त्वन्तुमसीति च मुञ्चन्त्ववभृतेति च ।ओं इमंमे वरुण श्रुधीहवमद्या च मृडयत्वा मवस्युराचके ॥१५॥ओं तत्त्वयामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।अहेडमानो वरुणेह बोध्युरुशं समान आयुः प्रमोषीः ।ओं त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासिसीष्ठाः ।यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसिप्रमुमुग्ध्यस्मत्स्वाहा ।ओं स त्वन्नो अग्नेवमो भवती नेदिष्ठो अस्या उषसोव्युष्टौ ।अवयक्ष्वनो वरुणं रराणो वीहिमृडीकं सुहवो न एधि ।ओं आपो नौषधि हिंसार्धम्नो राजस्ततो वरुणो नोमुञ्चा यदाहरघ्न्या इति वरुणेति शपार्महे ततो वरुण नो मुञ्च ।ओं उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमंश्रथाय ।अथावयमादित्यव्रते तवानागसो अदितये स्याम ।मुञ्चन्तुमामप्यथाद्वरुणस्य त्वत् ।अहो यमस्य पत्नीमानः सर्वस्मादेव किल्बिषात् ।अवभृथनिचं पुनर्विचेरुसि नित्यं प्रन्नः ।अवदेवैर्देवकृता मनोयासि समवत्यै कृतं पुष्पाच्छा देवधीमल्पाही ॥१६॥अभिषिच्य तथात्मानं निमज्याचम्य वै पुनः ।दर्भेण पाययेन्मन्त्रैरलिङ्गैः पावनैरिमैः ॥१७॥आपोहिष्ठेति तिसृभिरिदमापो हविष्मतीः ।देवीराप इति द्वाभ्यां आपोदेवा इति त्र्यृचा ॥१८॥द्रुपदादिव इति च शन्नो देवीरपां रसः ।आपो देवो पावमान्यः पुनन्त्वाद्या ऋचो नव ॥१९॥चित्पतिर्मेति च शनैः प्लाव्यात्मनं समाहितः ।हिरण्यवर्णा इति च पावमान्यस्तथा पराः ॥२०॥तरत्सामा शुद्धवत्यः पवित्राणि च शक्तितः ।वारुण्या बहवः पुण्याः शक्तितः संप्रयोजयेत् ॥२१॥ओं कारेण व्याहृतिभिर्गायत्र्या च समन्वितः ।आदावन्ते च कुर्वीत अभिषेकं यथाक्रमम् ॥२२॥जलमध्यस्थितस्यैव मार्जनं तु विधीयते ।अन्तर्जले जपेन्मन्त्रं त्रिः कृत्वा चाघमर्षणम् ॥२३॥द्रुपदाद्यास्त्रिरावर्तेदयं गौरिति च त्र्यृचम् ।अन्यांश्चैव तु मन्त्रान्वा स्मृतिदृष्टान्समाहितः ॥२४॥सव्याहृतिं सप्रणवां गायत्रीं वा जपेद्बुधः आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णमव्ययम् ॥२५॥विष्णोरायतनं त्वापः स एवाप्पतिरुच्यते ।तस्यैवं तनवस्त्वेतास्तस्मात्तं ह्यप्सु संस्मरेत् ॥२६॥तद्विष्णोरिति मन्त्रेण निमज्याप्सु पुनः पुनः ।गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ॥२७॥ओं इदमापप्रवहता स्वं मलं क्षाललोहितम् ।यथात्वहोत्रामृतं यच्च शोफे अभीषणम् ॥२८॥आपो मा तस्मादेनसः पावमानश्च मुञ्चतु इविष्मतो विमा आपोहविष्मानाविरासति ।हविष्मान् देव असुरो हविष्मानस्तु सूर्यः ।देवीरापो अपा पत्न्या यश्च ऊर्मिर्हविष्यः इन्द्रियवान्मादित्यन्तनः तं देवेभ्यो देवता दाभुशुक्रलेभ्यस्तेषां भागकर्षिवसिसमुद्रस्य दक्षिण्याग्रयासिमेनापोग्रर्भिरश्मतमोधोः ।आपो देवी मधुमतीरगृह्णन्तु ह्यन्नती राजस्वतिलाः ।याभिर्मित्रावरुणस्य सिञ्चयाभिरिन्द्रमनयत्यन्न वाती वद्रुपदां शन्नो देवी अपामसृग्द्वयसंसूर्ये सन्तं समाहितं अपांरसस्य यो रस्य यो गृह्णास्युत्तमम् ।आपो देवीरुपसूर्य मधुमतीवयस्याय प्रजाभ्यः तासा मास्थानात्वर्जिहतामोषधयः सपिप्पलाः ।पुनन्तु मा पितरः सौम्यासः पुनन्त्वनापि पिता सहसाः पवित्रेण गतायुषा ।पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।पवित्रेण गतायुषा विश्वमायुर्व्यश्रवैः ।अग्न आयूंषि परसत्माचरोर्जमिषञ्च त्वचे वावस्वत्वच्छूनाम् ।पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।पुनन्तु विश्वा भूतानि जातवेदः ! पुनीहि मा ।पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् ।अग्ने क्रत्वा क्रतूंरनु ।यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ब्रह्मा तेन पुनातु मा ।पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा ।उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्मपुनीमहे ।वैश्वदेवीः पुनती देव्या गृभ्नास्यामिसावक्ष्यस्तान्नोवीत पूज्याः ।तयामदन्तः सधमादेषु वयं स्याम पतयो रयीणाम् ।चित्प तिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।तस्य ते पवित्रपूतस्य यत्कामः ।प्रणितच्छकेयं देवो वाक्पतिर्मा सविता त्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।तस्य ते पवित्रपते ! पवित्रपूतस्य चत्कामः ।पुनस्तच्छकेयं द्युपतिं अयं गौः पृश्रिरक्रमीसदशशतं मातरं पुनः पितरञ्च प्रयस्मः ।देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनातच्छकेयम्? ।ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।दिवीव चक्षुराततम् ॥२९॥स्नात्वैवं वाससी धौते अच्छिन्ने परिधाय च ।प्रक्षाल्य च मृदाद्भिश्च हस्तौ प्रक्षाल्य वै तदा ॥३०॥आचान्ते पुनाराचामेन्मन्त्रेण स्नानभोजने ।द्रुपदां च त्रिरावर्त्य तथा चैवाघमर्षणम् ॥३१॥आचम्याप्लाव्य चात्मानं त्रिराचम्यशनेरसून् ।अथोपतिष्टेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिः ॥३२॥प्रक्षिप्योदकमद्धूय उदुत्यं चित्रमित्यपि ।तच्चक्षुर्देव इति च हंसः शुचिषदित्यपि ॥३३॥एताञ्जपेदूर्ध्वबाहुः सूर्यमीक्ष्य समाहितः ।गायत्त्रीं च तथा शक्त्या उपस्थाय दिवाकरम् ॥३४॥विभ्राडित्यनुवाकेन सूक्तेन पुरुषस्य च ।शिवसङ्कल्पेन च तथा मण्डलब्राह्मणेन च ॥३५॥दिवाकीर्त्या तथा चान्यैः सौरैर्मन्त्रैश्च शक्तितः ।जपयज्ञस्तु कर्तव्यः सर्वदेवप्रणीतकैः ॥३६॥अध्यात्मविद्यां विधिवज्जपेद्वा जपसिद्धये ।सव्यं कृत्वा त्रिराचम्य श्रियं मेधां धृतिं क्षितिम् ॥३७॥वाचं वागीश्वरीं पुष्टिं तुष्टिञ्च परितर्पयेत् ।उमामरुन्धतीं चैव शचीं मातरमेव च ॥३८॥जयां च विजयां चैव सावित्रीं शान्तिमेव च ।स्वाहां स्वधां धृतिं चैव तथैवादितिमुत्तमाम् ॥३९॥ऋषिपत्नीश्च कन्याश्च तर्पयेत्काम्यदेवताः ।सर्वमङ्गलकामस्तु तर्पयेत्सर्वमङ्गलाम् ॥४०॥आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विदं ब्रुवन् ।क्षिपेदपोऽञ्जलींस्त्रींश्च कुर्वन्काङ्क्षेत तर्पणम् ॥४१॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्नानविधिविवरणं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP