TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १७०

आचारकाण्डः - अध्यायः १७०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १७०
धन्वन्तरिरुवाच ।
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः ।
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये ॥१॥

नागरं देवकाष्ठञ्च धान्याकं बृहतीद्वयम् ।
दद्यात्पाचनकं पूर्वं ज्वरिताय ज्वरापहम् ॥२॥

आरग्वधाभयामुस्तातिक्ताग्रन्थिकनिर्मितः ।
कषायः पाचनः सामे सशूले च ज्वरेहितः ॥३॥

मधूकसारसिन्धूत्थवचोषणकणाः समाः ।
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ॥४॥

त्रिवृद्विशालात्रिफलाकटुकारग्वधैः कृतः ।
सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः ॥५॥

महौषधामृतामुस्तचन्दनोशीरधान्यकैः ।
क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः ॥६॥

अपामगजटाकट्यां लोहितैः सप्ततन्तुभिः ।
बद्ध्वा वारे रवेर्नूनं ज्वरं हन्ति तृतीयकम् ॥७॥

गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः ।
तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः ॥८॥

गुडूच्याः क्वाथकल्काभ्यां विफलावासकस्य च ।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः ॥९॥

धात्रीशिवाकणावह्निक्वाथः सर्वज्वरान्तकः ।
ज्वरातिसारहरणमौषधं प्रवदाम्यथ ॥१०॥

पृश्रिपर्णोबलाविल्वनागरोत्पलधान्यकैः ।
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकैः शृताः ।
ज्यन्त्याममतीसारं सज्वरं समहौषधाः ॥११॥

नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ।
सर्वज्वरहरः क्वथः सर्वातीसारनाशनः ॥१२॥

मुस्तपर्पटकदिव्यशृङ्गवेरशृतं पयः ।
शालपर्णो पृश्रिपर्णो बृहती कण्टकारिका ॥१३॥

बलाश्वदंष्ट्राबिल्वादि पाठानागरधान्यकम् ।
एतदाहारसंयोगे हितं सर्वातिसारिणाम् ॥१४॥

बिल्वचूतास्थिक्वाथश्च खण्डं मध्वतिसारनुत् ।
अतिसारे हिता तद्वत्कुटजत्वक्कणायुता ॥१५॥

वत्सकातिविषाविश्वकणाकन्दकषायकः ।
प्रयुक्तश्चामशूलाढ्ये ह्यतीसारे सशोणित ॥१६॥

चिकित्साथ ग्रहण्यास्तुग्रहणी चाग्रिनाशिनी ।
चित्रकाक्वाथक्लकाभ्यां ग्रहणीघ्नं क्षृतं हविः ।
गुल्मशोथोदरप्लीहशूलार्शोघ्नं प्रदीपनम् ॥१७॥

सौवर्चलं सैन्धवञ्च विडङ्गौद्भिदमेव च ।
सामुद्रेण समं पञ्चलवणान्यत्र योजयेत् ॥१८॥

भेषजं शस्त्रक्षाराग्न्यस्त्रिधा वै चार्शसां हरम् ।
विद्धि तच्चार्शसोघ्नन्तु यद्धि तक्रं नवोद्धृतम् ॥१९॥

गुडूटीं पिप्पलीयुक्तामभयां घृतभर्जिताम् ।
त्रिवृदर्शोविनाशार्थं भक्षयेदम्ललोणिकाम् ॥२०॥

तिलेक्षुरससंयोगश्चार्शः कुष्ठ विनाशनः ।
पञ्चकोलं समरिचं सत्र्यूषणमथाग्निकृत् ॥२१॥

हरीतकी भक्ष्यमाणा नागेरण गुडेन वा ।
सैन्धवोपहिता वापि सातत्येनाग्निदीपनी ॥२२॥

फलत्रिकामृतासातिक्ताभूनिम्बनिम्बजः ।
क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम् ॥२३॥

त्रिवृच्च त्रिफला श्यामा पिप्पली शर्कग मधु ।
मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः ॥२४॥

वासायां विद्यमानायामाशायां जीवितस्य च ।
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥२५॥

आटरूपकमृद्वीकापथ्याक्वाथः सशर्करः ।
क्षौद्राढ्यः कासनिः श्वासरक्तपित्तनिबर्हणः ॥२६॥

वासारसः खण्डमधुयुतः पीतोऽथरक्तजित् ।
सल्लकीबदरीजम्बुप्रियालाम्रार्जुनं धवः ।
पीतं क्षीरञ्च मध्वाढ्यं पृथक्छोणितवारणम् ॥२७॥

समूलफलपत्राया निर्गुण्ड्याः स्वरसैर्घृतम् ।
सिद्धं पीत्वा क्षयक्षीणी निर्व्यादिर्भाति देववत् ॥२८॥

हरीतकी कणा शुण्ठी मरिचं गुडसंयुतम् ।
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥२९॥

कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे ।
प्रस्थं सिद्धं घृतं स्याच्च कासनुद्वह्निदापनम् ॥३०॥

कृष्णा धात्री शिता शुण्ठी हक्काघ्नी मधुसंयुता ।
हिक्काश्वासी पिवेद्भार्ङ्गो सविश्वामुष्णवारिणा ॥३१॥

तैलाक्तं स्वरभेदे वा खादिरं धारयेन्मुखे ।
पथ्यां पिप्पलिकायुक्तां संयुक्तां नागरेण वा ॥३२॥

विडङ्गत्रिलाचूर्णं छर्दिहृन्मधुना सह ।
आम्रजम्बूकषायं वा पिबोन्माक्षिकसंयुतम् ॥३३॥

छर्दि सर्वां प्रणुदति तृष्णाञ्चैवापकर्षति ।
त्रिफला भ्रममूर्छाहृत्पीता सा मधुनापि वा ॥३४॥

पञ्चगव्यं हितं पानादपस्मारग्रहादिनुत् ।
कूष्माण्डकरसो वाज्यं सयष्टिकं तदर्थकृत् ॥३५॥

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च ।
पुराणं सेव्यमुन्मादग्रहापस्मारद्घृनुतम् ॥३६॥

अश्वगन्धाकषाये च कल्के क्षीरे चतुर्गुणे ।
घृतपक्वन्तु वातघ्नं वृष्यं मां साय पुत्रकृत् ॥३७॥

नीलीमुण्डीरिकाचूर्णं मधुसर्पिः समन्वितम् ।
छिन्नाक्वाथं पिबन्हन्ति वातरक्तं सुदुस्तरम् ॥३८॥

सगुडाः पञ्च पथ्याश्च कुष्टार्शोवातसादनाः ।
गडचीस्वरसं कल्कं चूर्णं वा क्वाथमेव वा ॥३९॥

वातरक्तान्तकं कालागुडूचीक्वाथकल्कतः ।
कुष्ठव्रणादिशमनं शृतमाज्यं सदुग्धकम् ॥४०॥

त्रिफलागुग्गुलुर्वातरक्तमूर्छापहारकः ।
ऊरुस्तम्भविनाशाय गोमूत्रेण च गुग्गुलुः ॥४१॥

शुण्ठीगोक्षुरकक्वाथः सामवातार्तिशूलनुत् ।
दशमूलामृतैरण्डरास्नानागरदारुभिः ॥४२॥

क्वाथो हन्ति माहशोथं मरीचगुडसंयुतः ।
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥४३॥

कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे ।
प्रस्थसिद्धं घृतञ्चैव कासनुद्धृदि दीपनः ॥४४॥

कृष्णाधात्रीसिताशुण्ठीमरीचसैन्धवान्वितः ।
क्वाथ एरण्डतैलेन सामं हन्त्यनिलं गुरुम् ॥४५॥

बला पुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ।
सहिङ्गुलवर्ण पीतं वातशूलविमर्दनम् ॥४६॥

त्रिफलानिम्बयष्टीककटुकारग्वधैः शृतम् ।
पाययेन्मधुना मिश्रं दाहशूलोपशान्तये ॥४७॥

त्रिफलापः सयष्टीकाः परिणामार्तिनाशनाः ।
गोमूत्रशुद्धमण्डूरं त्रिफलाचूर्णसंयुतम् ।
विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥४८॥

त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः ।
गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥४९॥

हरीतकीयवक्षारपिप्पलीत्रिवृतस्तथा ।
घृतैश्चूर्णमिदं पेयमुदावर्ताविनाशनम् ॥५०॥

त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भाविताः ।
वटिका मूत्रपीतास्ताः श्रेष्टाश्चानाहभेदिकाः ॥५१॥

त्र्यूषणत्रिफलाधन्यविडङ्गचव्यचित्रकैः ।
कल्कीकृतैर्घृतं सिद्धं संस्कारं वातगुल्मनुत् ॥५२॥

मूलं नागरमानीतं सक्षीरं हृदयार्तिनुत् ।
सौवचलं तदर्धन्तु शिवानाञ्च घृतं पिबेत् ॥५३॥

कणापाषाणभेदैर्वा शिलाजतुकचूर्णकम् ।
तण्डुलीभिर्गुडेनापि मूत्रकृच्छ्रीति जीवति ॥५४॥

अमृतानागरीधात्रीवाजिगन्धात्रिकण्टकाम् ।
प्रपिबेद्वातरेगार्तः सशूलो मूत्रकृच्छ्रवान् ॥५५॥

सितातुल्यो यवक्षारः सर्वकृच्छ्रनिवारणः ।
निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः ॥५६॥

लवणं त्रिफलाकल्कैर्मूत्राघातहरं स्मृतम् ।
मूत्रे विरुद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेत् ॥५७॥

क्वाथश्च शिग्रुमूलोत्थः कटूष्णोश्मानिपातनः ।
सर्वमेहहरोधात्र्या रसःक्षौद्रनिशायुतः ।
त्रिफलादारुदार्व्यष्टक्वाथः क्षौद्रेण मेहहा ॥५८॥

अस्वप्नं च व्यवायं च व्यायामाश्चिन्तनानि च ।
स्थौल्यमिच्छन्पपरित्यक्तं क्रमेणाभिप्रवर्धयेत् ॥५९॥

यवश्यामाकभोजी स्यास्थौल्यकृन्मधुवारिणा ।
उष्णमन्नं समण्डं वा पिबन्कृशतनुर्भवेत् ॥६०॥

सचव्यजीरकं व्योषा हिङ्गुसौवर्चलामलाः ।
मधुना रक्तवः पीता मेधोघ्ना सर्वदीपनाः ॥६१॥

चतुर्गुणे जले मूत्रे द्विगुणे चित्रकाणि च ।
कल्कैः सिद्ध घृत प्रस्थं सक्षीरं जठरी पिबेत् ॥६२॥

क्रमवृद्ध्या दशाहानि दश पैप्पालिकं दिनम् ।
वर्धयेत्पयसा सार्धं तथैवापानयेत्पुनः ॥६३॥

क्षीरषष्टिकभोजीस्यादेवं कृष्णसहस्रकम् ।
बृंहणं मुद्गमायुष्यं प्लीहोदरविनाशनम् ॥६४॥

पुनर्नवाक्वाथकल्कैः सिद्धं शोथहरं घृतम् ।
गावा मत्रेण संसेव्यं पिप्पली वा पयोऽन्विताः ।
गुडन वाभयां तुल्यां विश्वं वा शोथरोगिणा ॥६५॥

तैलमेरण्डजं पीत्वा बलासिद्धं पयोऽन्वितम् ।
आध्मानशूलोपचितामन्त्रवृद्धिञ्जयेन्नरः ॥६६॥

भ्रष्टोरुचकतैलेन कल्कः पथ्यासमुद्भवः ।
कृष्णसैन्धवसंयुक्तो वद्धिरोगहरः परः ॥६७॥

निर्गुण्डीमूलनस्येन गण्डमाला विनश्यति ।
स्मुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च ॥६८॥

हस्तिकर्णपलाशस्य गलगण्डं तु लेपतः ।
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ॥६९॥

प्रलेपःश्लीपदं हन्ति चिरोत्थमतिदारुणम् ।
शोभाञ्जनकसिन्धृत्थहिङ्गुं विद्रधिनाशनम् ॥७०॥

शरपुङ्खा मधुयुता यात्सर्स्वव्रणगेपणी ।
निम्बपत्रस्य वालेपः श्वयथुव्रणगेपणः ॥७१॥

त्रिफला खदिरो दार्वो न्यग्रोधो व्रणशोधनः ।
सद्यः क्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ॥७२॥

यष्टीमधुकयुक्तेन किञ्चिदुष्णेन सर्पिषा ।
बुद्ध्वागन्तुव्रणान्वैद्यो घृतक्षौद्रसमन्विताम् ॥७३॥

शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम् ।
क्वाथो वंशत्वगेरण्डश्वदंष्ट्रवनिदाकृतः ॥७४॥

सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्त्रावयेदसृक् ।
यवकोलकुलत्थानां निःस्नेहेन रसेन वा ॥७५॥

भुञ्जीतान्नं यवाग्वा वा पिवेत्सैन्धवसंयुतम् ।
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥७६॥

त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः ।
निर्यन्त्रणो विबन्धघ्नो व्रधनगेपणः ॥७७॥

दूर्वास्वरससिद्धं वा तलं कम्पिल्लकेन वा ।
दार्वोत्वचश्च कल्केन प्रधानं व्रणरोपणम् ॥७८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरादिचिकित्सानिरूपणं नाम सप्तत्युत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.9730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

contract of sale of goods

  • मालविक्री करार 
  • मालविक्री संविदा 
RANDOM WORD

Did you know?

पिंड म्हणजे काय? त्याचे प्रकार किती व कोणते?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.