TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २०८

आचारकाण्डः - अध्यायः २०८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २०८
सूत उवाच ।
आर्यालक्ष्म त्वष्ट गणाः सदा जो विषमे न हि ।
षष्ठे जो न्लौ वापि भवेत्पदं षष्ठे द्वितीयलात् ॥१॥

आदितः सप्तमे ह्रस्वा द्वितीयार्धे शरे ततः ।
त्रिगणाङ्घ्रिश्च पथ्या स्याद्विपुला वह्निलङ्घनात् ॥२॥

ग्मध्ये द्वितुर्यौ जौ चपला मुखपूर्वादिचापला ।
द्वितीयार्धे सजघना आर्याजातेश्च लक्षणम् ॥३॥

आर्या प्रथमार्धलक्ष्म गीतिः स्याच्चेद्दलद्वये ।
उपगीतिर्द्वितीयार्धादुद्गीतिर्व्यत्ययाद्भवेत् ॥४॥

आर्यागीतिश्चान्तगुरुर्गोतिजातेश्च लक्षणम् ।
षट्कला विषमे चेत्स्युः समेऽष्टौ न निरन्तराः ।
समा पराश्रिता न स्याद्वैतालीये रलौ गुरुः ॥५॥

अन्तेर्यौ पूर्ववदिदमौपच्छन्दसिकं मतम् ॥६॥

भाद्गौ स्यादापातलिका ज्ञेयाथो दक्षिणान्तिका ।
पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥७॥

उदीच्यवृत्तिरसमे प्राच्यवृत्तिस्तु युग्मके ।
सपञ्चमश्चतुर्थांशे युगपत्तौ प्रवृत्तकम् ॥८॥

उदीच्याद्यङ्घ्रिसंयोगाद्युग्मपादैकपादिका ।
चारुहासिन्ययुग्माङ्घ्रौ वैतालीयस्य संग्रहः ॥९॥

वक्त्रं नाद्यान्नसौ स्यातां चतुर्थाद्यगणो भवेत् ।
पथ्यावक्त्रं जेन समे विपरीतादिरन्यथा ॥१०॥

उसमे नश्च चपला विपुला लघुसप्तमा ।
निखिले वा सैतवस्य म्रौ न्तौ चाब्धेस्तत्पूर्वकौ ॥११॥

षोडशलोऽचलधृतिर्मात्रासमकमुच्यते ॥१२॥

नवमलस्तथा गोऽन्त्यः जो न्लौवाथाम्बुधेर्यथा ।
विश्लोकः स्यात्तच्चतुष्कद्विगुणाद्वानवासिका ॥१३॥

बाणाष्टनवकेषु स्याल्लश्चित्रा षोडशात्मिका ।
सममात्रासमादिष्टं पदाकुलकमीरितम् ॥१४॥

वृत्तमात्रा विना वर्णैर्ला वर्णा गुरुभिर्विना ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥१५॥

अष्टाविंशातिला गन्ता प्रथमार्धे द्वितीयके ।
त्रिंशदस्यां शिखा गन्ता खञ्जातद्व्यत्ययाद्भवेत् ॥१६॥

षोडशानङ्गक्रीडा गा द्वात्रिंशच्चरमे च लाः ।
सप्तविंशातिला गन्ता दलयो रुचिरा द्वयोः ॥१७॥

मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै ॥१८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रे आर्यावृत्तादिछन्दोलक्षणनिरूपणं नामाष्टोत्तरद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:11.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

painstaking

  • मेहनती 
  • कष्टाळू 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.