TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १५७

आचारकाण्डः - अध्यायः १५७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १५७
धन्वन्तरिरुवाच ।
अतीसारग्रहण्योश्च निदानं वच्मि सुश्रुत ।
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः ॥१॥

अतीसारः स सुतरां जायतेऽत्यम्बुपानतः ।
विशुष्कान्नवसास्नेहतिलपिष्टविरूढकैः ॥२॥

मद्यरूक्षातिमात्रादिरसातिस्नेहविभ्रमात् ।
कृमिघोषविरोधाच्च तद्विधेः कुपितानिलः ॥३॥

विस्त्रंसयत्यधोवातं हत्वा तेनैव चानलम् ।
व्यापार्यान्नशकृत्कोष्ठपुरीषद्रवतादयः ॥४॥

प्रकल्पतेऽतीसारस्य लक्षणं तस्य भाविनः ।
भेदो हृद्गुदकोष्ठेषु गात्रस्वेदो मलग्रहः ॥५॥

आध्मानमविपाकश्च तत्र वातेन विज्वरम् ।
अल्पाल्पं शब्दशून्याढ्यं विरु (ब)द्धमुपवेश्यते ॥६॥

रूक्षं सफेनमच्छं च गृहीतं व मुहुर्मुहुः ।
तथादग्धगदाभासं पिच्छिलं परिकर्तयन् ॥७॥

सशुष्कभ्रष्टपायुश्च हृष्टरोमा विनिश्वसन् ।
पित्तेन पीतमशितं हारिद्रं शाद्वलप्रभम् ॥८॥

सरक्तमतिदुर्गन्धं तृण्मूर्छास्वेददाहवान् ।
सशूलपायुसन्तापपाकवाञ्छ्लेष्मणा घनम् ॥९॥

पिच्छिलं तत्रानुसारमल्पाल्पं सप्रवाहिकम् ।
सरोमहर्पः सेक्लेशो गुरुबस्तिगुदोदरः ॥१०॥

कृतेऽप्यकृतसङ्गश्च सर्वात्मा सर्वलक्षणः ।
भयेन क्षुभिते चित्ते शायिते द्रावयेत्स (च्छ) कृत् ॥११॥

वायुस्ततो निवार्येत क्षिप्रमुष्णं द्रवं प्लवम् ।
वातपित्ते समं लिङ्गमाहुस्तद्वच्च शोकतः ॥१२॥

अतीसारः समासेन द्वेधा सामो निरामकः ।
सासृग्जातं रसद्रोगो गौरवादप्सु मुञ्चति? ।
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः ॥१३॥

विपरीतो निरामस्तु कफात्कोऽपि न मज्जति ।
अतीसारेषु यो नाति यत्नवान् ग्रहणीगदः ॥१४॥

तस्य स्यादग्निनिर्वाणकार्यैरत्यर्थसञ्चितैः ।
सामं शकृन्निरामं वा जीर्णं येनातिसार्यते ॥१५॥

सोऽतिसारोऽतिसरणा दाशुकारीः स्वभावतः ।
सामंशीर्णमजीर्णेन जीर्णे पक्वं तु नैव च ॥१६॥

चिरकृद्ग्रहणीदोषः सञ्चयांश्चोपवेशयेत् ।
अकस्माद्वारसुर्वेधमकस्मात्सन्धिनीमुहुः ।
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते ॥१७॥

प्राग्रूपाङ्गस्य सदनं चिरात्पवन अल्पकः ।
प्रसेको वक्त्रवैरस्यमरुचिस्तृट्श्रमोभ्रमः ॥१८॥

आब (न) द्धोदरता छर्दिः कर्णकेऽप्यनुकूजकम् ।
सामान्यलक्षणं कार्श्यं वमक स्तमको ज्वरः ॥१९॥

मूर्छा शिरोरुविष्टम्भः श्वयथुः करपादयोः ।
तन्द्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः ॥२०॥

पार्श्वोरुवङ्क्षणग्रीवारुजा तीक्ष्णविषूचिका ।
रुग्णेषु वृद्धिः सर्वषु क्षुत्तृष्णापरिहर्त्रिका ॥२१॥

जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ।
वाताद्धृद्रोगगुल्मार्शःप्लीहपाण्डुरशङ्किताः ॥२२॥

चिराद्दुः खं द्रवं शुष्कं तुन्दारं शब्दफेनवत् ।
पुनः पुनः सृजेद्वर्चं पायुरुच्छ्वासकासवान् ॥२३॥

पीतेन पीतनीलाभं पीताभं सृजति द्रवम् ।
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ॥२४॥

श्लेष्मणा पच्यते दुःखे मनश्छर्दिररोचकः ।
आस्योपदाहनिष्ठीवकासहृल्लासपीनसाः ॥२५॥

हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ।
उद्गारो दुष्टमधुरः सदनं सप्रहर्षणम् ॥२६॥

सम्भिन्नश्लेष्मसंश्लिष्टगुरुचाम्लैः (वर्चः) प्रवर्तचम् ।
अकृशस्यापि दौर्बल्यं सर्वजे सर्वदर्शनम् ॥२७॥

विभागेऽङ्गस्य ये प्रोक्ता पिपासाद्यास्त्रयो मलाः ।
तेऽप्यस्य ग्रहणीदोषाः समन्तेष्वस्ति कारणम् ॥२८॥

वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दरम् ।
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥२९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेतिसारनिदान नाम सप्तञ्चाशदुत्तरशतमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बताडा

  • पु. बच्चा पहा . मोठ्या पागोट्यांत घालावयाचें आंतील पागोटें . तिवट चुनडी समेत बतना व तुरा मुकेसी । - वाडसमारो १ . ११९ . [ का . बट्टें ] 
  • वि. सामान्य रीतीपेक्षां आकार इ० नें मोठा ; विशाळ ; अवाढव्य ; अफाट ; प्रचंड . 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.