TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १५२

आचारकाण्डः - अध्यायः १५२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १५२
धन्वन्तरिरुवाच ।
अथातो यक्ष्मरोगस्य निदानं प्रवदाम्यहम् ।
अनेकरोगानुगतो बहुरोगपुरोगमः ॥१॥

राजयक्ष्मा क्षयः शोषो रोगराडिति कथ्यते ।
नक्षत्राणां द्विजानाञ्च राज्ञोऽभूद्यदयं पुरा ॥२॥

यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ।
देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः ॥३॥

रसादिशोषणाच्छोषो रोगराडिति राजवत् ।
साहसं वेगसंरोधः शुक्रौजः स्नेहसंक्षयः ॥४॥

अन्नपानविधित्यागश्चत्वारस्तस्यहेतवः ।
तैरुदीर्णोऽनिलः पित्तं व्यर्थं चोदीर्य सर्वतः ॥५॥

शरिरसन्धिमाविश्य ताः शिराः प्रतिपीडयन् ।
मुखानि स्रोतसां रुद्ध्वा तथैवातिविसृज्य वा ॥६॥

मध्यमूर्ध्वमधस्तिर्यगव्यथां सञ्जनयेद्धृदः ।
रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं ज्वरः ॥७॥

प्रसेको मुखमाधुर्यं मार्दवं वह्निदे हयोः ।
लौल्यभावोऽन्नपानादौ शुचावशुचिवीक्षणम् ॥८॥

मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः ।
हृल्लासश्छर्दिररुचिरस्नातेऽपि बलक्षयः ॥९॥

पाण्योरुवक्षः पादास्यकुक्ष्यक्ष्णोरतिशुक्लता ।
बाह्वोः प्रतोदो जिह्वायाः काये बैभत्स्यदर्शनम् ॥१०॥

स्त्रीमद्यमांसप्रियता घृणिता मूर्धगुण्ठनम् ।
नखकेशास्थिवृद्धिश्च स्वप्ने चाभिभवो भवेत् ॥११॥

पतनं कृकलासाहिकपिश्वापदपक्षिभिः ।
केशास्थितुषभस्मादितरौ समधिरोहणम् ॥१२॥

शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः ।
ज्योतिर्दिवि दवाग्नीनां ज्वलतां च महीरुहाम् ॥१३॥

पीनसश्वासकासं च स्वरमूर्धरुजोऽरुचिः ।
ऊर्ध्वनिः श्वाससंशोषावधश्छर्दिश्च कोष्ठगे ॥१४॥

स्थिते पार्श्वे च रुग्बोधे सन्धिस्थे भवति ज्वरः ।
रूपाण्यैकादशैतानि जायन्ते राजयक्ष्मणः ॥१५॥

तेषामुपद्रवान्विद्यात्कण्ठध्वंसकरी रुजाः ।
जृम्भाङ्गमर्दनिष्ठीववह्निमान्द्यास्यपूतिता ॥१६॥

तत्र वाताच्छिरः पार्श्वशूलनं सांगमर्दनम् ।
कण्ठरोधः स्वरभ्रंशः पित्तात्पादांसपाणिषु ॥१७॥

दाहोऽतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः ।
कफादरोचकच्छर्दिकासा अर्ध्वां गगौरवम् ॥१८॥

प्रसेकः पीनसः श्वासः स्वरभेदोऽल्पवह्निता ।
दोषैर्मन्दानलत्वेन शोथलेपकफोल्बणैः ॥१९॥

स्रोतोमुखेषु रुद्धेषु धातुषु स्वल्पकेषु च ।
विदाहो मनसः स्थाने भवन्त्यन्ये ह्युपद्रवाः ॥२०॥

पच्यते कोष्ठ एवान्नमम्लयुक्तै रसैर्युतम् ।
प्रायोऽस्य क्षयभागानां नैवान्नं चाङ्गपुष्टये ॥२१॥

रसो ह्यस्य न रक्ताय मांसाय कुरुते तु तत् ।
उपष्टब्धः समन्ताच्च केवलं वर्तते क्षयी ॥२२॥

लिङ्गेष्वल्पेष्वतिक्षीणं व्याधौ षट्करणक्षयम् ।
वर्जयेत्साधयेदेव सर्वेष्वपि ततोऽन्यथा ॥२३॥

दोषैर्व्यस्तैः समस्तैश्च क्षयात्सर्वस्य मेदसः ।
स्वरभेदो भवेत्तस्य क्षामो रूक्षश्चलः स्वरः ॥२४॥

शुकवर्णाभकण्ठत्वं स्निग्धोष्णोपशमोऽनिलात् ।
पित्तात्तालुगले दाहः शोषो भवति सन्ततम् ॥२५॥

लिम्पन्निव कफैः कण्ठं मुखं घुरघुरायते ।
स्वयं विरुद्धैः सर्वैस्तु सर्वालिङ्गैः क्षयो भवेत् ॥२६॥

धूमायतीव चात्यर्थमुदेति श्लेष्मलक्षणम् ।
कृच्छ्रसाध्याः क्षयाश्चात्र सर्वैरल्पञ्च वर्जयेत् ॥२७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे यक्ष्मनिदाना नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:07.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hygrochastic

  • bot.(said of a fruit which opens by the absorption of water) आर्द्रतास्फोटी 
RANDOM WORD

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.