TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४२

आचारकाण्डः - अध्यायः १४२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १४२
ब्रह्मोवाच ।
विंशादीन्पालयामास ह्यवतीर्णो हरिः प्रभुः ।
दैत्यधर्मस्य नाशार्थं वेदधर्मादिगुप्तये ॥१॥

मत्स्यादिकस्वरूपेण त्ववतारं करोत्यजः ।
मत्स्यो भूत्वा हयग्रीवं दैत्यं हत्वाजिकण्टकम् ॥२॥

वेदानानीय मन्वादीन्पालयामास केशवः ।
मन्दरं धारयामास कूर्मो भूत्वा हिताय च ॥३॥

क्षीरोदमथने वै द्यो देवो धन्वन्तरिर्ह्यर्भूत् ।
बिभ्रत्कमण्डलुं पूर्णममृतेन समुत्थितः ॥४॥

आयुर्वेदमथाष्टाङ्गं सुश्रुताय स उक्तवान् ।
अमृतं पाययामास स्त्रीरूपी च सुरान्हरिः ॥५॥

अवतीर्णो वराहोऽथ हिरण्याक्षं जघान ह ।
पृथिवीं धारयामास पालयामास देवताः ॥६॥

नरसिंहोऽवर्तोर्णोऽथ हिरण्यकशिपुंरिपुम् ।
दैत्यान्निहतवान्वेदधर्मादीनभ्यपालयत् ॥७॥

ततः परशुरामोऽभूज्जमदग्नेर्जगत्प्रभुः ।
त्रिः सप्तकृत्वः पृथिवीं चक्रे निः क्षत्त्रियां हरिः ॥८॥

कार्तवीर्यं जघानाजौ कश्यपाय महीं ददौ ।
यागं कृत्वा महाबाहुर्महेन्द्रे पर्वते स्थितः ॥९॥

ततो रामो भविष्णुश्च चतुर्धा दुष्टर्मदनः ।
पुत्रो दशरथाज्जज्ञे रामश्च भरतोऽनुजः ॥१०॥

लक्ष्मणश्चाथ शत्रुघ्नो रामभार्या च जानकी ।
रामश्च पितृसत्यार्थं मातृभ्यो हितमाचरन् ॥११॥

शृङ्गवेरं चित्रकूटं दण्डकारण्यमागतः ।
नासां शूर्पणखायाश्च च्छित्त्वाथ खरदूषणम् ॥१२॥

हत्वा स राक्षसं सीतापहारिरजनीचरम् ।
रावणं चानुजं तस्य लङ्कापुर्यां विभीषणम् ॥१३॥

रक्षोराज्ये च संस्थाप्य सुग्रीवनुमन्मुखैः ।
आरुह्य पुष्पकं सार्धं सीतया पतिभक्तया ॥१४॥

लक्ष्मणेनानुकूलेन ह्ययोध्यां स्वपुरीं गतः ।
राज्यं चकार देवादीन्पालयामास स प्रजाः ॥१५॥

धर्मसंरक्षणं चक्रे ह्यश्वमेधादिकान्क्रतून् ।
सा महीपतिना रेमे रामेणैव यथासुखम् ॥१६॥

रावणस्य गृहे सीता स्थिता भेजे न रावणम् ।
कर्मणा मनसा वाचा सा गता राघवं सदा ॥१७॥

पतिव्रता तु सा सीता ह्यनसूया यथैव तु ।
पतिव्रताया माहात्म्यं शृणु त्वं कथयाम्यहम् ॥१८॥

कौशिको ब्राह्मणः कुष्ठी प्रतिष्ठानेऽभवत्पुरा ।
तं तथा व्याधितं भार्या पतिं देवमिवार्चयत् ॥१९॥

निर्भर्त्सितापि भर्तारं तममन्यत दैवतम् ।
भर्त्रोक्ता सानयद्वेश्यां शुल्कमादाय चाधिकम् ॥२०॥

पथि सूले तदा प्रोतमचौरं चौरशङ्कया ।
माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥२१॥

पत्नीस्कन्धसमारूढश्चालयामास कौशिकः ।
पादावमर्शणत्क्रुद्धो माण्डव्यस्तमुवाच ह ॥२२॥

सूर्योदये मृतिस्तस्य येनाहं चालितः पदा ।
तच्छ्रुत्वा प्राह तद्भार्या सूर्यो नोदयमेष्यति ॥२३॥

ततः सूर्योदयाभावाद भवत्सततं निशा ।
बहून्यब्दप्रमाणानि ततो देवा भयं ययुः ॥२४॥

ब्रह्माणं शरणं जग्मुस्तामूचे पद्मसम्भवः ।
प्रशाम्यते तेजसैव तपस्तेजस्त्वनेन वै ॥२५॥

पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥२६॥

तस्मात्पतिव्रतामत्रेरनसूयां तपस्विनीम् ।
प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥२७॥

तैः सा प्रसादिता गत्वा ह्यनसूया पतिव्रता ।
कृत्वादित्योदयं सा च तं भर्तारमजीवयत् ।
पतिव्रतानसूयायाः सीताभूदधिका किल ॥२८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दशावतारदृ नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:07.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

occult virus

  • Bot. गूढ विषाणु 
  • गूढ विषाणू 
RANDOM WORD

Did you know?

निर्जीव गाड्यांची पूजा करतात, यामागील शास्त्र काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.