TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २०१

आचारकाण्डः - अध्यायः २०१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २०१
धन्वन्तरिरुवाच ।
हयायुर्वेदमाख्यास्ये हयं सर्वार्थलक्षणम् ।
काकतुण्डः कृष्णजिह्वो वृक्षास्यश्चोष्णतालुकः ॥१॥

करालो हीनदन्तश्च शृङ्गी विरलदन्तकः ।
एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥२॥

मार्जारपादो व्याघ्राभः कुष्ठविद्रधिसन्निभः ।
यमजो वामनश्चैव मार्जारः कपिलोचनः ॥३॥

एतद्दोषी हयस्त्याज्य उत्तमोऽश्वस्तुरुष्कजः ।
मध्यमः पञ्चहस्तश्च कनीयांश्च त्रिहस्तकः ॥४॥

असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ।
शबलाभाः प्रभावेषु न दीनाश्चिरजीविनः ॥५॥

रेवन्तपूजनाद्धोमाद्रक्ष्याश्च द्विजभाजेनात् ।
सरलं निम्बपत्राणि गुग्गुलं सर्षपान्घृतम्? ॥६॥

तिलञ्चैव वचां हिगुं बध्नीयाद्वाजिनो गले ।
आगन्तुजं दोषजन्तु व्रणं द्विविधमीरितम् ॥७॥

चिरपाकं वातजन्तु श्लेष्मजं क्षिप्रपाककम्? ।
कण्ठदाहात्मकं पित्ताच्छोणितान्मन्दवेदनम् ॥८॥

आगन्तुजन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् ।
एरण्डमूलं द्विनिशं चित्रकं विश्वभेषजम् ॥९॥

रसोनं सैन्धवं वापि तक्रकाञ्जिकपोषितम् ।
तिलसक्तुकपिण्डिका दधियुक्ता ससैन्धवा ।
निम्बपत्रयुतं पिण्डं व्रणशोधनरोपणम् ॥१०॥

पटोलं निम्बपत्रञ्च वचा चित्रकमेव च ।
पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ॥११॥

एतत्पानात्क्रिमिश्लेष्ममन्दानिलविनाशनम् ।
निम्बपत्रं पटो लञ्च त्रिफला खदिरं तथा ॥१२॥

क्वाथयित्वा ततो वाहं सृतरक्तं विचक्षणः ।
त्र्यहमेव प्रिदातव्यं हयकुष्ठोपशान्तये ॥१३॥

सव्रणेषु च कुष्ठेषु तैलं सर्षपजं हितम् ।
लशुनादिकषायश्च पानभुक्त्युपशान्तये ॥१४॥

मातुलुङ्गरसोपेतं मांसीनां रसकेन वा ।
सद्यो दद्यात्तत्र नस्यमन्यैर्वातैः सुसंयुतैः ॥१५॥

पलद्वयं प्रथमेऽह्नि एकैकपलवृद्धितः ।
यावद्दिनानि पूर्णानि पलान्यष्टादशोत्तमे ॥१६॥

अधमेऽष्टपलानि स्युर्मध्यमे स्युश्चतुर्दश ।
शरन्निदाघयोर्नैवदेयं नैव तु दापयेत् ॥१७॥

तैलेन वातिके रोगे शर्कराज्यपयोन्वितैः ।
कटुतैलैः कफे व्योषैः पित्ते चत्रिफलाम्बुभिः ॥१८॥

शालिषष्टिकदुग्धाशी हयो हिन जुगुप्सितः ।
पक्वजम्बूनिभो हेमवर्णोऽश्वो न जुगुप्सितः ॥१९॥

अर्धप्रहरणे धुर्ये गुग्गुलुं प्राशयेद्धयम् ।
भोजयेत्पायसं दुग्धं सत्वरं सुस्थिरो हयः ॥२०॥

विकारे भोजने दुग्धं शाल्यन्नं वातले ददेत् ।
कर्षमांसरसैः पित्ते मधुमुद्गरसाज्यकैः ॥२१॥

कफे मुद्गान्कुलत्थान्वा कटुतिक्तान्कफे हये ।
बाधिर्ये व्याधिते ग्रासे त्रिदोषादौ तु गुग्गुलुः ॥२२॥

घासैर्दूर्वा सर्वरोगे प्रथमेऽह्नि पलं ददेत् ।
विवर्धयेत्ततः कर्षमेकाह्नि पलपञ्चकम् ॥२३॥

पाने च भोजने चैव अशीतिपलकं परम् ।
मध्ये षष्टिश्चाधमेषु चत्वारिंशच्च भोगिषु ॥२४॥

व्रणे कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतम् ।
मन्दाग्नौ शोथरोगे च गवां मूत्रेण योजितम् ॥२५॥

वातपित्ते व्रणे व्याधौ गोक्षीरं घृतसंयुतम् ।
देयं कृशानां पुष्ट्यर्थं मांसैर्युक्तं च भोजनम् ॥२६॥

सुपिष्टायाः प्रदातव्यं गुडूच्याः पलपञ्चकम् ।
प्रभाते घृतसंयुक्तं शरद्गीष्मे च वाजिनाम् ॥२७॥

रोगघ्नं पुष्टिदं चापि बलतेजोविवर्धनम् ।
तदेवाश्वायदातव्यं क्षीरयुक्तमथापि वा ॥२८॥

गुडूचीकल्पयोगेन शतावर्यश्वगन्धयोः ।
चत्वारि त्रीणि मध्यस्य जघन्यस्य पलानि हि ॥२९॥

अकस्माद्यत्र वाहानामेकरूपं यदा भवेत् ।
म्रियते च यदा क्षिप्रमुपसर्गं तमादिशेत् ॥३०॥

होमाद्यै रक्षया विप्रभोजनैर्बलिकर्मणा ।
शान्त्योपसर्गशान्तिः स्याद्धरीतक्यादिकल्पतः ॥३१॥

हरीतकी गवां मूत्रैस्तैलेन लवणान्विता ।
आदौ पञ्च ततः पञ्च वृद्ध्या पूर्णशतावधि ।
उत्तमा च शतं मात्रास्त्वशीतिः षष्टिरेव वा ॥३२॥

गजायुर्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः ।
गजे चतुर्गुणा मात्रास्ताभिर्गजरुगर्दनः ॥३३॥

गजो पसर्गव्याधीनां शमनं शान्तिकर्म च ।
पूजयित्वा सुरान्विप्रान्रत्नैर्गां कपिलां ददेत् ॥३४॥

दन्तिदन्तद्वये मालां निबन्धीयादुपोषितः ।
मन्त्रेण मन्त्रितान्वैद्यैर्वचासिद्धार्थकांस्तथा ॥३५॥

सूर्यादिशिवदुर्गाश्रीविष्ण्वर्चा रक्षयेद्गजम् ।
बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥३६॥

भोजनं मन्त्रितं दद्याद्भस्मनोद्धूनयेद्गजमम् ।
भूतरक्षा शुभा मेध्या वारणं रक्षयेत्सदा ॥३७॥

त्रिफलापञ्चकोले च दशमूलं विडङ्गकम् ।
शतावरीगुडूची च निम्बवासककिंशुकाः ॥३८॥

गजरोगविनाशाय हितो रूक्षः कषायकः ।
आयुर्वेदद्वयोक्तानामुक्तं संक्षेपसारतः ॥३९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गजाश्वायुर्वेदनिरूपणं नामैकाधिकद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:10.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

लुवलुवणे

  • अ.क्रि. 
  • अंगावर उवा , मुंग्या , किडे इ० अतिशय चढणे , चालणे व त्यामुळे खाज सुटून त्रास होणे . 
  • बोलण्याकरितां जीभ वळवळणे ; बोलण्याची जिभेला खाज सुटणे . मी आतां अगदी बोलणार नाही असे म्हणतो पण प्रसंग आला म्हणजे जीभ लुवलुवत्ये , राहवत नाही . [ ध्व . ] 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.