संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १८५ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १८५ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १८५ Translation - भाषांतर हरिरुवाच ।आं गणपतये इति अयं गणपतेर्न्मन्त्रो धनविद्याप्रदायकः ॥१॥इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः ।व्यवहारे जयः स्याच्च शतं जापान्नृणां प्रियः ॥२॥तिलानां तु घृताक्तानां कृष्णानां रुद्र होमयेत् ।अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ॥३॥अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट् ।तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम् ।अपाजितः स्याद्युद्धे च सर्वे तञ्च सिषेविरे ॥४॥जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन हि ।शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥५॥ह्रीङ्कारं सविसर्गञ्च प्रातः काले नरस्तु यः ।स्त्रीणां ललाटे विन्यस्य वशतां नयति ध्रुवम् ॥६॥सुसमाहितचित्तेन विन्यस्य प्रमदालये ।सोत्कामां कामिनीं कुर्यान्नात्र कार्या विचारणा ॥७॥जुहुयादयुतं यस्तु शुचिः प्रयतमानसः ।दृष्टिमात्रे सदा तस्य वश्यमायान्ति योषितः ॥८॥मनः शिलापत्रकञ्च सगोरोचनकुङ्कुमम् ।कृत एभिश्च तिलके वश्यमायान्ति योषितः ॥९॥भृङ्गराट्सहदेवा च वचा श्वेतापराजिता ।तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ॥१०॥गोरोचना मीनपित्तमाभ्याञ्च कृतवर्तिकः ।यः पुमांस्तिलकं कुर्याद्वामहस्तकनिष्ठया ।स करोति वशे सर्वं त्रैलोक्यं नात्र संशयः ॥११॥गोरोचना महादेव ! धातुशोणितभाविता ।एतैर्वैतिलकं कृत्वा सा नरं यं निरीक्षते ।तत्क्षणात्तं वशे कुर्या न्नात्र कार्या विचारणा ॥१२॥नागेश्वरञ्च शैलेयं त्वक्पत्रञ्च हरीतकी ।चन्दनं कुष्ठसूक्ष्मैलारक्तशालिसमन्विता ॥१३॥एतैर्धूपो वशकरः स्मरबाणैः स्मारार्दनः ।रतिकाले महादेव पार्वतीप्रिय शङ्कर ॥१४॥निजशुक्रं गृही त्वा तु वामहस्तेन यः पुमान् ।कामिनीचरणं वामं लिंपेत्स स्यात्स्त्रियाः प्रियः ॥१५॥सैन्धवञ्च महादेव पारावतमलं मधु ।एभिर्लिप्ते तु लिङ्गे वै कामिनीवशकृद्भवेत् ॥१६॥पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च ।तत्तुल्यञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः ।अनेन लिप्तलिङ्गस्य कामिनीवशतामियात् ॥१७॥हयगन्धा च मञ्जिष्ठा मालतीकुसुमानि च ।श्वेतसषर्प एतैश्च लिप्तलिङ्गः स्त्रियाः प्रियः ॥१८॥मूलन्तु काकजङ्घाया दुग्धपीतन्तु शोषनुत् ।अश्वगन्धानागबलागुडमाषनिषेविणः ।रूपं भवेद्यथा तद्वन्नवयौवनचारिणाम् ॥१९॥लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा ।मधुना सेवितं रुद्र परिणामाख्यशूलनुत् ॥२०॥क्वथितोदकपानन्तु शम्बूकक्षारकं तथा ।मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् ।पीत हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ॥२१॥हिङ्गु सौवर्चलं शुण्ठी वृषध्वज महौषधम्? ।एभिस्तु क्वथितं वारि पीतं वै सर्वशूलनुत् ॥२२॥अपामार्गस्य वै मूलं सामुद्रलवणान्वितम् ।आस्वादि तमजीर्णस्य शूलस्य स्याद्विमर्दनम् ॥२३॥वटरोहाङ्कुरो रुद्र तण्डुलोदकघर्षितः ।पीतः सतक्रोऽतीसारं क्षयं नयति शङ्कर ॥२४॥अङ्कोटमूलं कर्षार्धं पिष्टं तण्डुलवारिणा ।सर्वातीसारग्रहणीं पीतं हरति भूतप ॥२५॥मरीचशुण्ठिकुटजत्वक्चूर्णञ्च गुडान्वितम् ।क्रमात्तद्द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥२६॥श्वेतापराजितामूलं हरिद्रासिक्थतण्डुलाः ।अपामार्गत्रिकटुकमेषाञ्च वटिका शिव ।विषूचिकामहाव्याधिं हरत्येव न संशयः ॥२७॥त्रिफलागुरु भूतेश शिलाजतु हरीतकी ।एकैकमेषां चूर्णन्तु मधुना च विमिश्रितम् ।पीतं सर्वञ्च मेहन्तु क्षयं नयति शङ्कर ॥२८॥अर्कक्षीरप्रस्थमेकं तिलतैलं तथैव च ।मनः शिलामरीचानां सिन्दूरस्य पलं पलम् ॥२९॥चूर्णं कृत्वा ताम्रपात्रे त्वातपैः शोषयेत्ततः ।पीतं स्नुहीगतं दुग्धं सैन्धवं शूलनुद्भवेत् ॥३०॥त्रिकटुत्रिफलानक्तं तिलतैलं तथैव च ।मनः शिला निम्बपत्रं जातीपुष्पमजापयः ॥३१॥तन्मूत्रं सङ्खनाभिश्च चन्दनं घर्षयेत्ततः ।एभिश्च वर्तिकां कृत्वा त्वक्षिणी चाञ्जयेत्ततः ॥३२॥नश्यते पटलं काचं पुष्पञ्च तिमिरादिकम् ।विभीतकस्य वै चूर्णं समधु श्वासनाशनम् ॥३३॥पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् ।सर्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥३४॥देवदारोश्च वै चूर्णं अजामत्रेण भावयेत् ।एकविंशतिवारंवैत्वक्षिणी तेन चाञ्जयेत् ।रात्र्यन्धता पटलता नश्येन्निर्लोमता तथा ॥३५॥पिप्पलीकेतकं रुद्र हरिद्रामलकं वचा ।सर्वाक्षिरोगा नश्येयुः सक्षीरादञ्जनात्ततः ॥३६॥काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ।चर्वित्वा दन्तकीटानां विनाशो हि भवेद्धर ॥३७॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मन्त्रतन्त्रवैद्यप्रयोदृपञ्चाशीत्यधिशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP