TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४७

आचारकाण्डः - अध्यायः १४७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १४७
धन्वन्तरिरुवाच ।
वक्ष्ये ज्वरनिदानं हि सर्वज्वरविबुद्धये ।
ज्वरो रोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः ।
क्रुद्धदक्षाध्वरध्वंसिरुद्रोर्ध्वनयनोद्भवः ॥१॥

तत्सन्तापो मोहमयः सन्तापात्मापचारजः ।
विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥२॥

पाकलो गजेष्वभितापो वाजिष्वलर्कः कुक्रुरेषु ।
इन्द्रमदो जलदेष्वप्सु नीलिका ज्योतिरोषधीषु भूम्यामूषरो नाम ॥३॥

हृल्लासश्छर्दनं कासः स्तंभः शैत्य त्वगादिषु ।
अङ्गेषु च समुद्भूताः पिडकाश्च कफोद्भवे ॥४॥

काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा ।
निदानोक्तोनुपशयो विपरीतोपशायिता ॥५॥

अरुचिश्चाविपाकश्च स्तंभमालस्यमेव च ।
हृद्दाहश्च विपाकश्च तन्द्रा चालस्यमेव च ।
वस्तिर्विमर्दावनया दोषाणामप्रवर्तनम् ॥६॥

लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं मुखम् ।
स्वच्छमुष्णगुरुत्वञ्च गात्राणां बहुमूत्रता ।
न विजीर्णं न च म्लानिर्ज्वरस्यामस्य लक्षणम् ॥७॥

क्षुत्क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् ।
दोषप्रवृत्तिरष्टाहान्निरामज्वरलक्षणम् ॥८॥

यथा स्वलिङ्गं संसर्गे ज्वरसंसर्गजोऽपि वा ।
शिरोर्तिमूर्छावमिदेहदाहकण्ठास्यशोषारुचिपर्वभेदाः ।
उन्निद्रता संभ्रमरोमहर्षा जृंभातिवाक्त्वं पवनात्सपित्तात् ॥९॥

तापहान्यरुचिपर्वशिरोरुक्ष्ठीवनश्वसनकासविवर्णाः ।
शीतजाड्यतिमिरभ्रमितन्द्राश्लेष्मवातजनितज्वरलिङ्गम् ॥१०॥

शीतस्तम्भस्वेददाहाव्यवस्थास्तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः ।
मोहस्तन्द्रालिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥११॥

सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः ।
तदुच्छीतं महा निद्रा दिवा जागरणं निशि ॥१२॥

सदा वा नैव वा निद्रा महास्वेदो हि नैव वा ।
गीतनर्तनहास्यादिः प्रकृतेहाप्रवर्तनम् ॥१३॥

साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी ।
अक्षिणी पिण्डिकापार्श्वशिरः पर्वास्थिरुग्भ्रमः ॥१४॥

सस्वनौ सरुजौ कर्णौ महाशीतौ हि नैव वा ।
परिदग्धा खरा जिह्वा गुरुस्त्रस्ताङ्गसन्धिता ॥१५॥

ष्ठीवनं रक्तपित्तस्य लोठनं शिरसोऽतितृट् ।
कोष्ठानां श्यावरक्तानां मण्डलानां च दर्शनम् ॥१६॥

हृद्व्यथा मलंससर्गः प्रवृत्तिर्वाल्पशोऽति वा ।
स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापितः ॥१७॥

दोषपाकश्चिरं तन्द्रा प्रततं कण्ठकूजनम् ।
सन्निपातमभिन्यासं तं ब्रूयाच्च हतौजसम् ॥१८॥

वायुना कण्ठरुद्धेन पित्तमन्तः सुपीडितम् ।
व्यवायित्वाच्च सौख्याच्च बहिर्मर्गं प्रपद्यते ।
तेन हारिद्रनेत्रत्वं सन्निपातोद्भवेज्वरे ॥१९॥

दोषे विवृद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षणः ।
सान्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा ॥२०॥

अन्यत्र सन्निपातोत्थं यत्र पित्तं पृथक्स्थितम् ।
त्वचि कोष्ठे च वा दाहं विदधाति पुरोऽनु वा ॥२१॥

तद्वद्वातकफे शीतं दाहादिर्दुस्तरस्तयोः ।
शीतादौ तत्र पित्तेन कफे स्यान्दितशोषिते ॥२२॥

पित्ते शान्तेऽथ वै मूर्छा मदस्तृष्णा च जायते ।
दाहादौ पुनरन्तेषु तन्द्रालस्ये वमिः क्रमात् ॥२३॥

आगन्तुरभिगाताभिषङ्गशापाभिचारतः ।
चतुर्धा तु कृतः स्वेदो दाहाद्यैरभिघातजः ॥२४॥

श्रमाच्च तस्मिन्पवनः प्रायो रक्तं प्रदूषयन् ।
सव्यथाशोकवैवर्ण्यं सरुजं कुरुते ज्वरम् ॥२५॥

ग्रहावेशौषधिविषक्रोधभीशोककामजः ॥२६॥

अभिषङ्गग्रहोऽप्यस्मिन्नकस्माद्वासरोदने ।
ओषधीगन्धजे मूर्छा शिरोरुग्वमथुः क्षयः ॥२७॥

विषान्मूर्छातिसारश्च श्यावता दाहकृद्भ्रमः ।
क्रोधात्कम्पः शिरोरुक्च प्रलापो भयशोकजे ॥२८॥

कामाद्भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयाः ।
ग्रहादौ सन्निपातस्य रूपादौ मरुतस्तयोः ॥२९॥

कोपात्कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ ।
सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ ॥३०॥

तन्त्रा भिचारिकैर्मन्त्रैर्दूयमानञ्च तप्यते ।
पूर्वञ्चैतस्ततो देहस्ततो विस्फोटदिग्भ्रमैः ॥३१॥

सदाहमूर्छाग्रस्तस्य प्रत्यहं वर्धते ज्वरः ।
इति ज्वरोऽष्टधा दृष्टः समासाद्द्विबिधस्तु सः ॥३२॥

शारीरो मानसः सौम्यस्तीक्ष्णोंन्तर्बहिराश्रयः ।
प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः ॥३३॥

पूर्वं शरिरे शरीरे तापो मनसि मानसे ।
पवनैर्योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् ॥३४॥

दाहः पित्तयुते मिश्रं मिश्रेऽन्तः संश्रये पुनः ।
ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः ॥३५॥

बहिरेव बहिर्वेगे तापोऽपि च स साधितः ।
वर्षाशरद्वसन्तेषु वाताद्यैः प्रकृतः क्रमात् ॥३६॥

वैकृतोऽन्यः स दुः साध्यः प्रायश्च प्राकृतोऽनिलात् ।
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितं ज्वरम् ॥३७॥

कुर्याच्च पित्तं शरदि तस्य चानुचरः कफः ।
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥३८॥

कफो वसन्ते तमपि वातपित्तं भवेदनु ।
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः ॥३९॥

सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ।
ज्वरोपद्रवतीक्ष्णत्वं मन्दाग्निर्बहुमूत्रता ॥४०॥

न प्रवृत्तिर्न विजीर्णा न क्षुत्सामज्वराकृतिः ।
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ॥४१॥

मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ।
जीर्णतामविपर्यासात्सप्तरात्रं च लङ्घनम् ॥४२॥

ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात् ।
प्रायशः सन्निपातेन भूयसामुपदिश्यते ॥४३॥

सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।
धातुमूत्रशकृद्वाहिस्नोत सां व्यापिनो मलाः ॥४४॥

तापयन्तस्तनुं सर्वां तुल्यदृष्ट्यादिवर्धिताः ।
बलिनो गुरवस्तस्याविशेषेण रसाश्रिताः ॥४५॥

सततं निष्प्रतिद्वन्द्वाज्वरं कुर्युः सुदुः सहम् ।
मलं ज्वरोष्णधातून्वा स शीघ्रं क्षपयेत्ततः ॥४६॥

सर्वाकारं रसादीनां शुद्ध्यासुद्ध्यापि वा क्रमात् ।
वातपित्तकफैः सप्तद शद्वादशवासरात् ॥४७॥

प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च ।
इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ॥४८॥

द्विगुणा सप्तमी या च नवम्येकादशी तथा ।
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥४९॥

शुद्ध्याशुद्ध्या ज्वरः कालं दीर्घमप्यत्र वर्तते ।
कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम् ॥५०॥

अल्पोऽपि दोषो दुष्ट्यादेर्लब्ध्वान्यतमतो बलम् ।
स प्रत्यनीको विषमं यस्माद्वृद्धिक्षयान्वितः ॥५१॥

सविक्षेपो ज्वरं कुर्याद्विषमक्षयवृद्धिभाक् ।
दोषः प्रवर्तते तेषां स्वे काले ज्वरयन्बली ॥५२॥

निवर्तते पुनश्चैव प्रत्यनीकबलाबलः ।
क्षीणदोषो ज्वरः सूक्ष्मो रसादिष्वेव लीयते ॥५३॥

लीनत्वात्कार्श्यवैवर्ण्यजाड्यादीनां दधाति सः ।
आसन्नविकृतास्यत्वात्स्रोतसां रसवाहिनाम् ॥५४॥

आशु सर्वस्य वपुषो व्याप्तिदोषो न जायते ।
सन्तः सततस्तेन विपरीतो विपर्ययात् ॥५५॥

विषमो विषमारम्भः क्षपाकालेन सङ्गवान् ।
दोषो रक्ताश्रयः प्रायः करोति सन्ततं ज्वरम् ॥५६॥

अहोरात्रस्य सन्धौ स्यात्सकृदन्येद्युराश्रितः ।
तस्मिन्मांसवहा नाडी मेदोनाडी तृतीयके ॥५७॥

ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः ।
सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः ॥५८॥

चतुर्थको मलैर्मेदोमज्जास्थ्यन्यतरे स्थितः ।
मज्जास्थ एव ह्यपरः प्रभावमनुदर्शयेत् ॥५९॥

द्विधा कफोणिजङ्घाभ्यां स पूर्वं शिरसानिलात् ।
अस्थिमज्जोरुपगतश्चतुर्थकविपर्ययः ॥६०॥

त्रिधा त्र्यहं ज्वरयति दिनमेकन्तु मुञ्चति ।
बला बलेन दोषणामन्यचेष्टादिजन्मनाम् ॥६१॥

पक्रानामविपर्यासात्सप्तरात्रञ्च लङ्घयेत् ।
ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदातदा ॥६२॥

गम्भीरधातुचारित्वात्सन्निपातेन सम्भवात् ।
तुल्योच्छ्रयाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥६३॥

सूक्षामात्सूक्ष्मज्वरेष्वेषु दूरद्दूरतरेषु च ।
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥६४॥

याति देहञ्च नाशेषं सन्तापादीन्करोत्यतः ।
क्रमो यत्नेन विच्छिन्नः सतापो लक्ष्यते ज्वरः ॥६५॥

विषमो विषमारम्भः क्षपाकालानुसारवान् ।
यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथायथम् ॥६६॥

कालेनाप्नोति सदृशान्स रसादींस्तथातथा ।
दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥६७॥

भूमौ स्थितं जलैः सिक्तं कालं नैव प्रतीक्षते ।
अङ्कुराय यथा बीजं दोषबीजं भवेत्तथा ॥६८॥

वेगं कृत्वाविषं यद्वदाशये नयते बलम् ।
कुप्यत्याप्तबलं भूयः कालदोषविषन्तथा ॥६९॥

एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः ।
उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम् ॥७०॥

अरोचको वमिः श्वासः सर्वस्मिन्रसगे ज्वरे ।
रक्तनिष्ठीवनं तृष्णा रूक्षोष्णं पीडकोद्यमः ॥७१॥

दाहरागभ्रममदप्रलापो रक्तसंश्रिते ।
तृड्ग्लानिः स्पृष्टवर्चस्कमन्तर्दाहो भ्रमस्तमः ॥७२॥

दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते ।
स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं वा सहिष्णुता ॥७३॥

प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेदनम् ।
दोषप्रवृत्तिरुद्बोधः श्वासांगक्षेपकूजनम् ॥७४॥

अन्तर्दाहो बहिः शैत्यं श्वासो हिक्का हि मज्जमे ।
तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता ॥७५॥

शुक्रप्रवृत्तौ मृत्युस्तु जायते शुक्रसंश्रये ।
उत्तरोत्तरदुः साध्याः पञ्चान्ये तु विपर्यये ॥७६॥

प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च ।
मन्दज्वरप्रलापस्तु सशीतः स्यात्प्रलेपकः ॥७७॥

नित्यं मन्दज्वरो रूक्षः शीतकृच्छ्रेण गच्छति ।
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेदङ्गबलाशकः ॥७८॥

हरिद्राभेदवर्णाभस्तद्वल्लेपं प्रमेहति ।
स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः ॥७९॥

कफवातौ समौ यत्र हीनपित्तस्य देहिनः ।
तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो ज्वरः ॥८०॥

दिवाकरार्पितबले व्यायामाच्च विशोषिते ।
शरीरे नियतं वाताज्ज्वरः स्यात्पौर्वरात्रिकः ॥८१॥

आमाशये यदात्मस्थे श्लेष्मपित्ते ह्यधः स्थिते ।
तदर्धं शीतलं देहे ह्यर्धं चोष्णं प्रजायते ॥८२॥

काये पित्तं यदा न्यस्तं श्लेष्मा चान्ते व्यवस्थितः ।
उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥८३॥

रसरक्ताश्रयः साध्यो मांस मेदोगतश्च यः ।
अस्थिमज्जागतः कृच्छ्रस्तैस्तैः स्वाङ्गैर्हतप्रभः ॥८४॥

विसंज्ञो ज्रवेगार्तः सक्रोध इव वीक्षते ।
सदोषमुष्णञ्च सदा शकृन्मुञ्चति वेगवत् ॥८५॥

देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् ।
स्वेदः क्षुवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगत्ज्वरलक्षणानि ॥८६॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरनिदानादिकं नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:07.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बरँ जात्लँ जाल्यार राती कित्या हागूं जात् लँ आशिल्लँ?

  • ( गो.) बरें व्हायचें असतें तर रात्रीं शौचाला कां झालें असतें ? एखाद्या रंजल्या गांजलेल्या माणसाला सांगावें कीं, ‘ बाबा, धीर धर. तुझें बरें झाल्यावांचून रहाणार नाहीं. ’ तर तो वैतागून म्हणतो ‘ माझें नशीब समजलें आहे मला. चांगलें व्हायचें असतें तर काल अमुक अमुक संकट माझ्यावर कां आलें असतें ! ’ 
RANDOM WORD

Did you know?

सोळा वर्षाखालील मुलांना शनिची साडेसाती कां त्रस्त करत नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.