TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ६४

आचारकाण्डः - अध्यायः ६४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ६४
॥हरिरुवाच ॥
यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम् ॥
नाभिश्च दक्षिणावर्त्ता सा कन्या कुलवर्धिनी ॥१॥

या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा ॥
सहस्त्राणां तु नारीणां भवेत्सापि पतिव्रता ॥२॥

वक्रकेशा च या कन्या मण्डलाक्षी च या भवेत् ॥
भर्त्ता च म्रियते तस्या नियतं दुः खभागिनी ॥३॥

पूर्णचन्द्रमुखी कन्या बालसूर्य्यसमप्रभा ॥
विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम् ॥४॥

रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता ॥
रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतांव्रजेत् ॥५॥

कार्य्ये च मन्त्री सत्स्त्री स्यात्सती (खी) स्यात्करणेषु च ॥
स्नेहेषु भार्य्या माता स्याद्वेश्या च शयने शुभा ॥६॥

अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत् ॥
पुत्रं प्रसूयते नारी नरेन्द्रं लभते पतिम् ॥७॥

यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ ॥
अन्नतौ चाधरोष्ठौ च क्षिप्रं मारयते पतिम् ॥८॥

यस्याः पाणितले रेखा प्राकारस्तोरणं भवेत् ॥
अपि दासकुले जाता राज्ञीत्वमुपगच्छति ॥९॥

उद्वृत्ता कपिला यस्य रोमराजी निरन्तरम् ॥
अपि राजकुले जाता दासीत्वमुपगच्छति ॥१०॥

यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः ॥
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्त्तते ॥११॥

यस्या गमनमात्रेण भूमिकम्पः प्रजायते ॥
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्त्तते ॥१२॥

चक्षुः स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ॥
त्वचः स्नेहेन शाय्यां च पादस्नेहेन वाहनम् ॥१३॥

स्निग्धोन्नतौ ताम्रनखौ नार्याश्च चरणौ शुभौ ॥
मत्स्याङ्कुशाब्जचिह्नौ च चक्रलाङ्गललक्षितौ ॥१४॥

अस्वेदिनौ मूदुतलौ प्रशस्तौ चरणौ स्त्रियाः ॥
शुभे जङ्घे विरोमे च ऊरू हस्तिकरोपमौ ॥१५॥

अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ॥
नाभिः प्रशस्ता गम्भीरा दक्षिणावर्त्तिका शुभा ॥
अरोमा त्रिवली नार्य्या हृत्स्तनौ रोमवर्जितौ ॥१६॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीलक्षणनिरूपणं नाम चतुः षष्टितमोऽध्यायः ॥६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:02.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

phase analysis

  • प्रावस्था विश्लेषण 
  • प्रावस्था विश्लेषण 
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site