TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६७

आचारकाण्डः - अध्यायः १६७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६७
धन्वन्तरीरुवाच ।
वातरक्तनिदानं ते वक्ष्ये सुश्रुत तच्छृणु ।
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः ॥१॥

प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् ।
स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ॥२॥

अग्निघातादशुद्धेश्च नृणामसृजि दूषिते ।
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः ॥३॥

तादृशैवासृजा रुद्धः प्राक्तदैव प्रदूषयेत् ।
तथा वातो गुदे पीडां बलासं वातशोणितम् ॥४॥

संस्तभ्य जनयेत्पूर्वं पश्चात्सर्वत्र धावति ।
विशेषाद्वमनाद्यैश्च प्रलम्बस्तस्य लक्षणम् ॥५॥

भविष्यतः कुष्ठसमं तथा साम्बुदसंज्ञकम् ।
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु ॥६॥

कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः ।
भूत्वा भूत्वा प्रशाम्यन्ति मुहुराविर्भवन्ति च ॥७॥

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि ।
आखोरिव विलं क्रुद्धः कृत्स्नं देहं बिधावति ॥८॥

त्वङ्मांसाश्रयमत्तानं तत्पूर्वं जायते ततः ।
कालान्तरेण गम्भीरं सर्वधातूनभिद्रवेत् ॥९॥

कट्यादिसंयतस्थाने त्वक्ताम्रश्यावलोहिताः ।
श्वयथुर्ग्रथितः पाकः स वायुश्चास्थिमज्जसु ॥१०॥

छिन्दन्निव चरत्यन्तश्चकीकुर्वंश्च वेगवान् ।
करोति खञ्जं पङ्गुं वा शरीरं सर्वतश्चरन् ॥११॥

वाताधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम् ।
शोथस्य रौक्ष्यं कृष्णत्वं श्यावतावृद्धिहानयः ॥१२॥

धमन्यङ्गुलिसन्धीनां संकोचोङ्गग्रहो तिरुक् ।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥१३॥

रक्ते शोथोऽतिरुक्तोदस्ताम्राश्चिमिचिमायते ।
स्निग्धरूक्षैः समं नैति कण्डुक्लेदसमन्वितः ॥१४॥

पित्ते विदाहः संमोहः स्वादो मूर्छा मदस्तृषा ।
स्पर्शासहत्वं रुग्रावः शोषः पाको भृशोष्मता ॥१५॥

कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतता ।
कण्डूर्मन्दा च रुग्द्बन्द्वं सर्वलिङ्गञ्च संकरात् ॥१६॥

एकदोषञ्च संसाध्यं याप्यञ्चैव द्विदोषजम् ।
त्रिदोषजन्त्यजेदाशु रक्तपित्तं सुदारुणम् ॥१७॥

रक्तमङ्गे निहन्त्याशु शाखासन्धिषु मारुतः ।
निवेश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून् ॥१८॥

वायौ पञ्चात्मके प्राणे रौक्ष्याच्चापल्यलङ्घनैः ।
अत्याहाराभिघाताच्च वेगोदीरणचारणैः ॥१९॥

कुपितश्चक्षुरादीनामुपघातं प्रकल्पयेत् ।
पीनसो दाहतृट्कासश्वासादिश्चैव जायते ॥२०॥

कण्ठरोधोमलभ्रंशच्छर्द्यरोचकपीनसान् ।
कुर्याच्च गलगण्डदींस्तञ्जत्रुमूर्ध्वसंश्रयः ॥२१॥

व्यानोऽतिगमनस्नानक्रीडाविषयचोष्टितैः ।
विरुद्धरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥२२॥

पुंस्त्वोत्साहबलभ्रंशशोकचित्तप्लवज्वरान् ।
सर्वाकारादिनिस्तोदरोमहर्षं सुषुप्तताम् ॥२३॥

कुष्ठं विसर्पमन्यच्च कुर्यात्सर्वाङ्गसादनम् ।
समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः ॥२४॥

करोत्यकालशयनजागराद्यैश्च दूषितः ।
शूलगुल्मग्रहण्यादीन्यकृत्कामाश्रयान्गदान् ॥२५॥

अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः ।
यानपानसमुत्थानचङ्क्रमैश्चातिसेवितैः ॥२६॥

कुपितः कुरुते रोगान्कृत्स्नान् पक्वाशयाश्रयान् ।
मूत्रसुक्रप्रदोषार्शोगुदभ्रंशादिकान्बहून् ॥२७॥

सर्वाङ्गमाततं सामं तन्द्रास्तैमित्यगौरवैः ।
स्निग्धत्वाद्बोध कालस्य शैत्यशोथाग्निहानयः ॥२८॥

कण्डूरूक्षातिनाशेन तद्विधोपशमेन च ।
मुक्तिं विद्यान्निरामं तं तन्द्रादीनां विपर्ययात् ॥२९॥

वायोरावरणं वातो बहुभेदं प्रचक्षते ।
पित्तलिङ्गावृते दाहस्तृष्णा शूलं भ्रमस्तमः ॥३०॥

कटुकोष्णाम्ललवणैर्विदाहशीतकामता ।
शैत्यगौरवशूलाग्निकट्वाज्यपयसोऽधिकम् ॥३१॥

लङ्घनायासरूक्षोष्णकामता च कफावृते ।
कफावृतेऽङ्गमर्दः स्याद्धृल्लासो गुरुतारुचिः ॥३२॥

रक्तवृते सदाहार्तिस्तवङ्मांसाश्रयजा भृशम् ।
भवेत्सरागः श्वयथुर्जायन्ते मण्डलानि च ॥३३॥

शोथो मांसेन कठिनो हृल्लासपिटिकास्तथा ।
हर्षः पिपीलिकानां च संचार इव जायते ।
चललग्रनो मृदुः शीतः शोथो गात्रेषु रोचकः ॥३४॥

आढ्यवात इव ज्ञेयः स कृच्छ्रो मेदसावतः ।
स्पर्श आच्छादितेत्युष्णशीतलश्च त्वनावृते ।
मज्जावृते तु विषमं जृम्भणं परिवेष्टनम् ॥३५॥

शूलञ्च पड्यिमानश्च पाणिभ्यां लभते सुखम् ।
शुक्रावृते तु शोथे वै चातिवेगो न विद्यते ॥३६॥

भुक्ते कुक्षौ रुजा जीर्णे निकृत्तिर्भवति ध्रुवम् ।
मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत् ॥३७॥

छिद्रावृते विबन्धोऽथ स्वस्थानं परिकृन्त ति ।
पतत्याशु ज्वराक्रान्तो मूर्छां च लभते नरः ॥३८॥

सकृत्पीडितमन्येन दुष्टं शुक्रं चिरात्सृजेत् ।
सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ॥३९॥

विलोमे मारुते चैव हृदयं परिपीड्यते ।
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥४०॥

रुजा तन्द्रा स्वरभ्रंशो दाहो व्याने तु सर्वशः ।
क्रमों गचेष्टाभङ्गश्च सन्तापः सहवेदनः ॥४१॥

समान ऊष्मोपहतिः सस्वेदोपरतिः सुतृट् ।
दाहश्च स्यादपाने तु मले हारिद्रवर्णता ॥४२॥

रजोवृद्धिस्तापनञ्च तथा चानाहमेहनम् ।
श्लेष्मणा प्रावृते प्राणे नादः स्नोतोऽवरोधनम् ॥४३॥

ष्ठीवनञ्चैव सस्वेदश्वासनिः श्वाससंग्रहः ।
उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः ॥४४॥

बलवर्णप्रणाशश्चा पाने पर्वास्थिसंग्रहः ।
गुरुताङ्गेषु सर्वेषु स्थूलत्वञ्चागतं भृशम् ॥४५॥

समानेऽतिक्रियाज्ञत्वमस्वेदो मन्दवह्निता ।
अपाने सकलं मूत्रं शकृतः स्यात्प्रवर्तनम्? ॥४६॥

इति द्वाविंशतिविधं वातरक्तामयं विदुः ।
प्राणादयस्तथान्योऽन्यं समाक्रान्ता यथाक्रमम् ॥४७॥

सर्वेऽपि विंशतिविधं विद्यादावरणञ्च यत् ।
हृल्लासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः ॥४८॥

हृद्रोगो मुखशोषश्च प्राणेनापान आवृते ।
उदानेनावृते प्राणे भवेद्धै बलसंक्षयः ॥४९॥

विचारणेन विभजेत्सर्वमावरणं भिषक् ।
स्थानान्यपेक्ष्य वातानां वृर्धिहानिं च कर्मणाम् ॥५०॥

प्राणादीनाञ्च पञ्चानां पित्तमावरणं मिथः ।
पित्तादीनामावसतिर्मिश्राणां मिश्रितैश्च तैः ॥५१॥

मिश्रैः पित्तादिभिस्तद्वन्मिश्राण्यपित्वनेकधा ।
तांल्लक्षयेदवहितो यथास्वं लक्षणोदयात् ॥५२॥

शनैः शनैश्चोपशयान्दृढानपि मुहुर्मुहुः ।
विशेषाज्जीवितं प्राण उदानो बलमुच्यते ।
स्यात्तयोः पीडनाद्धनिरायुषञ्च बलस्य च ॥५३॥

आवृता वायवोऽज्ञाता ज्ञाता वा स्थानविच्युताः ।
प्रयत्नेनापि दुः साध्या भवेयुर्वानुपद्रवाः ॥५४॥

विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः ।
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षया ॥५५॥

निदानं सुश्रुत ! मया आत्रेयोक्तं समीरितम् ।
सर्वरोगविवेकाय नराद्यायुः प्रवृद्धये ॥५६॥

एवं विज्ञाय रोगादींश्चिकित्सामथ वै चरेत् ।
त्रिफला सर्वरोगघ्नी मध्वाज्यगुडसंयुता ॥५७॥

सव्योषा त्रिफला वापि सर्वरोगप्रमर्दिनी ।
शतावरीगुडूच्यग्निविडङ्गेन युताथवा ॥५८॥

शतावरी गुडूच्यग्निः शुण्ठीमूषलिका बला ।
पुनर्नवा च बृहती निर्गुण्डी निम्बपत्रकम् ॥५९॥

भृङ्गराजश्चामलकं वासकस्तद्रसेन वा ।
भाविता त्रिफला सप्तवारमेखमथापिवा ॥६०॥

पूर्वोक्तश्च यथालाभयुक्तैश्चूर्णञ्च मोदकः ।
वटिका घृततैलं वा कषायो शोषरोगनुत् ।
पलं पलार्धकं वापि कर्षं कर्षार्धमेव वा ॥६१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातरक्तनि सप्तषष्ट्याधिकशततमोध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.8030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

allene

  • न. ऍलीन 
RANDOM WORD

Did you know?

देव्हार्‍यात कोणत्या दिशेला दिव्याची वात असावी, त्याचे फायदे तोटे काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.