TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १८४

आचारकाण्डः - अध्यायः १८४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १८४
हरिरुवाच ।
रजनीकदलीक्षारलेपः सिध्मविनाशनः ।
कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा ।
उष्णोदकेन संपीय कटिशूलविनाशनम् ॥१॥

अभया नवनीतञ्च शर्करापिप्पलीयुतम् ।
पानादर्शोहरं स्याच्च नात्र कार्या विचारणा ॥२॥

आटरूषकपत्रेण घृतं मृद्वग्निना पचेत् ।
चूर्णं कृत्वा तु लेपोऽयं अर्शरोगहरः परः ॥३॥

गुग्गुलुत्रिफलायुक्तं पीत्वा नश्येद्भगन्दरम् ।
अजाजीशृङ्गवेरञ्च दथा मण्डं विपाचयेत् ॥४॥

लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् ।
यवक्षारं शर्करा च मूत्रकृच्छ्रविनाशकृत् ॥५॥

चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च ।
सौभाञ्जनं वासनेत्रं नर एतैस्तु धूपितः ।
अदृश्यस्त्रिदशैः सर्वैः किं पुनर्मानवैः शिव ॥६॥

तिलतैलं यवान्दग्ध्वा मषीं कृत्वा तु लेपयेत् ।
तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥७॥

लज्जालोः शरपुङ्खाया लेपः साज्योऽग्निनाशनः ।
ओं नमो भगवते ठ ठ छिन्धि छिन्धि ज्वलनं प्रज्वलितं नाशय नाशय हुं फट् ॥८॥

करे बद्धं तु निर्गुण्ड्या मूलं ज्वरहरं द्रुतम् ।
मूलञ्च श्वेतगुञ्जायाः कृत्वा तत्सप्तखण्डकम् ॥९॥

हस्ते बध्वा नाशयेच्च अर्शांस्येव न संशयः ।
विष्णुक्रान्ताजमूत्रेण चौरव्याघ्नादिरक्षणम् ॥१०॥

ब्रह्मदण्ड्यास्तु मूलानि सर्वकर्माणि कारयेत् ।
त्रिफलायास्तु चूर्णं हि साज्यं कुष्ठविनाशनम् ॥११॥

आज्यं पुनर्नवाबिल्वैः पिप्पलीभि साधितम् ।
हरेद्धक्कां श्वासकासौ पीतं स्त्रीणाञ्च गर्भकृत् ॥१२॥

भक्षयेद्वा नरीबीजं पयसाज्येन पाचितम् ।
घृतशर्करया युक्तं शुक्रः स्यादक्षयस्ततः ॥१३॥

विडङ्गं मधुकं पाठां मांसीं सर्जरसं तथा ।
रहिद्रां त्रिफलाञ्चैव मपामार्गं मनः शिलाम् ॥१४॥

उदुम्बरं धातकीञ्च तिलतैलेन पषेयेत् ।
योनिं लिङ्गं च म्रक्षेत स्त्रीपुसोः स्यात्प्रियं मिथः ॥१५॥

नमस्ते ईशवरदाय आकर्षिणि विकर्षिणि मुग्धे स्वाहा इति ।
योनिलङ्गस्य तैलेन शङ्कर म्लक्षणात्ततः ॥१६॥

पुनर्नवामृता दूर्वा कनकञ्चैन्द्रवारुणी ।
बीजे नैषां जातिकाया रसेन रसमर्दनम् ॥१७॥

मूषाय मध्यगं कृत्वा रसं मारणमीरितम् ।
मध्वाज्यसहितं दुग्धं वलीपलितनाशनम् ॥१८॥

मध्वाज्यं गुडताम्रञ्च कारवेल्लरसस्तथा ।
दहनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥१९॥

पीतं धरत्तूपुष्पञ्च सीसकञ्च पलं मतम् ।
लाङ्गलिकायाः शाखा च स्वर्णञ्च दहनाद्भवेत् ॥२०॥

धत्तूरबीजतैलेन दीपप्रज्वलनाद्धर ।
समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥२१॥

वृषस्य मृन्मयस्यैव युक्तो भेको निगृह्यते ।
शङ्करावयवैर्युक्तो धूपं घ्रात्वा च गर्जति ।
विस्मयं कुरुते चैव वृषवन्नात्र संशयः ॥२२॥

रात्रौ च सार्षपं तैलं कीटं खद्यो तनामकम् ।
ताभ्यां दीपः प्रज्वलितो वाग्मिज्वालकलापवत् ॥२३॥

चूर्णं छुच्छुन्दरीधं दग्ध्वा रुद्र प्रलेपयेत् ।
तप्यते तक्षणाद्दग्धो यदि सम्यक्प्रलेपयेत् ।
चन्दनेन भवेन्मोक्षः पानाल्लेपात्सुखी भवेत् ॥२४॥

कुञ्जरस्य मदाक्तस्य स्वयं नेत्रे शिववाञ्जयेत् ।
युद्धे विजयते सोऽपि महाशूरश्च जायते ॥२५॥

दन्तं डुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् ।
तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा ॥२६॥

कुम्भीरनेत्रदंष्ट्राश्च अस्थीनि रुधिरं तथा ।
वसातैलसमायुक्तमेकत्र तन्नियोजयेत् ।
आत्मानं म्लक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ॥२७॥

कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च ।
मूषिकस्य वसास्थीनि शिशुमारवसा तथा ।
एतान्येकत्र संलेपाज्जले तिष्ठेद्यथा गृहे ॥२८॥

लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् ।
तण्डुलीय कगोक्षूरमूलं पीतं पयोन्वितम् ॥२९॥

कमलादिहरंपितं मुखरोगहरं तथा ।
जातीमूलं तक्रपीतं कोलमूलं त्वजीर्णनुत् ॥३०॥

सतक्रं कुशमलं वा मर्कटी मूलमेव वा ।
काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत् ॥३१॥

तथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत् ।
सुरभिकामूलपा नाद्वा तन्नाशो भवेच्छिव ॥३२॥

शिरोरोगहरं लेपाद्गुञ्जाचूर्णं सकाञ्जिकम् ।
बला चातिबला यष्टी शर्करा मधुसंयुता ॥३३॥

वन्ध्यागर्भकरी पीता नात्र कार्या विचारणा ।
श्वेतापराजितामूलं पिप्पलीशुण्ठिकायुतम् ॥३४॥

परिपिष्टं शिरोलेपाच्छिरः शूलविनाशनम् ।
निर्गुण्डिकाशिखां पीत्वा गण्डमालां विनाशयेत् ॥३५॥

केतकीपत्रजं क्षारं गुडेन सह भक्षयेत् ।
तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत् ॥३६॥

मातुलङ्गस्य निर्यासं गुडाज्येन समन्वितम् ।
वातपित्तजशूलानि हन्ति वै पानयोगतः ।
शुण्ठी सौवर्चलं हिङ्गु पीतं हृदयरोगनुत् ॥३७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यशास्त्रे चतुरशीत्यधिकशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:09.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

double damages

  • स्त्री. दुप्पट नुकसानभरपाई 
  • स्त्री. दुहेरी नुकसानभरपाई 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.