TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १७३

आचारकाण्डः - अध्यायः १७३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १७३
धन्वन्तरिरुवाच ।
द्रव्याणि मधुरादीनि वक्ष्ये रागहराण्यहम् ।
शालिषष्टिकगोधृमक्षीरं घृतं रसा मध ॥१॥

मज्जाशृङ्गाटकयवकशेर्विवारुगीक्षुरम् ।
गम्भगी पौष्करं बीजं द्राक्षा खर्जूरकं बला ॥२॥

नारिकलेक्ष्वात्मणुप्ता विदारी च प्रियालकम् ।
मधुकं तालकष्माण्डं मुख्योऽयं मधुरो गणः ॥३॥

मूर्छादाहप्रशमनः पडिन्द्रियप्रसादनः ।
कृमिकृत्कफकृच्चैव एकोऽत्यर्थ निपेवितः ॥४॥

श्वासकासाम्यमाधुर्यस्वरघातार्वुदानि च ।
गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥५॥

दाडिमामलकाम्रं च कपित्थकरमर्दकौ ।
मातुलुङ्गाम्रातकं च बदरं तिन्तडीफलम् ॥६॥

दधि तक्रं काञ्जिकं च लकुचं चाम्लवे तसम् ।
अम्लो लोणः शुण्ठीयुक्तो जारणः पाचनो रसः ॥७॥

क्लेदनो वातकृद्धृप्यो विदाही चानुलोमनः ।
अम्लोऽत्यर्थं सेव्यमानः कुर्याद्धै दन्तहर्षकम् ॥८॥

शरीरस्य च शैतिल्यं स्वरकण्ठास्यहृद्दहेत् ।
छिन्नभिन्नव्रणादीनि पाचयित्वाग्निभावितः ॥९॥

लवणानि यवक्षारसर्जिकादिश्च लावणः ।
शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥१०॥

मार्गरोधी मार्दवकृत्स एकः परिषेवितः ।
गात्रकण्डूकोष्ठशोथवैवर्ण्यं जनयेद्रसः ।
रक्तवातं पित्तरक्तं पुंस्त्वेन्द्रियरुजादिकम् ॥११॥

व्योषशिग्रूमूलकं देवदारु च कुष्ठकम् ।
लशुनं वल्गुजी फलं मुस्तागुग्गुलुलाङ्गली ॥१२॥

कटुको दीपनः शोधी कुष्ठकण्डूकफान्तकृत् ।
स्थौल्यालस्यक्रिमिहरः शुक्रमेदोविरोधनः ।
एकोऽत्यर्थं सेव्यमानः भ्रमदाहादिकृद्भवेत् ॥१३॥

कृतमालः कीराणि हरिद्रेन्द्रयवास्तथा ।
स्वादुकण्टकवेत्राणि बृहतीद्वयशङ्खिनी ॥१४॥

गुडूची चद्रवन्ती च त्रिवृन्मण्डूकपर्ण्यपि ।
कारवेल्लकवार्ताकुकरवीरकवासकाः ॥१५॥

रोहिणी शङ्खचूर्णं च कर्कोटो वै जयन्तिका ।
जातीवारुणकं निम्बो ज्योतिष्मती पुनर्नवा ॥१६॥

तिक्तो रसश्छेदनः स्याद्रोचनी दीपनस्तथा ।
शोधनो ज्वरतृष्णाघ्नो मूर्छाकण्ठार्तिकादिजित् ॥१७॥

विण्मूत्रक्लेदसंशोषो ह्यत्यर्थं स च सेवितः ।
हनुस्तम्भाक्षेपकार्तिशिरः शूलब्रणादिकृत् ॥१८॥

त्रिफलासल्लकीजम्बु आम्रातकवचादिकम् ।
तिन्दुकं वकुलं शालं पालङ्कीमुद्गचिल्लकम् ॥१९॥

कषायो ग्राहको रोपी स्तम्भनक्लेदशोषणः ।
एकोऽत्यर्थं सेव्यमानो हृदये चाथ पीडकः ।
मुखशोषज्वराध्मानमन्यास्तम्भादिकारकः ॥२०॥

हरिद्राकुष्ठलवणं मेषशृङ्गिबलाद्वयम् ।
कच्छुरा सल्लकी पाठा पुनर्नवा शतावरी ॥२१॥

अग्नि मन्थो ब्रह्मदण्डी श्वदंष्ट्रैरण्डके तथा ।
यवकोलकुलत्थादिकर्षाशी दशमूलकम् ।
पृथक्समस्तो वातातोर्बहुपित्तहरस्तथा ॥२२॥

शतावरी विदारी च बालकोशीरचन्दनम् ।
दूर्वा वटः पिप्पली च बदरी सल्लकी तथा ॥२३॥

कदली चोत्पलं पद्ममुदुम्बरपटोलकन् ।
अथ श्लेष्महरो वर्गो हरिद्रागुडकुष्ठकम् ॥२४॥

शतपुष्पी च जाती च व्योषारग्वधलाङ्गली ।
सर्पिस्तैलवसामज्जाः स्नेहेषु प्रवरं स्मृतम् ॥२५॥

तथा धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् ।
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ॥२६॥

देयं बहुकफे वापि व्योषक्षारसमायुतम् ।
ग्रन्थिनाडीकृमिस्लेष्ममेदोमारुतरोगिषु ॥२७॥

तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु ।
वातातपाम्बुभारस्त्रीव्यायामक्षीणधातुषु ॥२८॥

रूक्षक्लेशक्षयात्याग्निवाता वृतपथेषु ।
अथ दग्ध्वा शिराजालं योनिकर्म शिरोरुजि (जम् ) ॥२९॥

उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ।
जघन्यस्य पलार्धेन स्नेहक्वाथौषधेषु च ॥३०॥

जलमुष्णं घृते देयं पृथक्तैले तु शस्यते ।
सेनेहे पित्ते तु तृष्णायां पिबेदुष्णोदकं नरः ॥३१॥

वातानुलोमं दीप्ताग्रर्वर्चः स्निग्धस्य तन्मतम् ।
रूक्षम्य स्नेदृनं कार्यमभिस्निग्धस्य रूक्षणम् ॥३२॥

श्यामाककोरदोषान्नतक्रपिण्याकसकुभिः ।
वातश्लेष्माणि वाते वा कफे वा स्वेद इष्यते ।
न स्वेदयेदतिम्थूलरूक्षदुर्वलमूर्छितान् ॥३३॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे योगसमदिवर्णनं नाम त्रिसप्तन्युत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:09.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

periductal

  • Zool. परिवाहिनी- 
  • परिवाहिनी- 
  • = periductile 
  • परिवाहिनी- 
RANDOM WORD

Did you know?

mahavakya panchikaran he pustak upalabdha hoil ka ?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.