TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०७

आचारकाण्डः - अध्यायः १०७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १०७
सूत उवाच ।
पराशरोऽब्रवीद्व्यासं धर्मं वर्णाश्रमादिकम् ।
कल्पेकल्पे क्षयोत्पत्त्या क्षीयन्ते नु प्रजादयः ॥१॥

श्रुतिः स्मृतिः सदाचरो यः कश्चिद्वे दकर्तृकः ।
वेदाः स्मृता ब्राह्मणादौ धर्मा मन्वादिभिः सदा ॥२॥

दानं कलियुगे धर्मः कर्तारं च कलौ त्यजेत् ।
पापकृत्यं तु तत्रैव शापं फलति वर्षतः ॥३॥

आचारात्प्राप्नुयात्सर्वं षट्कर्माणि दिनेदिने ।
सन्ध्या स्नानं जपो होमो देवातिथ्यादिपूजनम् ॥४॥

अपूर्वः सुव्रती विप्रो ह्यपूर्वा यतयस्तदा ।
क्षत्त्रियः परसैन्यानि जित्वा पृथ्वीं प्रपालयेत् ॥५॥

वणिक्कृष्यादि वैश्ये स्याद्द्विजभक्तिश्च शूद्रके ।
अभक्ष्यभक्षणाच्चौर्यादगम्या गमनात्पतेत् ॥६॥

कृषिं कुर्वन्द्विजः श्रान्तं बलीवर्दं न वाहयेत् ।
दिनार्धं स्नानयोगादिकारी विप्रांश्च भोजयेत् ॥७॥

निर्वपेत्पञ्च यज्ञानि क्रूरे निन्दां च कारयेत् ।
तिलाज्यं न विक्रीणित सूनायज्ञमघान्वितः ॥८॥

राज्ञो दत्त्वा तु षड्भागं देवतानां च विंशतिम् ।
त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यते ॥९॥

कर्षकाः क्षत्त्रविट्छूद्राः खलेऽदत्त्वा तु चौरकः ।
दिनत्रयेण शुध्येत ब्राह्मणः प्रेतसूतके ॥१०॥

क्षत्त्रो दशाहाद्वैश्यास्तु द्वादशाहान्मासि शूद्रकः ।
याति विप्रो दशाहात्तु क्षत्त्रो द्वादशकाद्दिनात् ॥११॥

पञ्चदशाहाद्वैश्यस्तु शूद्रो मासेन शुध्यति ।
एकपिण्डास्तु दायादाः पृथग्द्वारनिकेतनाः ॥१२॥

जन्मना च विपत्तौ च भवेत्तेषां च सूतकम् ।
चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे ॥१३॥

षष्ठे चतुर हाच्छुद्धिः सप्तमे च दिनत्रयम् ।
देशान्तरे मृते बाले सद्यः शुद्धिर्यतो मृते ॥१४॥

अजातदन्ता ये बाला ये च गर्भाद्विनिः सृताः ।
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥१५॥

यदि गर्भो विपद्यत स्त्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भस्तावद्दिनानि सूतकम् ॥१६॥

आनामकरणात्सद्य आचूडान्तादहर्निशम् ।
आव्रतात्तु त्रिरात्रेण तदूर्ध्वन्दशभिर्दिनैः ॥१७॥

आचतुर्थाद्भवेत्स्त्रवः पातः पञ्चमषष्ठयोः ।
ब्रह्मचर्या दग्निहोत्रान्नाशुद्धिः सङ्गवर्जनात् ॥१८॥

शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः ।
अग्निमाञ्छ्रोत्रियो राजा सद्यः शौचाः प्रकीर्तिताः ॥१९॥

दशाहाच्छुध्यते माता स्नानात्सूते पिता शुचिः ।
सङ्गात्सूतौ सूतकं स्यादुपस्पृश्य पिता शुचिः ॥२०॥

विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
पूर्वसंकल्पितादन्यवर्जनं च विधीयते ॥२१॥

मृतेन शुध्यते सूतिः मृतवज्जातकं जनौ ।
गोग्रहादौ विपन्नानामेकरात्रं तु सूतकम् ॥२२॥

अनाथप्रेतवहनात्प्राणायामेन शुध्यति ।
प्रेतशूद्रस्य वहनान्त्रिरात्रमशुचिर्भवेत् ॥२३॥

आत्मघातिविषोद्वन्धकृमिदष्टे न संस्कृतिः ।
गोहतं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यति ॥२४॥

अदुष्टापतितं भार्या यौवने या परित्यजेत् ।
सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः ॥२५॥

बालहत्या त्वगमनादृतौ च स्त्री तु सूकरि ।
अगम्या व्रतकारिण्यो भ्रष्टपानोदकक्रियाः ॥२६॥

औरसः क्षेत्रजः पुत्रः पितृजौ पिण्डदौ पितुः ।
परिवित्तेस्तु कृच्छ्रं स्यात्कन्यायाः कृच्छ्रमेव च ॥२७॥

अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणञ्चरेत् ।
कुब्जवामनषण्डेषु गद्गदेषु जडेषु च ॥२८॥

जात्यन्धबधिरे मूके न दोषः परिवेदने ।
नष्टे मृते प्रव्रजिते क्लीबे वा पतिते पतौ ॥२९॥

पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।
भर्त्रा सहमृता नारी रोमाब्दानि वसेद्दिवि ॥३०॥

श्वादिदष्टस्तु गायत्त्र्या जपाच्छुद्धो भवेन्नरः ।
दाह्यो लोकाग्निना विप्रश्चाण्डालाद्यैर्हतोऽग्निमान् ॥३१॥

क्षीरैः प्रक्षाल्य तस्यास्थि स्वाग्निना मन्त्रतो दहेत् ।
प्रवासे तु मृते भूयः कृत्वा कुशमयं दहेत् ॥३२॥

कृष्णाजिने समास्तीर्य षट्शतानि पलाशजान् ।
शमीं शिश्रे विनिः क्षिप्य अरणिं वृषणे क्षिपेत् ॥३३॥

कण्डं दक्षिणहस्ते तु वामहस्ते तथोपभृत् ।
पार्श्वे तूलूखलं दद्यात्पृष्ठे तु मुसलं ददेत् ॥३४॥

उरे निः क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे ।
श्रोत्र च प्रोक्षणीं दाद्यदाज्यस्थालीं च चक्षुषोः ॥३५॥

कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलान् क्षिपेत् ।
अग्निहोत्रोपकरणाद्ब्रह्मलोकगतिर्भवेत् ॥३६॥

असौ स्वर्गाय लोकाय स्वाहेत्याज्याहुतिः सकृत् ।
हंससारसक्रौञ्चानां चक्रवाकं च कुक्रुटम् ॥३७॥

मयरमेषघाती च अहोरात्रेण शुध्यति ।
पक्षिणः सकलान्हत्वा अहोरात्रेण शुध्यति ॥३८॥

सर्वांश्चतुष्पदान्हत्वा अहोरात्रो षितो जपेत् ।
शूद्रं हत्वा चरेत्कृच्छ्रमतिकृच्छ्रं तु वैश्यहा ।
क्षत्त्रं चान्द्रायणं विप्रं द्वाविंशात्रिंशमाहरे (वहे) त् ॥३९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पराशरोक्तधर्मनिरूपणं नाम सप्तोत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:05.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अंबाडी

  • स्त्री. १ अंबाडा अर्थ १ पहा . २ या झाडाचें बी ( यापासून तेल काढतात ). ३ याचें तंतुमय वेष्टन - त्वचा ; यापासून दोर करतात . ४ याचीं पानें - भाजी म्हणुन ही खातात , ५ अंब्यांची कैरी . ६ अंब्याचें रोप . ७ ( गो .) कैर्‍यांचें नुसतें मीठ घालुन केलेलेम तोंडीलावणे . केसांची 
  • पु. एक मासा ( वाळलेलें सुकट ) 
  • पु. बेदाण्यातील एक जात . - मुंव्या १०८ . 
  • स्त्री. अंबाडीचें पान ; मोठ्या व तिखट पानांची नागवेलीची एक जात . ( म्हैसुर संस्थानांत अंबाडीं नांवाचें गाव आहे , त्यावरुन ; का . अंबाडी येले .) 
More meanings
RANDOM WORD

Did you know?

मूल जन्मानंतर पांचव्या दिवशी सटवाई पूजन करतात, ते काय आहे?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.