TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६४

आचारकाण्डः - अध्यायः १६४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६४
धन्वन्तरिरुवाच ।
मिथ्याहारविहारेण विशेषेण विरोधिना ।
साधुनिन्दावधाद्युद्धहरणाद्यैश्च सेवितैः ॥१॥

पाप्मभिः कर्मभिः सद्यः प्राक्तनैः प्रेरितामलाः ।
शिराः प्रपद्य तैर्युक्तास्त्वग्वसारक्तमामिषम् ॥२॥

दूषयन्ति च संशोष्य निश्चरन्तस्ततो बहिः ।
त्वचः कुर्वान्ति वैवर्ण्यं शिष्टाः कुष्ठमुशन्तितम् ॥३॥

कालेनोपेक्षितं यत्स्यात्सर्वं कोष्ठानि तद्वपुः ।
प्रपद्य धातून्बाह्यान्तः सर्वान्संक्लेद्य चावहेत् ॥४॥

सस्वेदक्लेदसङ्कोचान्कृमीन् सूक्ष्मांश्चदारुणान् ।
लोमत्वक्स्नायुधमनीराक्रामति यथाक्रमम् ॥५॥

भस्माच्छादितवत्कुर्याद्बाह्यं कुष्ठमुदाहृतम् ।
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ॥६॥

सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकस्ततः ।
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ॥७॥

मण्डलाख्यं विचर्चो च ऋष्याख्यं वातपित्तजम् ।
चर्मैककुष्ठं किटिमं सिध्मालसविपादिकाः ॥८॥

वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रूशतारुषी ।
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ॥९॥

सर्वेभ्यः काकणं पूर्वत्रिकं दद्रु सकाकणम् ।
पुण्डरीकर्यजिह्वे च महाकुष्ठानि सप्त तु ॥१०॥

अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः ।
दाहः कण्डूस्त्वचि स्वापस्तोदः कोचोन्नतिस्तमः ॥११॥

व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम् ॥१२॥

रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् ।
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ॥१३॥

विस्तृताकृतिपर्यस्तन्दूषितैर्लोमभिश्चितम् ।
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥१४॥

उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत् ।
वर्तुलं बहुलकेत्युक्तं दाहरुजाधिकम् ॥१५॥

असंच्छन्नमदरणं कृमिवत्स्यादुदुम्बरम् ।
स्थिरं सत्यानं गुरु स्निग्धं श्वेतरक्तं मलान्वितम् ॥१६॥

अन्योन्यसक्तपुच्छूनबहुकण्डूस्नुतिकृमि ।
श्लक्ष्णपीताभासंयुक्तं मण्डलं परिकीर्तितम् ॥१७॥

सकण्डूपिटिका श्यावा सक्लेदा च विचर्चिका ।
परुषन्तत्ररक्तान्तमन्तः श्यामं समुन्नतम् ॥१८॥

ऋष्यजिह्वाकृतिप्रोक्तं ऋष्यजिह्वं बहुक्रिमि ।
हस्तिचर्मखरस्पर्शं चर्माख्यं कुष्ठमुच्यते ॥१९॥

अस्वेदञ्चमत्स्यशल्कसन्निभं किटिमं पुनः ।
रूक्षाग्निवर्णं दुः स्पर्शं कण्डूमत्परुषासितम् ॥२०॥

अन्ता रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत् ।
श्लक्ष्णस्पर्शं तनु स्निग्धं स्वच्छमस्वेदपुष्पवत् ॥२१॥

प्रायेण चोर्ध्वकार्श्यञ्च कुण्डैः कण्डूपरैश्चितम् ।
रक्तैरलंशुका पाणिपादे कुर्याद्विपादिका ॥२२॥

तीव्रार्तिं गाढकण्डूञ्च सरागपिडिकाचितम् ।
दीर्घप्रतानदूर्वावदतसीकुसुमच्छवि ॥२३॥

उच्छूनमण्डलो दद्रुः कण्डूमानिति कथ्यते ।
स्थूलमूलं सदाहार्ति रक्तस्त्रावं बहुव्रणम् ॥२४॥

सादहकक्लेदरुजं प्रायशः सर्वजन्म च ।
रक्ताक्तमण्डलं पाण्डु कण्डूदाहरुजान्वितम् ॥२५॥

सोत्सेधमाचितं रक्तैः कञ्जपर्णमिवाम्बुभिः ।
पुण्डरीकं भवेत्तद्धि चितं स्फोटैः सितारुणैः ॥२६॥

विस्फोटपिटिका पामा कण्डूक्लेदरुजान्विताः ।
सूक्ष्मा श्यामारुणा रूक्षा प्रायः स्फिक्पाणिकूर्परे ॥२७॥

सस्फोटसंस्पर्शसहं कण्डूरक्तातिदाहवत् ।
रक्तदलं चर्मदलं काकणं तीव्रदाहरुक् ॥२८॥

पूर्वरक्तञ्च कृष्णञ्च काकणं त्रिफलोपमम् ।
कृष्णलिङ्गैर्युतैः सर्वैः स्वस्वकारणतो भवेत् ॥२९॥

दोषभेदाय विहितैरादिशेल्लिङ्गकर्मभिः ।
कुष्ठस्वदोषानुगतं सर्वदोषगतं त्यजेत् ॥३०॥

कुष्ठोक्तं यच्च यच्चास्थिमज्जाशुक्रसमाश्रयम् ।
कृच्छ्रं मेदोमतञ्चैव याप्यं स्नाप्वास्थिमांसगम् ॥३१॥

अकृच्छ्रं कफवातोत्थं त्वग्गतं त्वमलञ्च यत् ।
तत्र त्वचि स्थिते कष्ठे काये वैवर्ण्यरूक्षाता ॥३२॥

स्वेदतापश्वयथवः शोणिते पिशिते पुनः ।
पाणिपादाश्रिताः स्फोटाः क्लेशात्सन्धिषु चाधिकम् ॥३३॥

दोषस्याभीक्ष्णयोगेन दलनं स्याच्च मेदसि ।
नातिसंज्ञास्ति मज्जास्थिनेत्रवेगस्वरक्ष्यः ॥३४॥

क्षते च क्रिमिभिः शुक्रे स्वदारापत्यबाधनम् ।
यथापूर्वाणि सर्वाणि स्वलिङ्गानि मृगादिषु ॥३५॥

कष्ठैकसम्भवं श्वित्रं किलासं दारुणं भवेत् ।
निर्दिष्टमपरिस्त्रावि त्रिधातूद्भवसंश्रयम् ॥३६॥

वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।
सदाहं रोमविध्वंसि कफाच्छ्वेतं घन गुरु ॥३७॥

सकण्डूरं क्रमाद्रक्तमांसमेदः सु चादिशेत् ।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥३८॥

अशुक्लरोमबहुलमसंश्लिष्टं मिथो नवम् ।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥३९॥

गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तरम् ।
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छिता ॥४०॥

स्पर्शैकाहारसंगादिसेवनात्प्रायशो गदाः ।
एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात् ॥४१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कुष्ठरोगनिदान नाम चतुः षष्ट्युत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भसाडा

  • वि. 
  • भरड व जाड ( गवत , सूत इ० ). 
  • बेढब व बोजड ( अक्षर , आकृति , चिन्ह , दागिना , वस्तु ). 
  • भरड ; राठ ; ओबडधोबड ( काम ). 
More meanings
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.