TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २२६

आचारकाण्डः - अध्यायः २२६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २२६
सूत उवाच वक्ष्ये साङ्गं महायोगं भुक्तिमुक्तिकरं परम् ।
सर्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥१॥

ममेति मूलं दुः खस्य न ममेति निवर्तनम् ।
दत्तात्रेयो ह्यलर्काय इममाह महामतिः ॥२॥

अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान्महान् ।
गृहक्षेत्राणि शाखाश्च यत्र दाराभिपल्लवः ॥३॥

धनधान्ये महापत्रे पापमूलोऽतिदुर्गमः ।
विधिवत्सुखशान्त्यर्थं जातोऽज्ञानमहातरुः ॥४॥

छिन्नो विद्याकुठारेण ते गता लयमीश्वरे ।
प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् ॥५॥

प्राप्नुवन्ति पराः प्राज्ञाः सुखनिर्वृतिमेव च ।
मूर्तेन्द्रियलयं नूनं न त्वं राजन्न चाप्यहम् ॥६॥

न तन्मात्रादिकं वाचा नैवान्तः करणं तथा ।
कं वा पश्यसि राजेन्द्र प्रधानमिदमावयोः ॥७॥

मृतः परेऽह्नि क्षेत्रज्ञः संजातोऽयं गुणात्मकः ।
एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप ॥८॥

ज्ञानपूर्ववियोगोऽसौ ज्ञाने नष्टे च योगिनः ।
सा मुक्तिर्ब्रह्मणा चैक्य मनैक्यं प्राकृतैर्गुणैः ॥९॥

तद्गृहं यत्र वसति तद्भोज्यं येन जीवति ।
यन्मुक्तये तदेवोक्तं ज्ञानाज्ञाने न चान्यथा ॥१०॥

उपभोगेन पुण्याना मपुण्यानाञ्च पार्थिव ।
कर्तव्यानाञ्च नित्यानां क्षयन्त्वकरणात्तथा ॥११॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥१२॥

सन्तोषस्तपसा शान्तिर्वासुदेवार्चनं दमः ।
आसन पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥१३॥

प्रत्येकं त्रिविधः सोऽपि पूरकुम्भकरेचकैः ।
लघुर्यो दशमात्रस्तु द्विगुणः स तु मध्यमः ॥१४॥

त्रिगुणाभिस्तु मात्राभिरुत्तमः स उदाहृतः ।
जपध्यानयुतौ गर्भो विपरीतस्त्वर्भकः ॥१५॥

प्रथमे नजयेत्स्वप्नं मध्यमेन च वेपथुम् ।
विपाकं हि तृतीयेन जातान्दोषास्त्वनुक्रमात् ॥१६॥

आसनस्थन्तुयुञ्जीत कृत्वा च प्रणवं हृदी ।
पार्ष्णिभ्यां लिङ्गवृषणौ स्पर्शन्नकाग्रमानसः ॥१७॥

रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।
निरुध्य निश्चलो भूत्वा स्थितो युञ्जीत योगवित् ॥१८॥

इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीनम्न एव च ।
निगृह्य समवायेन प्रत्याहार मुपक्रमेत् ॥१९॥

प्राणायामा दशाष्टौ च धारणा सा विधीयते ।
द्वे धारणे स्मृतो योगो योगिभिस्तत्त्वदर्शिभिः ॥२०॥

प्राङ्नाड्यां हृदये चात्र तृतीया च तथोरसि ।
कण्ठे मुखे ना सिकाग्रे नेत्रे भ्रूमध्यमूर्धसु ॥२१॥

किञ्चित्तस्मात्परस्मिंश्च धारणा दशधा स्मृता ।
दशैता धारणाः प्राप्य प्राप्नोत्यक्षररूपताम् ॥२२॥

यथाग्निरग्नौ संक्षिप्तस्तथात्मा परमात्मनि ।
ब्रह्मरूपं महापुण्यमोमित्येकाक्षरं जपेत् ॥२३॥

अकारश्च तथोकारो मकारश्चाक्षरत्रयम् ।
एतास्तिस्त्रस्ततो मात्राः सत्त्वराजसतामसाः ॥२४॥

निर्गुणा योगिगम्याद्यार्धमात्रा परा स्थिता ।
गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया ।
इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ॥२५॥

अहं ब्रह्म परं ज्योतिः स्थूलदेहविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ॥२६॥

अहं ब्रह्म परं ज्योतिः पृथिव्या मलवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितम् ॥२७॥

अहं ब्रह्म परं ज्योतिः सूक्ष्मदेहविवर्जितम् ।
अहं ब्रह्मपरं ज्योतिः स्थानास्थानविवर्जितम् ॥२८॥

अहं ब्रह्म परं ज्योतिर्गन्धमात्रविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्परिवर्जितम् ॥२९॥

अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् ॥३०॥

अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिरज्ञानपरिवर्जितम् ॥३१॥

अहं ब्रह्म परं ज्योतिस्तुरीयं परमं पदम् ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥३२॥

नित्यशुद्धबुद्धंमुक्तमहामानन्दमद्वयम् ।
अहं ब्रह्म परं ज्योतिर्ज्ञानरूपो विमुक्तये ॥३३॥

सूत उवाच ।
इत्यष्टाङ्गो मया योग उक्तः शौनक मुक्तिदः ।
नित्यनैमित्तिकं गत्वा लयं प्राकृतबन्धनाः ॥३४॥

उत्पद्यन्ते हि संसारे नैकं यात्वा परात्मनाम् ।
विमुच्यते विमुक्तश्च ज्ञानादज्ञानमोहितः ॥३५॥

ततो नं म्रियते दुः खी न रोगी न च वन्धवान् ।
न पापैर्युज्यते योगी नरके न विपच्यते ॥३६॥

गर्भवासे स नो दुः खी स स्यान्नारायणोऽव्ययः ।
भक्त्या त्वनन्यया लभ्यो भगवान्भुक्तिमुक्तिदः ॥३७॥

ध्यानेन पूजया जप्यैः सम्यक्स्तोत्रैर्यतव्रतैः ।
यज्ञैर्दानैश्चित्तशुद्धिस्तया ज्ञानञ्च लभ्यते ॥३८॥

प्रणवादिकमन्त्रैश्च जप्यैर्मुक्तिं गता द्विजाः ।
इन्द्रोऽपि परमं स्थानं गन्धर्वाप्सरसो वराः ॥३९॥

प्राप्ता देवाश्च देवत्वं मुनित्वं मुनयो गताः ।
गन्धर्वत्वञ्च गन्धर्वा राजत्वञ्च नृपादयः ॥४०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेष्टाङ्गयोगकथनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:12.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Apetalae

  • अप्रदल (प्रदलहीन) उपवर्ग, एपेटॅली 
  • पाकळ्या नसलेली फुले असण्ऱ्चा द्विदलिकित वनस्पतींचा बेंथॅम आणि हूकर यांच्या वर्गीकरणातील उपवर्ग. या वनस्पती मूलतः प्रारंभिक समजून त्यांचा वेगळा गट केला गेला, तथापि त्यांपैकी कित्येक ऱ्हासामुळे प्रदलहीन असून मुक्तप्रदल (सुट्या पाकळ्या असलेल्या) वनस्पतींशी त्यांचे आप्तभाव असल्याचे आढळल्याने एंग्लर व प्रँटल यांच्या वर्गीकरणपद्धतीत अप्रदल व मुक्तप्रदल वनस्पतींचा समावेश एकाच उपवर्गात (आर्किक्लॅमिडी = आद्यपरिदल) करणे नैसर्गिक वर्गीकरणपद्धतीच्या तत्त्वास सुसंगत मानतात. युक्तप्रदल वनस्पतींशी तुलना करता अप्रदल व मुक्तप्रदल वनस्पती सापेक्षतः खालच्या दर्जात समाविष्ट होतात. 
  • Incompletae 
RANDOM WORD

Did you know?

संत ज्ञानेश्वरांनि हे म्हटले आहे का ?
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.