संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १७७ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १७७ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १७७ Translation - भाषांतर हरिरुवाच ।सोभाञ्जनपत्ररसं मधुयुक्तं हि चक्षुषोः ।भ (च) रणाद्रोगहरणं भवेन्नास्त्यत्र संशयः ॥१॥अशीतितिलपुष्पाणि जात्याश्च कुसुमापि च ।उषानिम्बामलाशुण्ठीपिप्पलीतण्डुलीयकम् ॥२॥छायासुष्कां वटीं कुर्यात्पिष्ट्वा तण्डुलवारिणा ।मधुना सहसा चाक्ष्णोरञ्जनात्तिमिरादिनुत् ॥३॥बिभीतकास्थिमज्जा तु शङ्खनाभिर्मनः शिला ।निम्बपत्रमरीचा नि अजामूत्रेण पेषयेत् ॥४॥पुष्पं रात्र्यन्धतां हन्ति तिमिरं पटलं तथा ।चतुर्भागानि शङ्खस्य तदर्धेन मनः शिला ॥५॥सैन्धवं च तदर्धेनत्वेतत्पिष्ट्वादकेन तु ।छायाशुष्कां तु वटिकां कृत्वा नयनमञ्जयेत् ॥६॥तिमिरं पटलं हन्ति पिचिटं च महौषधम् ।त्रिकटु त्रिफलां चैव करं जस्य फलानि च ॥७॥सैन्धवं रजनीद्वे व भृङ्गराजरसेन हि ।पिष्ट्वा तदञ्जनादेव तिमिरादिविनाशनम् ॥८॥आटरूषकमूलं तु काञ्जिकापिष्टमेव तु ।तेनाक्षिबूमिलेपाच्च चक्षुः शूलं विनश्यति ॥९॥सतक्रं बदरीमूलं पीतं वाक्षिव्यथां हरेत् ।सैन्धंवं कटुतैलं च अपामार्गस्य मूलकम् ॥१०॥क्षीरकाञ्जिकसंघृष्टं ताम्रपात्रे तु तेन च ।अञ्जनात्पिञ्जटस्यैव नाशो भवति शङ्कर ॥११॥ओं दद्रु सर क्रों ह्रीं ठः ठः दद्रु सर ह्रीं ह्रीं ओं उं ऊ सर क्रीं क्रीं ठः ठः ।आद्या हि वशामायान्ति मन्त्रेणानेन चाञ्जनात् ॥१२॥बिल्वकनीलिकामूलं पिष्टमभ्यञ्जनेन च ।अनेनाञ्जितमात्रेण नश्यन्ति तिमिराणि हि ॥१३॥कटुकं (पिप्पली) तगरं चैव हरिद्रामलकं वचा ।खदिरपिष्टवात्तश्च अञ्जनान्नेत्ररोगनुत् ॥१४॥नीरपूर्णमुखो धौति बृहन्मानेन योऽक्षिणी ।प्रभाते नेत्ररोगैश्च नित्यं सर्वैः प्रमुच्यते ॥१५॥शुक्लैरण्डस्य मूलेन पत्रेणापि प्रसाधितम् ।छगदग्धसेकमौष्ण्याच्चक्षुषोर्वातशलनत् ॥१६॥चन्दनं सैन्धवं वृद्धपालाशश्च हरीतकी ।पटलं कुसुमं नीली च (व) क्रिकां हरतेऽञ्जनम् ॥१७॥गुञ्जामूलं छागमूत्रे घृष्टं तिमिरनुच्च तत्रौप्यताम्रसुवर्णानां हस्तघृष्टशलाकया ॥१८॥घृष्टमुद्वर्तनं रुद्र कामलाव्याधिनाशनम् ।घोषाफलमपाघ्रातं पीतकामलनाशनम् ॥१९॥दूर्वादाडिमपुष्पं तु अलक्तकहरीतकी ।नासार्शवातरक्तनुन्नस्याद्वै स्वरसेन हि ॥२०॥आपिष्ट्वा जाङ्गली मू (तू) लं तद्रसेन वृषध्वज ।नस्यादाराद्विनश्येत नाशार्शो नीललोहित ॥२१॥गव्यं घृतं सर्जरसं रुद्र धन्याकसैन्धवम् ।धुत्तूरकं गैरिकं च एतैः साधितसिक्थकम् ॥२२॥सतैलं व्रणनुत्स्याच्च स्फुटितोद्धटिताधरे ।जातीपत्रं च चर्वित्वा विधृतं मुखरोगनुत् ॥२३॥भक्षात्केसरबीजस्य दन्ताः स्युश्चलिताःस्थिराः ।मुष्टकं कुष्ठमेला च यष्टिकं मधुवालकम् ॥२४॥धन्याकमेतददनान्मुखदुर्गन्धनुद्धर ।कषायं कटुकं वापि तिक्तशाकस्य भक्षणात् ॥२५॥तलयुक्तस्य नित्यं स्यान्मुखदुर्गन्धताक्षयः ।दन्तव्रणानि सर्वाणि क्षयं गच्छन्त्यनेन तु ॥२६॥काञ्जिकस्य सतैलस्य गण्डूषकवलास्थितिः ।ताम्बूलचूर्णदग्धस्य मुखस्य व्याधिनुच्छिव ! ॥२७॥परित्यक्तश्लेष्मणश्च शुण्ठीचर्वणतो यथा ।मातुलुङ्गदलान्येला यष्टी मधु च पिप्पली ॥२८॥जातीपत्रमथैषां च चूर्णं लीढ्वा तथा कृतम् ।शेफालिकजटायाश्च चर्वणं गलशुण्ठिनुत् ॥२९॥नासाशिरारक्तकर्षान्नश्येच्छंशकर जिह्विका ।रसः शिरीषबीजानां हरिद्रायाश्चतुर्गुणः ॥३०॥तेन पक्वेन भूतेश नस्यं मस्तकरोगनुत् ।गलरोगा विनश्यन्ति नस्यमात्रेण तत्क्षणात् ॥३१॥दन्तकीटविनाशः म्याद्गुञ्जामूलस्य चर्वणात् ।काकजङ्घास्नुहीनीलीकवायो मधुमोजितः ॥३२॥दन्ताक्रान्तान्दन्तजांश्च कृमीन्नाशयते शिव ।घतं कर्कटपादेन दुग्धोन्मिश्रेण साधितम् ॥३३॥तेन चाम्यङ्गितादन्ताः कुर्युः कटकटान्न हि ।लिप्त्वा कर्कटपादेन केवलेनाथवाशिव ॥३४॥त्रिसप्ताहं वाः पिष्टानि ज्योतिष्मत्याः फलानि हि ।शुक्लाभयामज्जलेपाद्दन्तस्याङ्ककलङ्कनुत् ॥३५॥लोध्रकुङ्कुममञ्जिष्ठालोहका लेयकानि च ।यवतण्डुलमेतैश्च यष्टी मधुसमन्वितैः ॥३६॥वारिपिष्टैर्वक्त्रलेपः स्त्रीणां शोभनवक्त्रकृत् ।द्विभागं छागदुग्धेन तैलप्रस्थं तु साधितम् ॥३७॥रक्तवन्दनमञ्जिष्ठालक्षाणां कर्षकेण वा ।यष्टीमधुकुङ्कुमाभ्यां सप्ताहान्मुखकान्तिकृत् ॥३८॥शुण्ठीपिप्पलिचूर्णं तु गुडूची कण्टकारिका ।एभिश्च क्वथितं वारि पीतं चाग्निं करोति वै ॥३९॥वातशूलक्षयं चैव कगेति प्रथमेश्वर ।करञ्जपर्पटोशीरं बहती कटुरोहिणी ॥४०॥गोक्षुरं क्वथितं त्वभिर्वारि पीतं श्रमापहन् ।दाहं पित्तं ज्वरं शोषं मूर्छां चैव क्षयं नयेत् ॥४१॥मध्वाज्यपिप्पलीचूर्णं क्वथितं क्षीरसंयुतम् ।पीतं हृद्रोगकासस्य विषमज्वरनुद्भवेत् ॥४२॥क्वाथौपधीनां सर्वासां कर्षार्धं ग्राह्यमेव च ।वयोऽनुरूयतो ज्ञेयो विशेषो वृषभध्वज ॥४३॥दुग्धं पीतं तु संयुक्तं गोपुरीषरसेन च ।विषमज्वरनुत्स्याच्च काकजन्धारसस्तथा ॥४४॥मशुण्ठि क्वथितं क्षीग्मजाया ज्वरनुद्भवेत् ।यष्टीमधुकमुस्तं च सैन्धवं बृहतीफलम् ॥४५॥एतैर्नस्वप्रिदानाच्च निद्रा स्यात्पुरुपस्य च ।मरीचप्रध्वश्वलालानस्यान्निद्रा भवेच्छिव ॥४६॥मूलं तु काकजङ्घाया निद्राकृत्स्याच्छिरस्थितम् ।सिद्धं तैलं काञ्जिकेन तथा सर्जरसेन च ॥४७॥शीतोदकसमायुक्तं लेपात्सन्तापनाशनम् ।शोणितज्वरदाहेभ्यो जातसन्तापनुत्तथा ॥४८॥शृकशैवालमन्थश्च शुण्ठीपापाणभेदकम् ।शौवाञ्जनं गोक्षुरं वा वरुणच्छन्नमेव च ॥४९॥सौभाञ्जनस्य मूलं च एतैः क्वथितवारि च ।दत्त्वा हिङ्गुयवक्षारं पीतं वातविनाशनम् ॥५०॥पिप्पली पिप्पलीमूलं तथा भल्लातकं शिव ।वार्येतैः क्वथितं पीतं वरशूलापहारकृत् ॥५१॥अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका ।एतया मर्दनाद्रुद्र ऊरुस्तम्भः प्रशाम्यति ॥५२॥बृहतीकस्य वै मूलं संपिष्टमुदकेन च ।पीतं संघातवातस्य विपाटनकृदेव च ॥५३॥पीतं तक्रेण मूलं च आर्द्रस्य तगरस्य च ।हरेत्झिञ्जिनीवातं?वै वृक्षमिन्द्राशनिर्यथा ॥५४॥अस्थिसंहारमेकेन भक्तेन सह वादितम् ।पतिं मांसरसेनापि वातनुच्चास्थिभङ्गनुत् ॥५५॥घृतलिप्तं सशुष्कं च छागीक्षीरेण संयुतम् ।तल्लोपात्पादयार्नंश्येत्सक्षेप्ये चात्र संशयः ॥५६॥मध्वाज्यसैन्धवं सिक्थं गुडकैरिकगुग्गुलैः ।ससर्जरसस्फुटितः क्लोमशुद्धिश्च लेपनात् ॥५७॥कटुतैलेन लिप्तो वै विधूमाग्नौ प्रतापितः ।मृत्तिकारखादितः पादः समः स्याद्वृषभध्वज ॥५८॥सर्जरसाः सिक्थकं च जीरकं च हरीतकी ।उत्साधितघृताभ्यङ्गो ह्यग्निदग्धव्यथापनुत् ॥५९॥तिलतैलं चाग्निदग्धं यवभस्मसमन्वितम् ।अग्निदग्धव्रणं नश्येद्ब्रहुशः कृतलेपतः ॥६०॥नवनीतं माहिषं च दग्धपिष्टतिलानि च ।सभल्लाकं व्रणं नश्येद्धृच्छूलं नस्यलेपनात् ॥६१॥कर्पूरगव्यसर्पिर्भ्यां प्रहारः पूरितो हर ।शस्त्रोद्भवः सबद्धश्च शुक्लवर्णेन शङ्कर ! ।पाकं च वेदनां चैव संस्पृशेद्वृषभध्वज ॥६२॥आम्र (तस्य) मूलरसेनैव शस्त्रघातः प्रपूरितः ।ढौकते शस्त्रघाताभ्यां निर्व्रणो घृपूरितः ॥६३॥शरपुङ्खा लज्जालुका पाठा चैषां तु मूलकम् ।जलपिष्टं तस्य लेपाच्छस्त्रघातः प्रशाम्यति ॥६४॥मूलं च काकजङ्घायास्त्रिरात्रेणैव शोषितः ।पाकपूतिं वेदनां च हन्ति वै रोहितो व्रणे ॥६५॥सजलं तिलतैलं च अपामार्गस्य मूलकम् ।तत्सेकदानान्नश्येच्च प्रहारोद्भववेदना ॥६६॥अभयां सैन्धवं शुण्ठीमेतत्पिष्ट्वोदकेन तु ।भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर ! ॥६७॥कटिबद्धं निम्बमूलमक्षिसूलहरं भवेत् ।शणमूलं सताम्बूलं दग्धमिन्द्रियकस्य (ल्प) हृत् ॥६८॥अन्नस्विन्नहरिद्रा च श्वेतसर्षपमूलकम् ।बीजानि मातुलुङ्गस्य एषामुद्वर्तनं समम् ।सप्तरात्रप्रयोगेण शुभदेहकरं भवेत् ॥६९॥श्वेतापराजितापत्रं निम्बपत्ररसेन तु ।नस्यदानाड्डाकिनीनां मातॄणां ब्रह्मरक्षसाम् ।मोक्षः स्यान्मधुसारेण नस्याच्च वृषभध्वज ॥७०॥मूलं श्वेतजयन्त्याश्च पुष्यर्क्षे तु समाहृतम् ।श्वेतापराजितार्कस्य चित्रकस्य च मूलकम् ।कृत्वा तु वटिकां नारी तिलकेन वशी भवेत् ॥७१॥पिप्पलीलोहचूर्णं तु शुण्ठीश्चामलकानि च ।समानि रुद्र जानीयात्सैन्धवं मधुशर्करा ॥७२॥उदुम्बरप्रमाणेन सप्ताहं भक्षणात्समम् ।पुमांश्च बलवान्स स्याज्जीवेद्वर्षशतद्वयम् ।ओं ठ ठ ठ इति सर्ववश्यप्रयोगेषु प्रयुक्तः सर्वकामकृत् ॥७३॥संगृह्य विद्वान्काकस्य निलयं प्रदहेच्च तत् ।चिताग्नौ भस्म तच्छत्रोर्दत्तं शिरसि शङ्कर ॥७४॥तमुच्चाटयते रुद्र शृणु तद्योगमुत्तमम् ।निः क्षिप्तं च पुरीषं वै वनमूषिकचर्मणि ॥७५॥कटितन्तुनिबद्धं वै कुर्यान्मलनिरोधनम् ।कृष्णकाकस्य रक्तेन यस्य नाम प्रलिप्य च ॥७६॥च्युतदले मध्यमध्ये ततो निः क्षिप्यते हर ! ।स खाद्यते काकवृन्दैर्नारी पुरुष एव च ॥७७॥शर्करामध्वजाक्षीरं तिलगोक्षुरकं समम् ।स शत्रुं नाशयेद्रुद्र ! उच्चाटितमिदं हर ! ॥७८॥उलूककृष्णकाकस्य बिल्वस्याथ समिच्छतम् ।रुधिरेण समायुक्तं ययोर्नाम्ना तु हूयते ।तयोर्मध्ये महावैरं भवेन्नास्त्यत्र संशयः ॥७९॥भावितं ऋक्षदुग्धेन मत्स्यस्य रोहितस्य च ।मांसं तत्साधितं तैलं तदभ्यङ्गाच्च रोगनुत् ।चन्दनोदकनस्यात्तु रोमोत्थानं भवेत्पुनः ॥८०॥हस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितम् ।शरीरं येन स पुमान्वृद्धेर्दर्पं व्यपोहति ॥८१॥मयूररुधिरेणैव जीवं संहरते शिव ।ज्वलतां तु भुजङ्गानां बिलस्थानामपीश्वर ॥८२॥देहश्चिताग्नौ दग्धश्च सर्पस्याजगरस्य हि ।तद्भस्म संमुखे क्षिप्तं शत्रणां भङ्गकृद्भवेत् ॥८३॥मन्त्रेणानेन तत्क्षिप्तं महाभङ्गकरं रिपोः ।ओं ठ ठ ठ चाहीहिचाहीहि स्वाहा ।ओं उदरं पाहिहि पाहिहिस्वाहा ॥८४॥सुदर्शनाया मलं तु पुष्यर्क्षे तु समाहृतम् ।निः क्षिप्तं गृहमध्ये तु भुजङ्गा वर्जयन्ति तत् ॥८५॥अर्कमूलेन रविणा अर्काग्निज्वलिता शिव ।युक्ता सिद्धार्थतैलेन वर्तिर्मार्गाहिनाशिनी ॥८६॥मार्जारपललं विष्ठा हरितालं च भावितम् ।छाग मूत्रेण तल्लिप्तो मूषिको मूषिकान्हरेत् ॥८७॥मुक्तो हि मन्दिरे रुद्र नात्र कार्या विचारणा ।विफलार्जुनपुष्पाणि भल्लातकशिरीषकम् ॥८८॥लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः ।एतैर्धूपो मक्षिकाणां मशकाणां विनाशनः ॥८९॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नेत्राञ्जनादिनिरूपणं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP