TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २२२

आचारकाण्डः - अध्यायः २२२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २२२
ब्रह्मोवाच ।
प्रायश्चित्तादि वक्ष्येऽहं नरकौघविमर्दनम् ।
मक्षिका विप्रुषो नारी भुवि तोयं हुताशनः ।
मार्जारो नकुलश्चैव शुचीन्येतानि नित्यशः ॥१॥

यः शूद्रोच्छिष्टसंस्पृष्टं प्रमादाद्भक्षयेद्द्विजः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥२॥

विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन ।
स्नानं जप्यञ्च कर्तव्यं दिनस्यान्ते च भोजनम् ॥३॥

अन्नं समक्षिकाकेशं शुध्येद्वान्तेन तत्क्षणात् ।
यश्च पाणितले भुङ्क्ते अङ्गुल्या बाहुना च यः ॥४॥

अहोरात्रेण शुध्येत पिबेद्यदि न वार्युत ।
पीतशेषन्तु यत्तोयं वामहस्तेन मद्यवत् ॥५॥

चर्ममध्यगतं तोयमशुचि स्यान्न तत्पिबेत् ।
अन्त्यजातिरविज्ञातो निवसेद्यस्य वेश्मनि ॥६॥

चान्द्रायणं पराकं वा द्विजातीनां विशोधनम् ।
प्राजापत्यन्तु शूद्रस्य पश्चाज्ज्ञाते तथापरे ॥७॥

यस्तत्र भुङ्क्ते पक्वान्नं कृच्छ्रार्धं तस्य दापयेत् ।
तेषामपि च यो भुङ्क्ते कृच्छ्रपादो विधीयते ॥८॥

रजकानाञ्च शैलू षवेणुचर्मोपजीविनाम् ।
एतदन्नञ्च यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥९॥

चाण्डालकूपभाण्डेषु अज्ञानाच्चेत्पिबेज्जलम् ।
कुर्यात्सान्तपनं विप्रस्तदर्धञ्च विशः स्मृतम् ॥१०॥

पादं शूद्रस्य दातव्यमज्ञानादन्त्यवेश्मनि ।
प्रायश्चित्तं त्रिकृच्छ्रं स्यात्पराकमन्त्यजागतौ ॥११॥

अन्त्यजोच्छिष्टभुक्च्छुध्येद्द्विजश्चान्द्रायणेन च ।
चाण्डालन्नं यदा भुङ्क्ते प्रमादादैन्दवञ्चरेत् ॥१२॥

क्षत्त्रजातिः सान्तपनं षड्द्विरात्रं परे तथा ।
एकवृक्ष तु चण्डालः प्रमादाद्ब्राह्मणो यदि ।
फलं भक्षयते तत्र अहोरात्रेण शुध्यति ॥१३॥

भुक्त्वोपविष्टोऽनाचान्तश्चण्डालं यदि संस्पृशेत् ।
गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ॥१४॥

चाण्डालश्वपचैर्वापि विण्मूत्रे तु कृते द्विजाः ।
प्रायश्चित्तं त्रिरात्रं स्यात्पराकश्चान्त्यजागतौ ॥१५॥

अकामतः स्त्रियो गत्वा पराकस्तत्र साधकः ।
अन्त्यजातिप्रसूतस्य प्रायश्चित्तं न विद्यते ॥१६॥

मद्यादिदुष्टभाण्डेषु यादपः पिबति द्विजः ।
कृच्छ्रपादेन शुध्येद्वै पुनः संस्कारकर्मणा ॥१७॥

ये प्रत्यवसिता विप्रा वज्राग्निपवनादिषु ।
अन्नपानादि संगृह्य चिकीर्षन्ति गृहान्तरम् ॥१८॥

चारयेत्त्रीणि कृच्छाणि त्रीणि चान्द्रायणानि वै ।
जातकर्मादिसंस्कारं वसिष्ठो मुनिरब्रवीत् ॥१९॥

प्राजापत्यादिभिर्द्रष्टा स्त्री शुध्येत्तु द्विभोजनात् ।
उच्छिष्टोच्छिष्टसंस्पृष्टंशुना शूद्रेण वा द्विजः ॥२०॥

उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ।
वर्णबाह्येन संस्पृष्टः पञ्चरात्रेण वै तदा ॥२१॥

अदुष्टाः सन्तता धाराः वातोद्धूताश्च रेणवः ।
स्त्रियो बालाश्च वृद्धाश्च न दुष्यन्ति कदाचन ॥२२॥

नित्यमास्यं शुचि स्त्रीणां शकुन्तैः पातितं फलम् ।
प्रस्त्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥२३॥

उदके चोदकस्थं तु स्थलेषु स्थलजं शुचि ।
पादौ स्थाप्यौ च तत्रैव आचान्तः शुचितामियात् ॥२४॥

शुध्येत्तद्भस्मना कांस्यं सुरया यन्न लिप्यते ।
मूत्रेण सुरया मिश्रं तपनैः खलु शुध्यति ॥२५॥

गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च ।
काकश्वापहतान्येव शुध्यन्ति दश भस्मना ॥२६॥

शूद्रभाजनभोक्ता यः पञ्चगव्यं त्र्युपोषितः ।
उच्छिष्टं स्पृशते विप्रः श्वसूद्रश्चापराधिकः ॥२७॥

उपोषितः पञ्चगव्याच्छुध्येत्स्पृष्ट्वा रजस्वलाम् ।
अनुदकेषु देशेषु चोरव्याघ्राकुले पथि ॥२८॥

कृत्वा मूत्रपुरीषन्तु द्रव्यहस्तो न दुष्यति ।
भूमौनिः क्षैप्य तद्द्रव्यं शौचं कृत्वा समाहितः ॥२९॥

आरनालं दधि क्षीरं तक्रन्तु कृसरञ्च यत् ।
शूद्रादपि च तद्गाह्यं मांसं मधु तथान्त्यजात् ॥३०॥

गौडीं पैष्टीञ्च माध्वीकं विप्रादिर्यः सुरां पिबेत् ।
सुरां पिबन्द्विजः शुध्येदग्निवर्णां सुरां पिबन् ॥३१॥

विप्रः पञ्चशतं जप्यं गायत्र्याः क्षत्रियस्य च शतं विप्रश्च भुक्त्वान्नं पानपात्रेण सूतके ॥३२॥

शुचिर्विप्रो दशाहेन क्षत्त्रियो द्वादशाहतः ।
वैश्यः पञ्चदशाहन शूद्रो मासेन शुध्यति ॥३३॥

राज्ञां युद्धेषु यज्ञादौ देशान्तरगतेषु च ।
बाले प्रेते मासिके च सद्यः शौचं विधीयते ॥३४॥

अविवाहा तथा कन्या द्विजो मौञ्जीविवर्जितः ।
जतदन्तश्च बालश्च कुमारी च त्रिवर्षिका ॥३५॥

तेषां शुद्धिस्त्रिरात्रेण गर्भस्त्रावे त्रिरात्रिभिः ।
सूतायां मासतुल्याश्च चतुर्थेऽह्नि रजस्वला ॥३६॥

दुर्भिक्षे राष्ट्रसंपते सूतके मृतकेपि वा ।
नियमाश्च न दुष्यन्ति दानधर्मपरास्तथा ॥३७॥

दक्षिकाले विवाहादौ देवद्विजनिमन्त्रिते ।
पूर्वसंकल्पिते वापि नाशौचं मृतसूतके ॥३८॥

प्रसूतपत्नीसंस्पर्शादशुचिः स्यात्तथा द्विजः ।
अग्नयो यत्र हूयन्ते वेदो वा यत्र पठ्यते ॥३९॥

सततं वैश्वदेवा दि न तेषां सूतकं भवेत् ।
अशुद्धे च गृहे भुक्ते त्रिरात्राच्छुध्यति द्विजः ॥४०॥

ब्राह्मणी क्षत्रिया वैश्या शूद्रा चैव रजस्वला ।
अन्योन्यस्पर्शनात्तत्र ब्राह्मणी तु त्रिरात्रतः ॥४१॥

द्विरात्रतः क्षत्रिया च शुद्धा वैश्या ह्युपोषिता ।
शूद्रा स्नानेन शुध्येत्तु द्रोणार्थं न विसर्जयेत् ॥४२॥

काकश्वानोपनी तन्तु अन्नं बाह्यन्तु तत्त्यजेत् ।
सुवर्णाद्भैः समभ्युक्ष्य हुताशे च प्रतापयेत् ॥४३॥

कूपे च पतितान्दृष्ट्वा श्वशृगालौ च मर्कटम् ।
तत्कूपस्योदकं पीत्वा शुध्येद्विप्रस्त्रिभिर्दिनैः ।
क्षत्रियोऽहर्द्वयेनैव वैश्यो वैकाहतः परम् ॥४४॥

अस्थि चर्म मलं वापि मूषिकां यदि कूपतः ।
उद्धृत्य चोदकं पञ्च गव्याच्छुद्ध्येत्तु शोधितम् ॥४५॥

तडागे पुष्करिण्यादौ भस्मादिं पातयेत्तथा ।
षट्कुम्भानप उत्द्धृय पञ्चगव्येन शुध्यति ॥४६॥

स्त्रीरजः पतितं मध्ये त्रिंशत्कुम्भान्समुद्धरेत् ।
अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ॥४७॥

शुध्ये च्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः ।
वैश्यः सान्तपनाच्छूद्रः पञ्चाहोभिर्विशुध्यति ॥४८॥

प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम् ।
क्रीडायां शयनीयादौ नीलीवस्त्रं न दुष्यति ॥४९॥

नीलीवस्त्रं न स्पृशेच्च नीली च निरयं ब्रजेत् ।
व्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥५०॥

ऋक्षं दृष्ट्वा विशुध्यन्ते तत्संयोगी च पञ्चमः ।
ततो धेनुशतं दद्याद्ब्राह्मणानान्तु भोजनम् ॥५१॥

ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।
न्यस्येदात्मानमग्नौ वा सुसमिद्धे सुरापकः ॥५२॥

स्तेयी सर्वं वेदविदे ब्राह्मणायोपपादयेत् ।
वृषमेकं सहस्रं गां दद्याच्च गुरुतल्पगः ॥५३॥

कृतपापश्चरेद्रोधे द्वौ पादौ बन्धयन्पशोः ।
सर्वकृच्छ्रं निपानेस्यात्कान्तारे गृहदाहतः ॥५४॥

कण्ठाभरणदोषेण कृच्छ्रपादं मृते गवि ।
अस्थिभङ्गं गवां कृत्वा शृङ्गभङ्गमथापि वा ॥५५॥

त्वग्भेदं पुच्छनाशे वा मासार्धं यावकं पिबेत् ।
सर्वं हस्त्यश्वशस्त्राद्यैर्निश्चयं कृच्छ्रमेव तु ॥५६॥

अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।
पुनः संस्कारमायान्ति त्रयो वर्णा द्विजातयः ॥५७॥

वपनं मेख्ला दण्डो भैक्ष्यचर्याव्रतानि च ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥५८॥

आममांसं घृतं क्षौद्रं स्नेहश्च कालसम्भवाः ।
अन्त्यभाण्डस्थिताः सर्वे निष्क्रान्ताः शुचयः स्मृताः ॥५९॥

तैलादिघृतमाध्वीकं पण्यद्रव्यं द्रवस्तथा ।
एकभक्तं क्रमान्नक्तं एकैकाहमयाचितम् ।
उपवासः पादकृच्छ्रं कृच्छार्धद्विगुणं हि यत् ॥६०॥

प्राजापत्यन्तु तत्स्याच्च सर्वपातकनाशनम् ।
कृच्छ्रं सप्तोपवासैश्च महासान्तपनं स्मृतम् ॥६१॥

त्र्यहमुष्णं पिबेच्छापः त्र्यहमुष्णं पयः पिबेत् ।
त्र्यमुष्णं पिबेत्सर्पिस्तप्तकृच्छ्रमघापहम् ॥६२॥

द्वादशाहोपवासेन पराकः सर्वपापहा ।
एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् ॥६३॥

पयः काञ्चनवर्णायाः श्वेतवर्णं च गोमयम् ।
गोमूत्रं ताम्रवर्णाया नीलवर्णभवं घृतम् ॥६४॥

दधि स्यात्कृष्णवर्णाया दर्भोदकसमायुतम् ।
गोमूत्रमाषकाण्यष्टौ गोमयस्य चतुष्टयम् ॥६५॥

क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश उच्यते ।
घृतस्य माषकाः पञ्च पञ्चगव्यं मलापहम् ॥६६॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चितकथनं नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:12.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

informed shopper

  • सुविज्ञ ग्राहक 
RANDOM WORD

Did you know?

How to make essay about Hindu culture
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,108
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 326,018
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.