TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १५५

आचारकाण्डः - अध्यायः १५५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १५५
धन्वन्तरिरुवाच ।
वक्ष्ये मदात्ययादेश्च निदानं मुनिभाषितम् ।
तीक्ष्णाम्लरूक्षसूक्ष्माम्लव्यवायासुकरं लघु ॥१॥

विकाशि विशदं मद्यं मेदसोऽस्माद्विपर्ययः ।
तीक्ष्णोदयाश्च दिव्युक्ताश्चित्तोपप्लविनो गुणाः ॥२॥

जीवितान्ताः प्रजायन्ते विषेणोत्कर्षवर्तिना ।
तीक्ष्णादिभिर्गुणैर्मद्यं मान्द्यदीनोजसो गुणान् ॥३॥

दशभिर्गुणैः संक्षोम्यं चेतो नयति चाक्रियम् ।
आद्ये मदे द्वितीयेऽपि प्रम (मो) दायतने स्थितः ॥४॥

दुर्विकल्पहतो मूढः सुखमित्यभिमुच्यते ।
मध्यमोत्तमयोः सन्धिं प्राप्य राजासनो मदः ॥५॥

निरङ्कुश इव व्यालो न किञ्चिन्नाचरेत्ततः ।
इयं भूमिरवाच्यानां दौः शीलस्येदमास्पदम् ॥६॥

एकोऽयं बहुमार्गायाः दुर्गर्(म) तेर्दर्शकः परम् ।
निश्चेष्टः सन्नवाक्शेते तृतीयेऽत्र मदे स्थितः ॥७॥

मरणादपि पापात्मा गतः पापतरां दशाम् ।
धर्माधर्मं सुखं दुः खं मानानर्थं हिताहितम् ॥८॥

न वेद शीकमोहार्तं शोष (क) मोहादिसंयुतः ।
सोन्मादभ्रममूर्छायां सापस्मारः पतत्यधः ॥९॥

नाति माद्यन्ति बलिनः कृताहारा महाशनाः ।
वातात्पित्तात्कफात्सर्वैर्भवेद्रोगो मदात्ययः ॥१०॥

सामान्यलक्षणं तेषां प्रमोहो हृदयव्यथा ।
विभेदं प्रसभं तृष्णा सौम्यो ग्लानिर्ज्वरोऽरुचिः ॥११॥

पुरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः ।
स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः ॥१२॥

स्वप्नेनेवाभिभवति न चोक्तश्च स भाषतेः ।
पित्ताद्दाहज्वरः स्वेदो मोहो नित्यं च विभ्रमः ॥१३॥

श्लेष्मणश्छर्दिर्हृल्लासो निद्रा चोदरगौरवम् ।
सर्वजे सर्वलिङ्गत्वं ज्ञात्वा मद्यं पिबेत्तु यः ॥१४॥

सहसा रुचिरं चान्यतरध्वंसकशोषिणौ ।
भवेतां?मारुतात्कष्टाद्भवेत्त स्य विशेषतः ॥१५॥

ध्वंसकश्लेष्मनिष्ठिवाः कण्ठशोषोऽतिनिद्रता ।
शब्दासहत्वं तच्चित्तविक्षेपोऽङ्गे हि वातरुक् ॥१६॥

हृत्कण्ठरोगः संमोहः श्वासतृष्णावमिज्वराः ।
निवर्तेद्यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ॥१७॥

विकारैः क्लिश्यते जातु न स शरीरमानसः ।
रजोमोहहिताहारपास्य स्युस्त्रयो गदाः ॥१८॥

वसासृक्क्लेदनावाहिस्रोतोरोधः सुद्भवाः ।
मदमूर्छापसंन्यासा यथोत्तरबलोद्भवाः ॥१९॥

मदोऽत्र दोषैः सर्वैस्तु रक्तमद्यविषैरपि ।
शक्त्यानन्त्याद्गताभासश्चलश्छलितवेष्टितः ॥२०॥

रूक्षश्यामारुणतनुर्मद्ये वातोद्भवे भवेत् ।
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः ॥२१॥

स्वप्नेऽसम्बद्धवाक्यादिः कफाद्ध्यानपरो हि सः ।
सर्वोत्थसन्निपातेन रक्तस्तम्भाङ्गदूषणम् ॥२२॥

पित्तलिङ्गत्वमाद्येन विकृतेहा स्वराज्ञता ।
विसत्कम्पोतिनिद्रा च सर्वेभ्योऽभ्यधिकं श्रमः ॥२३॥

लक्षयेल्लक्षणोत्कर्षाद्वातादीञ्छोणितादिषु ।
अरुणं नीलकृष्णं वा सम्प्रविश्यन्विशेत्तमः ॥२४॥

शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः ।
कासः श्यावारुणा च्छाया मूर्छायां मारुतात्मकः ॥२५॥

पित्तेन रक्तं पीतं वा नभः पश्यन्विशेत्तमः ।
विबुध्येत च सस्वेदो दाहतृष्णोपपीडितः ॥२६॥

भिन्नवत्पीतनीलाभो रक्तनीलाकुलेक्षणः ।
कफेन मेघसंकाशं पश्यत्याकाशमाविशेत् ॥२७॥

तमश्चिराच्च बुध्ये हृदुरः सुप्रसेकवान् ।
गुरुभिस्तिमितै (रै) रङ्गे राजधर्मावबन्धान् (वत्) ॥२८॥

सर्वाकृतिस्त्रिभिर्देषैरपस्मार इवापरः ।
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः ॥२९॥

दोषैस्तु मदमूर्छायां कृतवेगेषु देहिनाम् ।
स्वयमेवोपशाम्यन्ति संन्यासेनौषधैर्निवा ॥३०॥

वाग्देहमनसां चेष्टामाक्षिप्यातिबलाबलाः ।
ससन्यासं निपतिताः प्राणाघातनसंश्रयाः ॥३१॥

भवन्ति तेन पुरुषाः काष्ठभूता मृतोपमाः ।
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते ॥३२॥

अगाधे ग्राहबहुले सलिलौघ इवार्णवे ।
संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत् ॥३३॥

मदमानरोषतोष प्रवृत्तिभिरितस्ततः ।
युक्तायुक्तं च समं युक्तिं युङ्क्ते न मद्येन ॥३४॥

बलकासदेशपात्रं प्रकृतिसहतामथवा वयांसि? ।
प्रविभज्ज्यात्तनुरूपं पिबति ततः पिबत्यमृत ॥३५॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मदात्ययादिनिदानं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हांक बोंब

  • आरडा ओरड 
  • हाकाटी. 
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.