TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४६

आचारकाण्डः - अध्यायः १४६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १४६
धन्वन्तरिरुवाच ।
सर्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः ।
आत्रेयाद्यैर्मुनिवरैर्यथा पूर्वमुदीरितम् ॥१॥

रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्ट आमयः ।
यक्ष्मातङ्कगदा बाधाः शब्दाः पर्यायवाचिनः ॥२॥

निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा ।
संप्राप्तिश्चैति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥३॥

निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः ।
निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥४॥

उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ।
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥५॥

तदेव व्यक्ततां यातं रूपमित्यभिधीयते ।
संस्थानां व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ॥६॥

हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् ।
औषधान्नविहाराणामुपयोगं सुखावहम् ॥७॥

विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः ।
विपरीतोऽनुपशयो व्याध्यसात्म्येतिसंज्ञितः ॥८॥

यथा दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिरामयस्यासौ संप्राप्तिरभिधीयते ॥९॥

संख्याविकल्पप्राधान्यबलकालविशेषतः ।
सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥१०॥

दोषाणां समवेतानां विकल्पोशांशकल्पना ।
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥११॥

हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषषणम् ।
नक्तन्दिनार्धभुक्तांशैर्व्याधिकालो यथामलम् ॥१२॥

इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते ।
सर्वेषामेव रोगाणां निदानं कुपिता मलाः ॥१३॥

तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ।
अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥१४॥

तिक्तोषणकषायाम्लरूक्षाप्रमितयोजनैः ।
धावनोदीरणनिशाजागरात्युच्चभाषणैः ॥१५॥

क्रियाभियोगबीशोकचिन्ताव्यायाममैथुनैः ।
ग्रीष्माहोरात्रभुक्त्यन्ते प्रकुप्यति समीरणः ॥१६॥

पित्तं कट्वालतीक्ष्णोष्णकटुक्रोधविदाहिभिः ।
शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च ॥१७॥

स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः ।
आस्यास्वप्नसुखाजीर्णदिवास्वप्नादिबृंहणैः ॥१८॥

प्रिच्छर्दनाद्ययोगेन भुक्तान्नस्याप्यजीर्णके ।
पूर्वाह्ने पूर्वरात्रे च श्लेष्मा वक्ष्यामि सङ्करान् ॥१९॥

मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः ।
संकीर्णाजीर्णविषमविरुद्धाद्यशनादिभिः ॥२०॥

व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः ।
पिण्याकमृत्यवसरपूतिशुष्ककृशमिषैः ॥२१॥

दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्ततः ।
धातोर्दुष्टात्पुरो वाताद्द्विग्रहावेशविप्लवात् ॥२२॥

दुष्टामान्नैरतिश्लैष्मग्रहैर्जन्मर्क्षपीडनात् ।
मिथ्यायोगाच्च विविधात्पापानाञ्च निषेवणात् ।
स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः ॥२३॥

प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः ।
रसायनं प्रपद्याशु दोषा देहे विकुर्वते ॥२४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे सर्वरोगनिदानं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:07.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gonosome

  • पु. Zool. जननकाय 
  • पु. जननकाय 
RANDOM WORD

Did you know?

ADHYAY 43 OF GURUCHARITRA IS WRONGLY PRINTED AND ADHYAY 47 AND 48 ARE SAME KINDLY CHANGE or make correction for it
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.