संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ६८ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ६८ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ६८ Translation - भाषांतर ॥ सूत उवाच ॥परिक्षां वच्मिरत्नानां बलो नामासुरोऽभवत् ॥इन्द्राद्या निर्जितास्तेन विजेतुं तैर्न शक्यते ॥१॥वरव्याजेन पशुतां याचितः स सुरैर्मखे ॥बलो ददौ स (स्व) पशुतामतिसत्त्व सुरैर्हतः ॥२॥पशुवत्स विशस्तस्तैः स्ववाक्याशनियन्त्रितः ॥बलो लोकोपराय देवानां हितकाम्यया ॥३॥तस्य सत्त्वविशुद्धस्य विशुद्धेन च कर्मणा ॥कायस्यावयवाः सर्वे रत्नबीजत्वमाययुः ॥४॥देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ॥रत्नबीजंस्व(जम)यं ग्राहः सुमहानभवत्तदा ॥५॥तेषां तु पततां वेगाद्विमानेन विहायसा ॥यद्यत्पपात रत्नानां बीजं क्वचन किञ्चन ॥६॥महोदधौ सरिति वा पवर्त काननेऽपि वा ॥तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥७॥तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च ॥प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥८॥वज्रं मुक्तामणयः सपद्मरागाः समरकताः प्रोक्ताः ॥अपि चेन्द्रनीलमणिवरवैदूर्य्याः पुष्परागाश्च ॥९॥कर्केतनं सपुलकं रुधिराख्यसमन्वितं तथा स्फटिकम् ॥विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥१०॥आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च ॥मूल्यं च रत्नकुशलैर्विज्ञेयं सर्वशास्त्राणाम् ॥११॥कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि ॥दौषैस्तान्यपियुज्यन्ते हीयन्ते गुणसम्पदा ॥१२॥परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा ॥धारणं संग्रहो वापि कार्य्यः श्रियमभीप्सता ॥१३॥शास्त्रज्ञाः कुशलाश्चापि रत्नभाजः परीक्षकाः ॥त एव मूल्यमात्राया वेत्तारः परिकीर्त्तिताः ॥१४॥महा प्रभावं विबुधैर्यस्यमाद्वज्रमुदाहृतम् ॥वज्रपूर्वा परीक्षेयं ततोऽस्माभिः प्रकीर्त्त्यते ॥१५॥तस्यास्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव ॥वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नानाकृतिमन्ति तेषु ॥१६॥हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोशलाः ॥वेण्वातटाः ससौवीरा वज्रस्याष्ट विहारकाः ॥१७॥आताम्रा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे त्वसिताब्जमेघसदृशास्ताभ्राश्च सौराष्ट्रजाः ॥कालिङ्गाः कन कावदातरुचिराः पीतप्रभाः कोसले श्यामाः पुंड्रभवा मतंगविषये नात्यन्तपीतप्रभाः ॥१८॥अत्यर्थं लघु वर्णतश्च गुणवत्पार्श्वेषु सम्यक् समंरेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम् ॥लोकेऽस्मिन्परामाणुमात्रमपि यद्वज्रं क्वचिदॄश्यते तस्मिन्देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं यदि ॥१९॥वज्रेषु वर्णयुक्त्या देवानामपि विग्रहः प्रोक्तः ॥वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव ॥२०॥हरितसितपीतपिंगश्यामास्ताम्राः स्वभावतो रुचिराः ॥हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका वर्णाः ॥२१॥विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात्क्षत्त्रियस्य शशबभ्रुविलोचनाभः ॥वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः ॥२२॥द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ॥यः स्याज्जवाविद्रुमभङ्गशोणो यो वा हरिद्रारसन्निकाशः ॥२३॥ईशत्वात्सर्ववर्णानां गुणवत्सार्ववर्णिकम्॥कामतो धारयेद्राजा न त्वन्योऽन्यत्कथञ्चन ॥२४॥अधरोत्तरवृत्तया हि यादृक् स्याद्वर्णसङ्करः ॥ततः कष्टतरो वज्रवर्णानां सङ्करो मतः ॥२५॥न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः ॥गुणवद्गुणसम्पदां विभूतिर्विपरीतो व्यसनोदयस्य हेतुः ॥२६॥एकमपि यस्य श्रृङ्गं विदलितमवलोक्यते विशीर्णं वा ॥गुणवदपि तन्न धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवने ॥२७॥स्फुटिताग्निवि शीर्णश्रृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम् ॥न हि वज्रभृतोऽपि वज्रमाशु श्रियमप्याश्रयलालसां न कुर्य्यात् ॥२८॥यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम् ॥न तन्न कुर्य्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥२९॥कोट्यः पार्श्वनि धाराश्च षडष्टौ द्वादशेति च ॥उत्तुङ्गसमतीक्ष्णाग्राः वज्रस्याकरजा गुणाः ॥३०॥षट्कोटि शुद्वममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेतदोषम् ॥इन्द्रायुधांशुविसृतिच्छुरितान्तरिक्षमेवंविधं भुवि भवेत्सुलभं न वज्रम् ॥३१॥तीक्ष्णाग्रं विमलमपेतसर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् ॥वृद्धिस्तं प्रतिदिनमेति यावदायुः स्त्रीसम्पत्सुतधनधान्यगोपशूनाम् ॥३२॥व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च ॥दूरात्तस्य निवर्त्तन्ते कर्माण्याथर्वणानि च ॥३३॥यदि वज्रमपेतसर्वदोषं बिभृयात्तण्डुलविंशतिं गुरुत्वे ॥मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्रमूल्यम् ॥३४॥त्रिभागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः ॥अशीतिभागोऽथ शतांशभागः सहस्त्रभागोऽल्पसमानयोगः ॥३५॥यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम् ॥द्वाभ्यां क्रमाद्वानिमुपागतस्य त्वेकावमानस्य विनिश्चयोऽयम् ॥३६॥न चापि तण्डुलैरेव वज्राणां धरणक्रमः ॥अष्टाभिः सर्षपैर्गैरैस्तंण्डुलं परिकल्पयेत् ॥३७॥यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि ॥रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥३८॥अल्पेनापि हि दोषेण लक्ष्यालक्ष्येण द्वषितम् ॥स्व (स) मूल्याद्दशमं भागं वज्रं लभति मानवः ॥३९॥प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा ॥स्व (सु) मूल्याच्छतशो भागो वज्रस्य न विधीयते ॥४०॥स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते ॥रत्नानां परिकर्मार्थं मूल्यं तस्य भवेल्लघु ॥४१॥प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम् ॥अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्न भूषणाय ॥४२॥नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या ॥अन्यत्र दीर्घाचिपिटत्र्यश्राद्यगुणैर्वियुक्ताच्च ॥४३॥अयसा पुष्परागेण तथा गोमेदकेन च ॥वैदूर्य्यस्फटिकाभ्यां च काचैश्चापि पृथग्विधैः ॥४४॥प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः ॥परीक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः ॥४५॥क्षारोल्लेखनशाणाभिस्तेषां कार्य्यं परीक्षणम् ॥पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥४६॥सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते ॥गुरुता सर्वरत्नानां गौरवाधारकारणम् ॥४७॥वज्रे तां वैपरीत्येन सूरयः परिचक्षते ॥जातिरजातिं विलिखति जातिं विलिखंति वज्रकुरुविन्दाः ॥४८॥वज्रैर्वज्रं विलिखति नान्येन विलिख्यते वज्रम् ॥वज्राणि मुक्तामणयो ये च केचन जातयः ॥४९॥न तेषां प्रतिबद्धानां भवत्यूर्द्ध्वगामिनी ॥तिर्य्यक्क्षतत्वात्केषाञ्चित्कथञ्चिद्यदि जायते ॥तिर्य्यग्विलिख्यमानानां सा (स) पार्श्वेषु विहन्यते ॥५०॥यद्यपि विशीर्णकोटिः स बिन्दुरेखान्वितो विवर्णो वा ॥तदपि धनधान्यपुत्रान्करोति सेन्द्रायुधो वज्रः ॥५१॥सौदा मिनीविस्फुरिताभिरामं राजा यथोक्तं कलिशं दधानः ॥पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति ॥५२॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाष्टषष्टितमोऽध्यायः ॥६८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP