TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६१

आचारकाण्डः - अध्यायः १६१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६१
धन्वन्तरिरुवाच ।
उदराणां निदानञ्च वक्ष्ये सुश्रुत तच्छृणु ।
रोगाः सर्वेऽपि मन्दाग्नौ सुतरामुदराणि तु ॥१॥

अनीर्णामयाश्चाप्यन्ये जायन्ते मलसंचयात् ।
ऊर्ध्वाधो वायवो रुद्ध्वा व्याकुलाविप्रवाहिणी? ॥२॥

प्राणानपानान्संदूष्य कुर्युस्तान्मांससन्धिगान् ।
आध्माप्य कुक्षिमुदरमष्टधा ते च भेदतः ॥३॥

पृथग्दोषैः समस्तौश्च प्लीहवङ्क्षक्षतोदकैः ।
तेनार्ताः शुष्कताल्वोष्ठाः सर्वपादकरोदराः ॥४॥

नष्टचेष्टबलाहाराः कृतप्रध्मात्कुक्षयः ।
पुरुषाः स्युः प्रेतरूपा भाविनस्तस्य लक्षणम् ॥५॥

क्षुन्नाशोऽरुचिवत्सर्वं सविदाहञ्च पच्यते ।
जीर्णान्नं यो न जानाति सोऽपथ्यं सेवतेनरः ॥६॥

क्षीयते बलमङ्गस्य श्वसित्यल्पोऽविचेष्टितः ।
विषयावृत्तिबुद्धिश्च शोकशोषादयोऽपिच ॥७॥

रुग्बस्तिसन्धौ सततं लघ्वल्पभोजनैरपि ।
जराजीर्णो बलभ्रंशो भवेज्जठररोगिणः ॥८॥

स्वतन्त्रतन्द्रालसता मलसर्गोऽल्पवह्निता ।
दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवे ॥९॥

सर्वत्र तोये मरणं शोचनं तत्र निष्फलम् ।
गवाक्षवच्छिराजालैरुदरं गुड्गुडायते ॥१०॥

नाभिमन्त्रश्च विष्टभ्य वेगं कृत्वा प्रणश्यति ।
मारुते हृत्कटीनाभिपायुवङ्क्षणवेदनाः ॥११॥

सशब्दो निः सरेद्वायुर्वहते मूत्रमल्पकम् ।
नातिमात्रं भवेल्लौल्यं नरस्य विरसं मुखम् ॥१२॥

तत्रवातोदरे शोथः पाणिपान्मुखकुक्षिषु ।
कुर्क्षिपार्श्वोदरकटीपृष्ठरुक्पर्वभदनम् ॥१३॥

शुष्ककासाङ्गमर्दाधोगुरुतामलसंग्रहः ।
श्यामारुणत्वगादित्वं मुखे च रसवद्धिता ॥१४॥

सतोदभेदमुदरं नीलकृष्णशिराततम् ।
आध्मातमुदरे शब्दमद्भुतं वा करोति सः ॥१५॥

वायुश्चात्र सरुक्च्छब्दं विधत्ते सर्वथा गतिम् ।
पित्तोदरे ज्वरो मूर्छा दाहित्वं कटुकास्यता ॥१६॥

भ्रमोतिसारः पीतत्वं त्वगादावुदरं हरित् ।
पीतताम्रशिरादित्वं सस्वेदं सोष्म दह्यते ॥१७॥

धूमायते मृदुस्पर्शं क्षैप्रपाकं प्रदूयते ।
श्लेष्मोदरेषु सदनं स्वेदश्वयथुगौरवम् ॥१८॥

निद्रा क्लेशोऽरुचिः श्वासः काशः शुक्लत्वगादिता ।
उदरं तिमिरं स्निग्धं शुक्लकृष्णशिरावृतम् ॥१९॥

नीरातिवृद्धौ कठिनं शीतस्पर्शं गुरु स्थिरम् ।
त्रिदोषकोपने तैस्तैस्त्रिदोषजीनैतर्मलैः ॥२०॥

सर्वदूषणदुष्टाश्च सरक्ताः सञ्चिता मलाः ।
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम् ॥२१॥

कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् ।
वर्धते तच्च सुतरां शीतवातप्रदर्शने ॥२२॥

अत्यशनाच्च संक्षोभाद्यानपानादिचेष्ठितैः ।
अविहितैश्च पानाद्यैर्वमनव्याधिकर्षणैः ॥२३॥

वामपार्श्वास्थितः प्लीहा त्युतस्थानो विवर्धते ।
शोणिताद्वा रसादिभ्यो विवृद्धो जनयेद्व्यथाम् ॥२४॥

सोऽष्ठीला चातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्? ।
क्रमेण वर्धमानश्च कुक्षौ व्याततिमाहरेत् ॥२५॥

श्वासकासपिपासास्यवैरस्याध्मानकज्वरैः ।
पाण्डुत्वमूर्छाछर्दित्वग्दाहमोहैश्च संयुतः ॥२६॥

अरुणाभं विचित्राभं नीलहारिद्रराजितम् ।
उदावर्तेन चानाहमोहतृड्द्गहनज्वरैः ॥२७॥

गौरवारुचिकाठिन्यैर्विघातभ्रमसंक्रमात् ।
प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम् ॥२८॥

पक्वे भूते यकृति च सदा बद्धमलो गुदे ।
दुर्नामभिरुदावर्तैरन्यैर्वा पीडितो भवेत् ॥२९॥

वर्चः पित्तकफान्बद्धान्करोति कुपितोऽनिलः ।
अपानो जठरे तेन संरुद्धो ज्वररुक्करः ॥३०॥

काशश्वासोरुसद्गनं शिरोरुङ्नाभिपार्श्वरुक् ।
मलासंगोऽरुचिश्छर्दिरुदरे मलमारुतः ॥३१॥

स्थिरनीलारुणशिराजालैरुदरमावृतम् ।
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते ॥३२॥

अस्थ्यादिशल्यै रन्यैश्च विद्धे चैवोदरे तथा ।
पच्यते यकृतादिश्च तच्छिद्रैश्च सरन्बहिः ॥३३॥

आम एव गुदाहेति ततोऽल्पाल्पः शकृद्रसः ।
स स्याद्विकृतगन्धोऽपि पिच्छिलः पीतलोहितः ॥३४॥

शेषश्चापूर्य जठरं घोरमारभते ततः ।
वर्धते तदधो नाभेराशु चैति जलात्मताम् ॥३५॥

उद्रिक्ते दोषरूपे च व्याप्ते च श्वासतृट्भ्रमैः ।
छिद्रोदरमिदं प्राहुः परिस्त्रावीति चापरे ॥३६॥

प्रवृत्तस्नेहपानादेः सहसापथ्यसेविनः ।
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य च ॥३७॥

रुद्धः स्वमार्गादनिलः कफश्च जलमूर्छितः ।
वर्धते तु तदेवाम्बु तन्मात्राद्विन्दुराशितः ॥३८॥

तत्कोपादुदरं तृष्णागुदस्नुतिरुजान्वितम् ।
काशश्वासारुचियुतं नानावर्णाशिराततम् ॥३९॥

तोयपूर्णान्मृदुस्पर्शात्सदृशक्षोभवेपथु ।
बकोदरं स्थिरंस्निग्धं नाडीमावृत्य जायते ॥४०॥

उपेक्षायाञ्च सर्वेषां स्वस्थानां परिचालिताः ।
पाका द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि ॥४१॥

स्वेदे चैव तु संरुद्धे मूर्छिताश्चान्तरस्थिताः ।
तदेवोदरमापूर्य कुर्यादुदरामयम् ॥४२॥

गुरूदरं स्थितं वृत्तमाहतञ्च न शब्दकृत् ।
हीनबलं तथा घोरं नाड्यां स्पृष्टञ्च सपति ॥४३॥

शिरान्तर्धानमुदरे सर्वलक्षणमुच्यते ।
वातपित्तकफप्लीहसन्निपातोदकोदरम् ॥४४॥

पक्षाच्च जातसलिलं विष्टम्भोपद्रवान्वितम् ।
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् ॥४५॥

इति श्रीगारुडे महापुराण्मे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकषष्ट्यधिकशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नारसिंह - जयंति

  • नरसिंह इ० पहा . 
RANDOM WORD

Did you know?

मृत व्यक्तिचे वेगवेगळ्या धर्मात वेगवेगळ्या दिवशी संस्कार कसे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.