संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ११० आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ११० विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ११० Translation - भाषांतर सूत उवाच ।योध्रुवाणि परित्यज्य ह्यधुवाणि निषेवते ।ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च ॥१॥वाग्यन्त्रहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते ।न तुष्टिमुत्पादयते शरीरे ह्यन्धस्य दारा इव दर्शनीयाः ॥२॥भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ।विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ॥३॥अग्निहोत्रफला वेदाः शीलवृत्तिफलं शुभम् ।रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥४॥वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।सुरूपां सुनितम्बाञ्च नाकुलीनां कदाचन ॥५॥अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः ।को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥६॥हविर्दुष्टकुलद्वाह्यं बालादपि सुभाषितम् ।अमेध्यात्काञ्चनं ग्राह्यं स्त्रीरत्नं दुष्कुलादपि ॥७॥विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥८॥न राज्ञा सह मित्रत्वं न सर्पो निर्विषः क्रचित् ।न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥९॥कुले नियोजयेद्भक्तं पुत्रं विद्यासु योजयेत् ।व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोज्येत् ॥१०॥स्थानेष्वेव प्रयोक्ताव्या भृत्याश्चाभरणानि च ।न हि चूडामणिः पादे शोभते वै कदाचन ॥११॥चूडामणिः समुद्रोऽग्निर्घण्टा चाखण्डमम्बरम् ।अथवा पृथिवीपालो मूर्ध्नि पादे प्रमादतः ॥१२॥कुसुमस्तबकस्येव द्वे गती तु मनस्विनः ।मूर्ध्नि वा सर्वलोकानां शीर्षतः पतितो वने ॥१३॥कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।न च विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥१४॥वाजिवारणलौहानां काष्ठपाषाणवाससाम् ।नारीपुरुषतोयानामन्तरं महदन्तरम् ॥१५॥कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते सर्वगुणप्रमाथः ।अधः खलेनापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ॥१६॥न सदश्वः कशाघातं सिंहो न गजगर्जितम् ।वीरो वा परनिर्दिष्टं न सहेद्भीमनिः स्वनम् ॥१७॥यदि विभवविहीनः प्रच्युतो वाशु दैवान्न तु खलजनसेवां काङ्क्षयेन्नैव नीचाम् ।न तृणमदनकार्ये सुक्षुधार्तोऽत्ति सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्चराणाम् ॥१८॥सकृद्दुष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति ।स मृत्युमेव गृह्णीयाद्गर्भमश्वतरी यथा ॥१९॥शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः ।तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥२०॥उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥२१॥अपकारपरान्नित्यं चिन्त येन्न कदाचन ।स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥२२॥अनर्था ह्यर्थरूषाश्च अर्थाश्चानर्थरूपिणः ।भवन्ति ते विनाशाय दैवायत्तस्य वै सदा ॥२३॥कार्यकालोचितापापा मतिः सञ्जायते हि वै ।सानुकूले तु दैवे शं पुंसः सर्वत्र जायते ॥२४॥धनप्रयोगकार्येषुः तथा विद्या गमेषु च ।आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत् ॥२५॥धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।पञ्च यत्र न विद्यन्ते न कुर्यात्तत्रत्र संस्थितिम् ॥२६॥लोकयात्रा भयं लज्जा दाक्षिण्यं दानशीलता ।पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥२७॥कालविच्छोत्रियो राजा नदी साधुश्च पञ्चमः ।एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥२८॥नैकत्र परिनिष्ठास्ति ज्ञानस्य किल शौनक ।सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कुत्रचित् ॥२९॥न सर्ववित्कश्चिदिहास्ति लोके नात्यन्तमूर्खो भुवि चापि कश्चित् ।ज्ञानेन नीचोत्तममध्यमेन योऽयं विजानाति स तेन विद्वान् ॥३०॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे दशोत्तरशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP