TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६२

आचारकाण्डः - अध्यायः १६२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६२
धन्वन्तरिरुवाच ।
पाण्डुशोथनिदानञ्च शृणु सुश्रत वच्मि ते ।
पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ॥१॥

नत्रानिलेन बलिना क्षिप्ताक्षिप्तं यदि स्थितम् ।
धमनीर्दशमीः प्राप्य व्याप्नुवन्सकलां तनुम् ॥२॥

त्वगसृक्छ्लेष्ममांसानि प्रदूष्यन्रसमाश्रितम् ।
त्वङ्मांसयोस्तु कुरुते त्वचि वर्णान् पृथग्विधान् ॥३॥

स्वयं हरिद्रा हारिद्रं पाण्डुत्वं तेषु चाधिकम् ।
यातोऽयं प्रहतेदुग्रः स रोगस्तेन गौरवम् ॥४॥

धातूनां स्पर्शशैथिल्यमामजश्च गुणक्षयः ।
ततोऽल्परक्तमेदोऽस्थिनिः सारः स्याच्छ्लथेन्द्रियः ॥५॥

शीर्यमाणैरिवाङ्गैस्तु द्रवता हृदयेन च ।
शूलोक्षिकूटवदने स्तैमित्यं तत्र लालया ॥६॥

हीनतृट्शिशिरद्वेषी शीर्णलोभो हतानलः ।
मन्दशक्तिर्ज्वरी श्वासी कर्णशूली तथा भ्रमी ॥७॥

स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात् ।
प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि ॥८॥

अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पमृत्रता ।
मेदः समानिलात्तत्र गाढरुक्क्लेदगात्रता ॥९॥

कृष्णेक्षणं कृष्णशिरानखविण्मूत्रनेत्रता ।
शोथो नासास्यवैरस्यं विट्शोषः पार्श्वमूर्छना ॥१०॥

पित्ते हरितपित्ताभः शिरादिषु ज्वरस्तमः ।
तृट्शोषमूर्छादौर्गन्ध्यं शीतेच्छा कटुवक्रता ॥११॥

विड्भेदश्चाम्लको दाहः कफाच्च हृदयार्द्रता ।
तन्द्रा लवणवक्रत्वं रोमहर्षः स्वरक्षयः ॥१२॥

काशश्छर्दिश्च निचयान्नष्टलिङ्गोऽतिदुः सहः ।
उत्कृष्टेनिलपित्ताभ्या कटुर्वा मधुरः कफः ॥१३॥

दूषयित्वा वसादींश्च रौक्ष्याद्रक्तविमोक्षणम् ।
स्रोतसां संक्षयं कुर्यादनुरुध्य च पूर्ववत् ॥१४॥

पाण्डुरोगेक्षयेजाते नाभिपादास्यमेहनम् ।
पुरीषं कृमिवन्मुञ्चेद्भिन्नं सास्त्रं कफान्वितम् ॥१५॥

यः पित्तरोगी सेवेत पित्तलं तस्य कामलम् ।
कोष्ठशा खोद्गतं पित्तं दग्ध्वासृङ्मांसमाहरेत् ॥१६॥

हारिद्रमूत्रनेत्रत्वं मुखं रक्तं शकृत्तथा ।
दाही विपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः ॥१७॥

भवेत्पित्तानुगः शोथः पाण्डुरोगावृतस्य च ।
उपेक्षया च शोथाद्याः सकृच्छ्राः कुम्भकामलाः ॥१८॥

हरितश्यामपित्तत्वे पाण्डुरोगो यदा भवेत् ।
वातपित्ते भ्रमस्तृष्णा स्त्रीषु हर्षो मृदुज्वरः ॥१९॥

तन्द्रा वा चानलभ्रंशस्तं वदन्ति हलीमकम् ।
आलस्यञ्चातिभवति तेषां पूर्वमुपद्रवः ॥२०॥

शोथः प्रधानः कथितः स एवातो निगद्यते ।
पित्तरक्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः ॥२१॥

नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् ।
उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥२२॥

सर्वहेतुविशषैस्तु रूपभेदान्नवात्मकम् ।
दोषैः पृथग्विधैः सर्वैरभिघाताद्विषादपि ॥२३॥

तदेव नीयमानन्तु सर्वाङ्गे कामजम्भवेत् ।
पृथून्नताग्रग्रथितैर्विशेषैश्च त्रिधा विदुः ॥२४॥

सामान्यहेतुः शोथानां दोषजातो विशेषतः ।
व्याधिः कर्मोपवासादिक्षीणस्य भवति द्रुतम् ॥२५॥

अतिमात्रं यदासेवेद्गुरुमत्यन्तशीतलम् ।
लवणक्षारतीक्ष्णाम्लशाकाम्बुस्वप्नजागरम् ॥२६॥

रोधो वेगस्य वल्लूरमजीर्णश्रममैथुनम् ।
पच्यते मार्गगमनं यानेन क्षोभिणापि वा ॥२७॥

श्वासकासातिसारार्शोजठरप्रदरज्वराः ।
विष्टम्भालस्यकच्छर्दिहिक्कापाण्डुविसर्पकम् ॥२८॥

ऊर्ध्वशोथमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः ।
सर्वाङ्गगः सर्वगतः प्रत्यप्रत्यगेति तदाश्रयः ॥२९॥

तत्पूर्वरूपं क्षवथुः शिरायामङ्गगौरवम् ।
वाताच्छोथश्चलो रूक्षः खररोमारुणोऽसितः ॥३०॥

शङ्खबस्त्यन्त्रशोफर्तिमेदोभेदाः प्रसुप्तिता ।
वातोत्तानः क्लमः शीघ्रमुन्नमेत्पीडितां तनुम् ॥३१॥

सिग्धस्तु मर्दनैः शाम्येद्रात्रावल्पो दिवा महान् ।
त्वक्सर्षपविलिप्ते च तस्मिंश्चिमिचिमायते ॥३२॥

पीतरक्तासिंताभासः पित्तजातश्च शोषकृत् ।
शीघ्रं नासौ वा प्रशमेन्मध्ये प्राग्दहते तनुम् ॥३३॥

सतृट्दाहज्वरस्वेदो भ्रमक्लोदमदभ्रमाः ।
साभिलाषी शकृद्भेदो गन्धः स्पर्शसहो मृदुः ॥३४॥

कण्डूमान्पाण्डुरोमा त्वक्कठिनः शीतलो गुरुः ।
स्निग्धःश्लक्ष्णः स्थिरः शूलो निद्राच्छर्द्यग्निमान्द्यकृत् ॥३५॥

आघातेन च शस्त्रादिच्छेदभेदक्षतादिभिः ।
हिमानिलैर्दध्यनिलैर्भल्लातकपिकच्छजैः ॥३६॥

रसैः शुष्कैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् ।
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥३७॥

विषजः सविषप्राणिपरिसर्पणमूत्रणात् ।
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥३८॥

विण्मूत्रशुक्रोपहतमलवद्वस्तुसंङ्करात् ।
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ॥३९॥

मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः ।
नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः ॥४०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पाण्डुसोथनिदानं नाम द्विषष्ट्यधिकशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:08.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

श्रीगणेश-श्रीगणेशा

  • श्रीगणेशायनमः असा धडा नवीन अक्षर शिकणार्‍या मुलास प्रथम घालून देतात. ( ल.) कार्यारंभ 
  • पहिला धडा 
  • सुरुवात. ‘ एकादा अक्षर शत्रु हमाल असो, किंवा कवींचा कवि, आणि संजीवनी विद्येचा धनी एकादा शुक्राचार्य असो, दोघींचाहि या शास्त्रांतला श्रीगणेशा एकच-हा एकच प्याला !’-एकच प्याला ४. 
  • ‘ तुम्ही गेले दिवशीच मी ( स्वयंपाकाचा ) श्रीगणेशा केला.’ -दाजी १.८६. 
RANDOM WORD

Did you know?

वादाने तत्वज्ञान समजावले जाते का? किती प्रकारचे वाद आहेत?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.