संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १९२

आचारकाण्डः - अध्यायः १९२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


हरिरुवाच ।
चित्रकस्याष्टभागाश्च शूरणस्य च षोडश ।
शुण्ठ्या भागाश्च चत्वारो मरिचानां द्वयं तथा ॥१॥

त्रितयं पिप्पलीमूलं विडङ्गानां चतुष्टयम् ।
अष्टौ मुशलिकाभागास्त्रिफलायाश्चतुष्टयम् ।
द्विगुणेन गुडेनैषां मोदकानिह कारयेत् ॥२॥

तद्भक्षणमजीर्णं हि पाण्डुरोगञ्ज कामलम् ।
अतीसारांश्च मन्दाग्निं प्लीहाञ्चैव निवारयेत् ॥३॥

बिल्वाग्निमन्थः श्योनाकपाटलापारिभद्रकम् ।
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥४॥

बला चातिबला रास्ना श्वदंष्ट्रा च पुनर्नवा ।
एरण्डः शारिवा पर्णो गुडूची कपिकच्छुका ॥५॥

एषां दशपलान्भागान्क्वाथयेत्सलिलेऽमले ।
तेन पादावशेषेण तैलपात्रे विपाचयेत् ॥६॥

आजं वा यदि गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।
शतावरीं सैन्धवञ्च तैलतुल्यं प्रदापयेत् ॥७॥

द्रव्याणियानि पेष्याणि तानि वक्ष्यामि तच्छृणु ।
शतपुष्पा देवदारुर्बला पर्णो वचागुरु ॥८॥

कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ।
पाने नस्ये तथाभ्यङ्गे तैलमेतत्प्रदापयेत् ॥९॥

हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ।
अपस्मारं वातरक्तं वपुष्मांश्च पुमान्भवेत् ॥१०॥

गर्भमश्वतरी विन्द्यात्किं पुनर्मानुषी हर ।
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा ।
तैलमेतत्प्रयोक्तव्यं सर्ववातविकारिणाम् ॥११॥

हिङ्गुतुम्बुरुशुण्ठीभिः सिद्धं तैलन्तु सार्षपम् ।
एतद्धि पुरणं श्रेष्ठं कर्णशूलापहं परम् ॥१२॥

शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
तक्रं चतुर्गुणं दद्यात्तैलमेतद्विपाचयेत् ॥१३॥

बाधिर्यं कर्णशूलञ्च पूयस्त्रावञ्च कर्णयोः ।
क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥१४॥

शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम् ॥१५॥

सौवर्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।
ग्रन्थिकं विडमुस्तं च मधु शुक्तं चतुर्गुणम् ॥१६॥

मातुलुङ्गरसश्चैव कदलीरस एव च ।
तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ॥१७॥

बाधिर्यं कर्णनादश्च पूयस्त्रावश्च दारुणम् ।
पूरणादस्य तैलस्य क्रिमयः कर्णयोर्हर ॥१८॥

सद्यो विनाशमायान्ति शशाङ्ककृतशेखर ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तमलापहम् ॥१९॥

चन्दनं कुङ्कुमं मांसी कर्पूरं जातिपत्रिका ।
जातीकङ्कोलपूगानां लवङ्गस्य फलानि च ॥२०॥

अगुरूणि च कस्तूरी कुष्ठं तगरपादिका ।
गोरोचना प्रियङ्गुश्च बला चैव तथा नखी ॥२१॥

सरलं सप्तपर्णं च लाक्षा चामलकी तथा ।
तथा तु पद्मकं चैव ह्येतैस्तैलं प्रसाधयेत् ॥२२॥

प्रस्वेदमलदुर्गन्धकण्डू कुष्ठहरं परम् ।
गच्छति स्त्रीशतं रुद्र बन्ध्यापि लभते सुतम् ॥२३॥

यवानी चित्रकं धान्यं त्र्यूषणं जीरकं तथा ।
सौवर्चलं विडगञ्च पिप्पलीमूलराजिकम् ॥२४॥

एभिः पचेद्रघृतप्रस्थं जलप्रस्थाष्टसंयुतम् ।
तथार्ऽशोगुल्मश्वयथुं हन्ति वह्निं करोति वै ॥२५॥

मरिचं त्रिवृतं कुष्ठं हरितालं मनः शिला ।
देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥२६॥

विशाला करवीरञ्च अर्कक्षीरं शकृद्रसः ।
एषाञ्च कार्षिको भागो विषस्यार्धपलं भवेत्त् ॥२७॥

प्रस्थं सटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ।
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥२८॥

पामा विचर्चिका चैव दद्रुर्विस्फोचकानिच ।
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥२९॥

प्रभूतान्यपि श्वित्राणि तैलेनानेन मर्दयेत् ।
चिरोत्थितमपि श्वित्रं विनष्टं तत्क्षणाद्भवेत् ॥३०॥

पटोलपत्रं कटुका मञ्जिष्ठा शारिवा निशा ।
जातीशमीनिम्बपत्रं मधुकं क्वथितं घृतम् ॥३१॥

एभिर्लेपात्सयुररुजो व्रणा विस्त्राविणः शिव ।
शङ्खपुष्पी वचा सोमो ब्राह्मी ब्रह्मसुवर्चलाः ॥३२॥

अभया च गुडूची च आटरूषकवाकुची ।
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥३३॥

कण्टकार्या रसप्रस्थं क्षीरप्रस्थसमन्वितम् ।
एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥३४॥

अग्निमन्थो वचा वासा पिप्पली मधु सैन्धवम् ।
सप्तरात्रप्रयोगेण किन्नरैरिव गीयते ॥३५॥

अपामार्गः गुडूची च वचा कुष्ठं शतावरी ।
शङ्खपुष्पाभया साज्यं विडङ्गं भक्षितं समम् ।
त्रिभिर्दिनैर्नरं कुर्याद्ग्रन्थाष्टशतधारिणम् ॥३६॥

अद्भिर्वा पयसाज्येन मासमेकन्तु सेविता ।
वचा कर्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥३७॥

चन्द्रसूर्यग्रहे पीतं पलमेकं पयोऽन्वितम् ।
वचायास्तत्क्षणं कुर्यान्महाप्रज्ञायुतं नरम् ॥३८॥

भूनिम्बनिम्बत्रिफलापर्पटैश्च शृतं जलम् ।
पटोलीमुस्तकाभ्याञ्च वासकेन च नाशयेत् ॥३९॥

विस्फोटकानि रक्तञ्च नात्र कार्या विचारणा ।
कतकस्य फलं शङ्खं सैन्धवं त्र्यूषणं वचा ॥४०॥

फेनी रसाञ्जनं क्षौद्रं विडङ्गानि मनः शिला ।
एषां वर्तिर्हन्ति काचं तिमिरं पटलं तथा ॥४१॥

प्रस्थद्वयं माषकस्य क्वाथश्च द्रोणमम्भसाम् ।
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥४२॥

काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।
पुनर्नवा गोक्षुरकं सैन्धवं त्र्यूषणं वचा ॥४३॥

लवणं सुरदारुश्च मञ्जिष्ठा कण्टकारिका ।
नस्यात्पानाद्धरत्येव कर्णशूलं सुदारुणम् ॥४४॥

बाधिर्यं सर्वरोगांश्च ह्यभ्यङ्गाच्च महेश्वर ।
पलद्वयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ॥४५॥

सौवीरपञ्चप्रस्थं च तैलप्रस्थं पचेत्ततः ।
असृग्दरस्वरप्लीहासर्ववातविकारनुत् ॥४६॥

उदुम्बरं वटं प्लक्षं जम्बूद्वयमथार्जुनम् ।
पिप्पली च कदम्बञ्च पलाशं लोध्रतिन्दुकम् ॥४७॥

मधूकमाम्रसर्जञ्च बदरं पद्मकेशरम् ।
शिरीषबीजङ्कतकमेतत्क्वाथेन साधितम् ।
तैलं हन्ति व्रणांल्लेपाच्चिरकालभवानपि ॥४८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्विनवत्यधिक शततमोऽध्यायः

N/A


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.