TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १७१

आचारकाण्डः - अध्यायः १७१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १७१
धन्वन्तरिरुवाच ।
नाडीव्रणादिरोगाणां चिकित्सां शृणु सुश्रुत ।
नाडीं शस्त्रेण संपाट्य नाजीनां व्रणवत्क्रिया ॥१॥

गुग्गुलुत्रिफलाव्योपैः समांशैराज्ययोजितैः ।
नाडीदुष्टव्रणं शूलं भगन्दरमथो जयेत् ॥२॥

निर्गुण्डीरसतस्तैलं नाडीदुष्टव्रणापहम् ।
हितं पामामयानां तु पानाभ्यञ्जननावनैः ॥३॥

गग्गुत्रिफलाकृष्णात्रिपञ्चैकांशयोजिता ।
घुटि (गुडि) काशोथगुल्मार्शोभगन्दरवतां हिता ॥४॥

ध्वजमध्ये शिरावेधे विशुद्धिरुपदंशके ।
पाको रक्ष्यः प्रयत्नेन शिश्रक्षयकरो हि सः ॥५॥

पटोलनिम्बत्रिफलागुडूचीक्वाथमापिबेत् ।
सगुग्गुलुं सखदिरमुपदंशो विनश्यति ॥६॥

दहेत्कटाहे त्रिफलां सामसी (षी) मधसंयुताम् ।
उपदंशे प्रलेपोऽय सद्यो रोपयते व्रणम् ॥७॥

त्रिफलानिम्बभूनिम्बकरञ्जखदिरादिभिः ।
कल्कैः क्वाथैर्घृतं पक्वमुपदंशहरं परम् ॥८॥

आदौ भग्नं विदित्वा तु सेचयेच्छीतलांबुना ।
पक्वेनालेपनं कार्यं बन्धनं च कुशान्वितम् ॥९॥

माषं मांसं तथा सर्पिः क्षीरं यूषः सतीजलः ।
बृंहणं चान्नपानं स्यात्प्रदेयं भग्नरोगिणे ॥१०॥

रसोनमधुनासाज्यसिताकल्कं समश्नुता ।
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् ॥११॥

अश्वत्थत्रिफलाव्योषाः सवरभिः समीकृतैः ।
तुल्यो गुग्गुलुना योज्यो भग्नसन्धिप्रसाध (कृत्) कः ॥१२॥

सर्वकुष्ठेषु वमनं रेचनं रक्तमोक्षण ।
वचावासापटोलानां निम्बस्य कलिनीत्वचः ॥१३॥

कषायो मधुना पीतो वातहृन्मदनान्वितः ।
विरेचनं प्रयोक्तव्यं त्रिवृत्कर्णफलत्रिकैः ॥१४॥

मनः शिलांमरीचैस्तु तैलं कुष्ठविनाशनम् ।
सर्वकुष्ठे विलेपोऽयं शिवापञ्चगुडौदनम् ॥१५॥

करञ्जैलगजैः कुष्ठं गोमूत्रेण प्रलेपतः ।
करवीरोद्वर्तनं च तैलाक्तस्य च कुष्ठहृत् ॥१६॥

हरिद्रा मलयं रास्ना गुडूच्येडगजस्तथा ।
आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥१७॥

मनः शिलाविडङ्गानि वागजी सर्षपास्तथा ।
करञ्जैर्मूत्रपिष्टोऽयं लेपः कुष्टहरोर्ऽकवत् ॥१८॥

विडङ्गैडवचा कुष्ठनिशासिन्धूत्थसर्षपैः ।
मूत्राम्लपिष्टो लेपोऽयं दद्रूकुष्टविनाशनः ॥१९॥

प्रपुन्नाटसुबीजानि धात्री सर्जरसः स्नुही ।
सौवीरपिष्टं दद्रूणामेतदुद्वर्तनं परम् ॥२०॥

आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।
दद्रूकिट्टिम (भ) कुष्ठानि हन्ति सिध्मानमेव च ॥२१॥

उष्णो पीता वागुजी च कुष्ठजित्क्षीरभोजनः ।
तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ।
वृष्याः सप्त समा मेध्याः कष्ठहाः कामचारिणः ॥२२॥

विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ।
हन्ति कुष्ठक्रिमिमेहनाडीव्रणभगन्दरान् ॥२३॥

यः खादेदभयारिष्टमरिष्टामलकानिशाः ।
स जयेत्सर्वकुष्ठानिमासादूर्ध्वं न संशयः ॥२४॥

दह्यमानायुतः कुम्भे मूलगे खदिराङ्कुरः ।
साक्षधात्रीरसः क्षौद्रो हन्यात्कुष्ठं रसायनम् ॥२५॥

धात्री खदिरयोः क्काथं पीत्वा वागजिसंयुतम् ।
शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः ॥२६॥

पीत्वा भल्लातकं तैलं मासाद्व्याधिं जयेन्नरः ।
सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् ॥२७॥

भावितं मलपूक्वाथैः सोमराजीफलं बहु ।
कर्षं भक्षेदलवणो ह्यक्षफल्गुशृतं पिबेत् ॥२८॥

हन्ति श्वित्रमसाध्यं च लेपे योज्यापराजिता ।
वासा शुद्धा च त्रिफला पटोलं च करञ्जकम् ॥२९॥

निम्बाशनं कृष्णवेत्रं क्वाथकल्केन यद्धृतम् ।
वज्रकं तद्भवेत्कुष्ठं शतवर्षाणि जीवति ॥३०॥

स्वरसेन च दूर्वायाः पचेत्तैलं चतुर्गुणम् ।
कच्छूर्विचर्चिका पामा अभ्यङ्गादेव नश्यति ॥३१॥

द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् ।
गम्भारिकाचित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत् ॥३२॥

(अथाम्लपित्तचिकित्सा) धात्रीनिम्बफलं तद्वद्गोमूत्रेण च चित्रकम् ।
वासामृतापर्पटिकानिम्बभूनिम्बमार्करैः (वैः) ।
त्रिफलाकुलत्थैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥३३॥

फलत्रिकं पटोलं च तिक्तक्वाथः सितायुतः ।
पीतो यष्टीमधुयुतो ज्वरच्छर्द्यम्लपित्तजित् ॥३४॥

वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च ।
अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा ॥३५॥

पिप्पली मधुसंयुक्ता अम्लपित्तविनाशिनी ।
श्लेष्माग्निमान्द्यनुत्पथ्यापिप्पलीगुडमोदकः ॥३६॥

पिष्ट्वाजाजीं सधन्याकां घृप्रस्थं विपाचयेत् ।
कफपित्तारुचिहरं मन्दानलवमिं हरेत् ॥३७॥

(इत्यम्लपित्तचिकित्सा) पिप्पल्यमृतभूनिम्बवासकारिष्टपर्पटैः ।
खदिरारिष्टकैः क्वाथो विस्फोटार्तिज्वरापहः ॥३८॥

त्रिफलारससंयुक्तं सर्पिस्त्रिवृतयासह ।
प्रयोक्तव्यं विरेकार्थं वीसर्पज्वरशान्तये ॥३९॥

खादिरात्रिफलारिष्टपटोलामृतवासकैः ।
क्वाथोऽष्टकाख्यो जयति रोमान्तिकमसूरिकाम् ॥४०॥

कुष्ठवीसर्पविस्फोटकण्ड्वादीनां विघातकः ।
लशुनानां तु चृर्णस्य घर्षो मशकनाशनः ॥४१॥

चर्मकीलं जरुमणिं मशकांस्तिलकालकान् ।
उत्कृत्य शस्त्रेण दहेत्क्षागग्निभ्यामशेषतः ॥४२॥

पटोलनीलीलेपः स्याज्जाल (ज्वाला) गर्दभरोगनुत् ।
गुञ्जाफलैः शृतं तलं भृङ्गराजरसेन तु ।
कण्ठ (ण्डु) दारुणकृत्कुष्ठवातव्याधिविनाशनम् ॥४३॥

अर्कास्थिमज्जात्रिफलानालीछा भृङ्गराजकम् ।
जीर्णे पक्वे लौहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥४४॥

क्षीरात्सशर्करसाद्द्विप्रस्थो मधुकात्पले ।
तैलम्य कुडवं पक्वं तन्नस्यं पलितापहम् ॥४५॥

मुखरोगे तु त्रिफलागण्डूषपरिधारणम् ।
गृहधूम यवक्षारपाठाव्योपरसाञ्जनम् ॥४६॥

तेजोदं त्रिफलालोध्रं चित्रकं चेति चूर्णितम् ।
सक्षौद्रं धारयेद्वक्त्रे ग्रीवादन्तास्यरोगनुत् ॥४७॥

पटोल निम्बजम्व्वाग्रमालतीनवपल्लवाः ।
पञ्चपल्लवकः श्रेष्ठः कषयो मुखधावने ॥४८॥

लशुनार्द्रकशिग्रूणां पारुल्या मूलकस्य च ।
रुदन्त्याश्च रसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥४९॥

तीव्रशूलोत्तरे कर्णे सशब्दे क्लेदवाहिनि ।
बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेनावचूर्णितम् ॥५०॥

जातीपत्ररसे तैलं पक्वं पूतिककर्णजित् ।
शुण्ठीतैलं सार्षपं च क्रोष्णं स्यात्कर्णशूलनुत् ॥५१॥

पञ्चमूलिशृतं क्षीरं स्याच्चित्रकहरीतकी ।
सर्पिर्गुडः षडङ्गश्चयूषः पीनसशान्तये ॥५२॥

अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः ।
पञ्चैते पञ्चरात्रेण प्रशमं यान्ति लङ्घनात् ॥५३॥

धात्रीरसानाञ्च दृशः कोपं हरति पूरणात् ।
सक्षौद्रः सैन्धवो वापि शिग्रुदार्विरसाञ्जनम् ॥५४॥

हरिद्रादारुसिन्धूत्थपथ्याजनवगौरिकैः ।
पिष्टैर्दत्तो बहिर्लपो नेत्रव्याधिनिवारकः ॥५५॥

मृतभ्रष्टाभयालेपात्त्रिफला क्षीरसंयुता ।
शुण्ठीनिम्बदलैः पिष्टैः सुखोष्णैः स्वल्पसैन्धवैः ।
धार्यश्चक्षुषि संक्षेपाच्छोथकण्डूरुजापहः ॥५६॥

अभयाक्षामृतं चैकद्विचतुर्भागिकं युतम् ।
मध्वाज्यलीढं क्वाथो वा सर्वनेत्ररुगर्दनम् ॥५७॥

चन्दनत्रिफलापूगपलाशतरुमूलकैः ।
जलपिष्टैरियं विर्तिरशेषतिमिरापहा ॥५८॥

दध्नातिघृष्टं मरिचं रात्र्यान्ध्यापहमञ्जनम् ।
त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ॥५९॥

तिमिराण्यचिराद्धन्यात्पीतमेतन्निशामुखे ।
पिप्पलीत्रिफला द्राक्षालोहचूर्णं ससैन्धवम् ॥६०॥

भृङ्गराजरसैर्घृष्टं घुटिकाञ्जनमिष्यते ।
आन्ध्यं सतिमिरं काचं हन्त्यन्यान्नेत्ररोगकान् ॥६१॥

त्रिकटु त्रिफला नक्त सैन्धवं च मनः शिला ।
रुचकं शङ्खनाभिश्च जातीपुष्पाणि निम्बकम् ॥६२॥

रसाञ्जनं भृङ्गराजं घृतं मधु पयस्तथा ।
एतत्पिष्ट्वा च वटिका सर्वनेत्ररुगर्दिनी ॥६३॥

दग्धमेरण्डकं मूलं लेपात्काकिकपेषितम् ।
शिरोऽर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दक (ज) म् ॥६४॥

शतमूल्यैरण्डमूलचक्राव्याघ्रीपलैः शृतम् ।
तैलं नस्यमरुश्लेष्मतिमिरोर्ध्वर्(द्ध) गदापहम् ॥६५॥

नाचनं (लनणं) सगुडं विश्वं पिप्पली वा ससैन्धवा ।
भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च ॥६६॥

सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ।
दशमूलीकषायं तु सर्पिः सैन्धवसंयुतम् ।
नस्यमङ्गविभेदघ्नं सूर्यावर्तशिरोऽर्तिनुत् ॥६७॥

दध्ना सौवर्चलाजाजीमधूकं नीलमुत्पलम् ।
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥६८॥

वासकस्वरसं पैत्ते गुडूच्या रसमेव वा ।
जलेनामलकीबीजं कल्कं वाससितामधु ॥६९॥

आमलक्या मधुरसं मूलं कार्पासमेव वा ।
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥७०॥

तण्डुलीयकमूलं तु सक्षौद्रे सरसाञ्जनम् ।
तण्डुलोदकसंपीतं सर्वांश्चासृक्दराञ्जयेत् ।
कुशमूलं तण्डुलाद्भिः पीतं चासृक्दरं जयेत् ॥७१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नाडीव्रणादिचिकित्सावर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:09.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cumulative deposit

  • संचयी जमा 
RANDOM WORD

Did you know?

Wife disgracing, defaming her husband, what is the solution ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.