संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| वितस्तामाहत्म्यम् नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् वितस्तामाहत्म्यम् नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत वितस्तामाहत्म्यम् Translation - भाषांतर गोनन्द उवाच ।तीर्थानि व्दिजमुख्यानि कश्मीरेषु वदस्व मे ॥१४८९॥तेषां स्रानेन यत्पुण्यं तपसा दग्धकिल्विष: ।बृहदश्व उवाच ।नि: सृता सरस: पुणयात् कमसारान्महानदी ॥१४९०॥कैण्डिण्यनाम्री या स्राने पुण्डरीकफलप्रदा ।तयो: समागमे स्रात्वा गोसहस्रफलं लभेत् ॥१४९१॥विशोकायां नर: स्रात्वा विशोक: श्रीसमन्वित:।पुणयं फलमवाप्रोति देवसत्रस्य मानव: ॥१४९२॥कौण्डिणीसह संयोगं यत्र याति विशोकया ।तत्र स्रातस्य राजेन्द्र वाजपेयफलं भवेत् ॥१४९३॥बृध्दतीर्थे नर: स्रात्वा यज्ञमाप्रोति गोसवम् ।तत्र सन्निहितो नित्यं वासुकिर्भुजगाधिप: ॥१४९४॥देवलोकमवाप्नोति स्नात्वा देवसरस्यपि ।अग्रितीर्थे नर: स्नात्वा वन्हिलोकं प्रपद्यते ॥१४९५॥नदी सरस्वती नाम यस्यां स्नातो दिवं ब्रजेत् ।पूर्वदक्षिणभागे तु स्थिता देवसरस्यथा ॥१४९६॥विनतास्वामिपुरत: कद्रूस्वामिसमीपत:।तीर्थयोस्तु नर: स्नात्वा गोशतस्य फलं लभेत् ॥१४९७॥सन्ध्यादेवी नदी पुण्या यस्यां स्नातस्य मानद ।व्यपैति कल्मषं देहात् स्वर्गलोकं च गच्छति ॥१४९८॥सन्ध्यापुष्करिणी पुणया पूर्वतुल्यफलप्रदा ।अवगाह्य नरो भक्त्या पुणयां ब्राह्मणकुण्डिकाम् ॥१४९९॥नीलकुणडं वितस्ताख्यं शूलघातं तथैव च ।तीर्थ त्रिनामकं दृष्टा स्वर्गलोके महीयते ॥१५००॥तथा विनशनं प्राप्य वाजपेयफलं लभेत् ।ब्राह्मणकुण्डिकायां च नीलकुणडे च पार्थिव ॥१५०१॥अक्षय्यं फलमुद्दिष्टं दानं श्राध्दं तथा तप: ।वितसोन्मज्जने स्रात्वा गोसहस्रफलं लभेत् ॥१५०२॥पश्चघज्ञानवाप्रोति स्रात्वैव पश्चहस्तके ।प्रत्यहं ये विनिर्दिष्टा गृहस्थस्य महीपते ॥१५०३॥पुण्यलोकोस्त्यसौ नाम सर्वपापहर: पर: ।कापोतके नर: स्नात्वा गोप्रदान फलं लभेत् ॥१५०४॥विष्णवाश्रमे नृसिंहस्य पुरत: पार्थिवोत्तम: ।वितस्तोन्मज्जनं पुणयं तत्र स्नात्वा च भक्तित: ॥१५०५॥इह कीर्तिमवाप्यासौ विष्णुलोके महीयते ।स्नातश्च ध्यानधारिण्यां गोसहस्रफलं लभेत् ॥१५०६॥वितस्त ध्यानधारिणयो: संगमे पापनाशने ।पुण्यं फल मवाप्रोति वाजपेयस्य मानव : ॥१५०७॥वितस्तान्तर्हिता तत्र प्रविश्य ध्यानधारिणीम् ।अन्तर्हिता मता शीघ्र विशोका यत्रनिम्रगा ॥१५०८॥धौम्याश्रेम तपो योगे राजसूयफलं लभेत् ।चतुर्वेदि नदी दृष्टा कन्यादानफलं लभेत् ॥१५०९॥प्राप्थ दृषे फथं जन्तु: लभेत् वहु सुवर्णकम् ।त्रिकोटिप्रभवं प्राप्य मुच्यते सर्वकिल्विषै: ॥१५१०॥प्राप्य चन्द्रवती जन्म चन्द्रलोके महीयते ।देवतीर्थे नर: स्नात्वा दिव्य: पुत्रोऽपि जायते ॥१५११॥त्रिकोटयां तु नर: स्नात्वा दिव्यलोके महीयते ।स्नात्वा वृषपथायां च शुक्रलोके महीयते ॥१५१२॥चन्द्रवत्यां नर: स्नात्वा दशगोदफलं लभे ।नदी ऋर्षपथा पुणया तथा चन्दवती त्रपा ॥१५१३॥संगमे चानपो: प्रोक्तं राजसूयफलं बुधै: ।त्रिकोढीसंगमाचापि यावत् रौप्येश्वरं हरिम् ॥१५१४॥तावत् क्षेत्रं समं ज्ञेयं वाराणस्यां महीपते ।रुद्रलोकमवाप्नोति स्नात्वा तु कपटेश्वरे ॥१५१५॥विश्वलिंगह्रदे स्नात्वा गोप्रदानफलं लभेत् ।विजयीशाग्रत: स्नात्वा वितस्तायां महीपते ॥१५१६॥रुद्रलोकमवाप्नोति कुलमुध्दरते सुखम् ।पिंगलेशाग्रत: विष्णुलोके महीयते ॥१५१७॥खुण्डपुच्छाश्रमे स्नात्वा फल्मेतदुदाहृतम् ।पुणड: रीकेनर: स्नात्वा पुणडारीकफलं लभेत् ॥१५१८॥शूर्पीरके नर: स्नात्वा गोप्रदानफलं लभेत् ।वितस्ताध्यान धरिण्यो: संगमेऽन्नप्रदो नर: ॥१५१९॥अक्षयं फलमाप्नोति यावदिन्द्राश्चतुर्दश ।सर्वेषां चैव तीर्थानां सन्निधानं नराधिप ।नरसिंहाश्रमे तत्र कृतमणवपि सत् फलम् ॥१५२०॥वितस्ताध्यान धारिण्यो: संगमश्चैव भूपते ।कल्पषोडशनागस्य यावत् मुत्तमम् ॥१५२१॥तावत् क्षेत्रं समं पुणयं प्रयागेणा नराधिप ।गंगोद्भेदेनर: स्नात्वा भेडादेवीसमीपत: ॥१५२२॥गास्नानफलं प्राप्य स्वर्गलोके महीयते ।अवगाह्य कथां पुणयां दशगोदफलं लभेत् ॥१५२३॥औजसे धर्मराजस्य स्नात्वा तु पुरतो नर: ।न दुर्गतिमवाप्नोति वाजपेयफलं लभेत् ॥१५२४॥अस्मिन् तीर्थवरे राजन् श्राध्दमानन्स्यमश्नुते ।मासे चाश्वयुजे कृष्णपंचदश्यां विशेषत: ॥१५२५॥स्रात्वा नारायणस्थाने विष्णुलोके महीयते ।रामतीर्थे भवोत्से च फलमेतत् प्रकीर्तितम् ॥१५२६॥शैलपृष्ठे नर: स्रात्वा तीर्थे वैश्रवणस्य च ।धनस्य भागी भवति यत्र यजाभिजायते ॥१५२७॥तीर्थे चाप्सरसां स्नात्वा भ्वेच्छीमान् नरोत्तम: ।कामतीर्थे नर: स्नात्वा कामभागभिजायते ॥१५२८॥ऋषितीर्थे नर: स्नात्वा मुनिवन्निर्मलो भवेत् ।वैतरण्यां नर: स्नात्वा न दुर्गतिमवाप्नुयात् ॥१५२९॥ऋषिकुल्यामथासाद्य देवकुल्यां तथैवच ।अश्वतीर्थ प्रवासं च वारुणं तीर्थमेव च ॥१५३०॥वह्रितीर्थ चन्द्रतीर्थं नागतीर्थ तथैवच ।चक्रतीर्थ वामनं च गोप्रदानफलं भवेत् ॥१५३१॥स्नात्वा तु मरुतीर्थे च स्कन्दतीर्थे च मानव: ।तथा सुरेश्वरीतीर्थे स्वर्गलोके महीयते ॥१५३२॥माहुरीं तु समासाद्य तिलप्रस्थफलं लभेत् ।तत्संगमे वितस्तायां स्नात्वा मुच्येत किल्विषै: ॥१५३३॥त्रिपुरेशाग्रत: पुण्यां अवगाह्य तु माहुरीम् ।महादेवगिरिं दृष्टा रुद्रलोके महीयते ॥१५३४॥अमरेशे नर: स्नात्वा गोशतस्य फलं लभेत् ।मालिन्यां तु नर: स्नात्वा दशगोदफलं लभेत् ॥१५३५॥स्नात्वा पाणडवतीर्थे च पश्चयज्ञानुपश्नुते ।उच्चेशं तीर्थमासाद्य रुद्रलोके महीयते ॥१५३६॥स्नात्वा रामह्र्दे तोये भवेव्दहुसुवर्णभाक् ।मालिनीसंगमं पुण्यं सिन्धुना सह पार्थिव ॥१५३७॥तथा रामह्रदो यत्र युज्येत सह सिन्धुना ।तयो: फलमथोद्दिष्टं राजसूयाश्वमेधयो: ॥१५३८॥संयोगं सिन्धुना यत्र गता कनकवाहिनी ।गोसहस्रमवाप्रोति धनवानपि जायते ॥१५३९॥पावना च नदी पुणया रजोबिन्दुविनिर्मिला ।तस्यां स्रातरत्ववाप्नोति पुण्डरीकफलं नर: ॥१५४०॥तयो: समागमे पुण्ये राजसूयफलं स्मृतम् ।तस्मोद्देशादथारभ्य यावत्स्याचीरमोचनम् ॥१५४१॥तावत्क्षेत्र समं पुण्यं वाराणस्यां प्रकीर्तितम् ।तन्मध्ये सर्वतीर्थाना सान्निध्यं कथितं मया ॥१५४२॥स्वर्गमार्गप्रदं प्रोक्तं तीर्थ चीरप्रमोचनम् ।दिवमुत्सृज्य चीराणि यत्र सप्तर्षयो गता: ॥१५४३॥स्नात्वा तत्र दिवं यान्ति येपि पापकृतो नरा: ।सोदरे तु नर: स्रात्वा गोसहस्रफलं लाभेत् ॥१५४४॥तथा कनकवाहिन्या संगमं याति यो नर: ।तथा कालोदका पुण्या नदी यत्रैव संगता ॥१५४५॥तयो: फलं विनिर्दिष्ट राजसूयाश्वमेधयो: स्नात्वाश्वमेधमाप्नोति वितस्तासिन्धुसंगमे ॥१५४६॥प्रोप्ठपद्यां विशेषेण एवमाहुर्मनीषिण: ।पात्रतीर्थे नर: स्नात्वा पुणडरीकमुपाश्नुते ॥१५४७॥आपगायां नर: स्नात्वा कुलमुध्दरते स्वकम् ।अग्रिष्टोममवाप्नोति स्रात्वा सरमि मानसे ॥१५४८॥आषाठयां तु विशेषेण नात्र कर्या विचारणा ।वाजपेयमवाप्नोति महापद्मसगस्यपि ॥१५४९॥हिरण्या वै नदी पुण्या हरमुण्डाव्दिनिर्गता ।स्नातस्तस्यामवाप्नोति वह्रिष्टोफलं नर: ॥१५५०॥महापद्मसर: पुणयं हिरण यत्र गच्छति ।अश्वमेधफलं तत्र पौर्णमास्यां विशेषत: ॥१५५१॥बहुरुपे नर: स्नात्वाअ विष्णुलोके महीयते ।बहुरुपे च कथितं फलमतन्नरोत्तम ॥१५५२॥शतश्रृगे सुतीर्थे च तीर्थे वैश्रवणस्य च ।तीर्थे पुण्ये तथा राजन् भूर्जस्वामिसमीपत: ॥१५५३॥वसूनामथ रुद्राणां साध्यानां महतामपि ।विशेषं चैव देवानां भृगूनां च नराधिप ॥१५५४॥तथैवाडिरसं राजन् तीर्थे तीर्थे पृथक् पृथक् ।द्शगोद्फलं प्रोक्तं मुनिभिस्तस्वदर्शिभि: ॥१५५५॥पालाशा च शुमाला च वितस्तां यत्र गच्छति ।गोसहस्रफलं तत्र प्रत्येकं कथितं मुने ॥१५५६॥नदीकूलारणी यत्र संयुज्येत वितस्तया ।तत्र स्नात्वा कुलं शीघ्रं पुनीते मानवोत्तम: ॥१५५७॥विगाह्य पुष्करं तीर्थमतिरात्रफलं लभेत् ।तीर्थ सप्तऋषीणां च वह्रिष्टोमफलं लभेत् ॥१५५८॥तीर्थ वाराहमासाद्य वितस्ताम्भसि मानव : ।विष्णुलोकमवाप्रोति कुलमुध्दरते स्वकम् ॥१५५९॥स्नात्वा नारायणस्थाने वितस्ताम्भसि पार्थिव ।विष्णुलोकमवाप्रोति नरो नारत्यत्र संशय: ॥१५६०॥नदी गोत्रवती यत्र वितस्तां प्रतिपद्यते ।तयो: स्नानस्य कथितं गोसहस्रफलं पृथक् ॥१५६१॥माहुरी च नदी पुण्यां मथुरेव विशेषत: ।शतशीला च माला च नदी च विमलोदका ॥१५६२॥राहुला च नदी पुण्या श्रीशाढया च महानदी ।व्दितीया च तथा शुध्दा समुला सरसा तथा ॥१५६३॥आसां प्रत्येकत: स्नात्वा लभेद्गोदानजं फलं ।आसाभेव तु सर्वासां संगमांश्च पृथक् पृथक् ॥१५६४॥अवगाह्य नर: शुध्दो दशगोदफलं लभेत् ।अनन्तीर्थे स्नातस्तु नागलोके महीयते ॥१५६५॥बिन्दुनादेश्वरं तीर्थ सोमतीर्थ पृथूदकम् ।तुडेक्षुकक्षेत्रे तीर्थ तु उतंकस्वामिन तथा ॥१५६६॥रामतीर्थ भृगुस्तीर्थ तीर्थमाडिरसं तथा ।दृष्टैकैकमयो राजन् दशगोदफलं लभेत् ॥१५६७॥सर्वा: सरिव्दरा: पुण्या: सर्वप्रस्रवणास्तथा ।इमे तथा च राजेन्द्र सर्वे पुण्या: शिलोचया ॥१५६८॥सर्वा: ऋषिगताश्चार्या: सुरांसि विपुलानि च ।सर्वत्रैव महीनाथ कश्मीरेषु विशेषत: ॥१५६९॥सर्वे च संगमा: पुणया: नागानां ये जलाशया : ।सुवर्णशतदानस्य फलं प्राप्रोत्य संशयम् ॥१५७०॥इति तीर्थानि पुण्यानि वितस्ता च विशेषत: ।सर्वत्र पावनी देवी वितस्ता कथिता नृप ॥१७७१॥तस्यां स्नात्वा दिवं यान्ति येऽपि पापकृतो नरा: ।वह्रिष्ठोमवाप्रोति स्नातस्तस्यां नराधिप ॥१५७२॥दृष्टाश्रमे वितस्तेयं धूमेशे सिन्धुसंगमे ।वराहतीर्थे पापघ्रे राजसूयफलप्रदा ॥१५७३॥सदैव पुण्या शुल्के च त्रयोदश्यां विशेषत: ।यत्र यत्र वितस्तायां गोरजोधूतमस्तक: ॥१५७४॥स्नात्वा त्रयोदशी शुल्कां मुच्यते सर्वकिल्विषै: ।अदृश्यं मानव: कृत्वा पातकं मुक्तपश्चकम् ॥१५७५॥स्नानेनैकेन शिशिरे सलिलेन व्यपोहति ।अनर्काभ्युदिते काल सकलं शिशिरं यदि ॥१५७६॥अत्र स्नाति नरो राजन् कामानाप्रोत्यभीप्सितम् ।स्नात्वा यथावध्दिधिना समभ्यर्च्य हुताशनम् ॥१५७७॥ब्राह्मणेभ्यस्तथा दत्वा कृशरं घृतसंयुतम् ।स्वर्गलोकमवाप्नोति यवादिन्द्राश्चतुर्दश ॥१५७८॥एवं सवत्सरं पूर्ण नित्यस्नायी नर: शुचि ।मोक्षोपायमथासाद्य ततो मोक्षमवाप्स्यति ॥१५७९॥काश्मीरिकाणां तीर्थानां फलं ते कथितं मया ।सकलं नीलवाक्यं च गमिष्यामि सुखी भव ॥१५८०॥इदं धार्य प्रयत्नेन यन्मयभिहितं तव ।श्रुत्वैतत्फलमाप्नोति दशगोदानजं नर: ॥१५८१॥वैशम्पायन उवाच ।एवमुक्त्वा सगोनन्दं बृहदश्वो महीपतिम् ।धर्मात्मा तीर्थयात्रार्थ जगामाभीप्सितां गतिम् ॥१५८२॥बहु मेने स चात्मानं गोनन्द: समरप्रिय: ।प्रशशास धरां सम्यक् राजा धर्मानुसारत: ॥१५८३॥जनमेजय उवाच ।भूयो वितस्तामाहत्म्यं कथयस्व व्दिजोत्तम ।यच्छुत्वैव भविष्यामि व्दिजेन्द्र गतकल्मष: ॥१५८४॥वैशम्पायन उवाच ।हरस्य दयिता भार्या सती दाक्षायणी शुभा ।सैवोमा कथिता राजन् प्राप्ते वैवस्व्तेऽन्तरे ॥१५८५॥हिमाद्रितनया सैव यमुना पापनाशिनी ।मन्वन्तरान्ते सैवोक्ता नौर्गरिष्ठा जगत्रये ॥१५८६॥कश्मीरा कथिता देवी वितस्ता सैव निम्रता ।पातालादुत्थिता देवी शूलखातात्तरडिणी ॥१५८७॥स्रातस्य तोये वैतस्ते स्वयमात्मानमात्मना ।विजानाति गताशेषकल्मषकल्मषालघुभागिमम् ॥१५८८॥वोतस्ताया महीनाथ न गंगा व्यतिरिच्यते ।केवलं जान्हवीतोये पुरुषस्यास्थिसंभव: ॥१५८९॥वितस्तातोऽधिको राजन्ड स्नानाद्यं तुल्यमेवच ।भगीरथेन गंगेयं पुरा राज्ञाऽवतारिता ॥१५९०॥अस्थाप्लावनकामेन सगराणां महात्मनाम् ।तेनेयं कथिता राजन् प्रशस्ता तत्र कर्मणि ॥१५९१॥वितस्ता वै नदी पुण्या सर्वपापहरा शुभा ।वैतस्तयेन तोयेन जठरस्थेन ये मृता: ॥१५९२॥सर्वे स्वर्गमनुप्राप्ता: यथा ते सोमपायिन : ।तीर्थ वाराहमासाद्य वितस्ताम्भसि मानव: ॥१५९३॥विष्णुलोकमवाप्रोति कुलमुध्दरते स्वकम् ।स्नात्वा नारायणस्थाने वितस्ताम्भसि पार्थिव ॥१५९४॥देवलोकानवाप्रोति नरो नास्त्यत्र संशय: ।न यज्ञैर्दक्षिणावद्भि स्तर्पिता देवतास्तथा ॥१५९५॥तृप्ति समधिगच्छन्ति यथा तत्सलिलै: शुभै: ।पात्रे तीर्थे तथा काले मिष्टान्नै: विविधै:कृतै: ॥१५९६॥यथा तृप्यन्ति पितर: श्राध्दैस्तव्दच तैर्जलै: ।नागै: बहुविधाकारै : सुहृद्भि: संगति गताम् ॥१५९७॥तीर्थै: देवैश्च ऋषिभि: गन्धवैर्यक्षराक्षसै: ।अभिगच्छेत मेधावी जन्मसाफल्यकारणात् ॥१५९८॥स्नातमात्रो वितस्तायां जानाति वरुणो नरम् ।जलाधिपेन ज्ञातस्य नरके पतनं कुत: ॥१५९९॥पापिनां नरके घोरे पततां दुष्टतात्मनाम् ।हस्तत्राणपदा देवी वितस्ताघनिषूदिनी ॥१६००॥सर्गारोहणनि:श्रेणीं मनोरथफलप्रदाम् ।वितस्तां ये गमिष्यन्ति ते यास्यन्त्यमरावतीम् ॥१६०१॥हंससारसयुक्तेन चक्रवाकोपशोभिना ।विमानेनार्कवर्णेन किंकिणीजालमालिना ॥१६०२॥देवरामागणाढयेन वीणामुरजनादिना ।पुलिनैर्विविधैर्युक्तां पद्मोत्पलैविभूपिताम् ॥१६०३॥गोकुलारावबहुलां हम्भारव निनादिताम् ।मत्स्यकच्छपसबाधां सतीर्थ्या कामदायिनीम् ॥१६०४॥अमृतस्वादसलिलां नृणां दृष्टिम् मनोहराम् ।येऽभिगच्छन्ति वरदां मातरं वा सुखप्रदाम् ॥१६०५॥तेऽभिगच्छन्ति राजेन्द्र प्रतिष्ठां भुवि मानवा: ।समुद्ररुपस्य हरस्व भार्या हिमालयस्याद्रिपतेस्तनूजाम् ।सुसारतोयां ऋषिवर्यजुष्टां तां त्वं पवित्रां प्रणमस्व राजन् ॥१६०६॥सिन्धुस्विकोटी च तथाविशोका पुणया नदी हर्षपथाशिवा च ।पुणया सुखा चन्द्रवती सुगन्धा पुणयोदका किल्विषनाशिनी च ॥१६०७॥कूलारणी पापहरा च कृष्णा नदी सुपुण्या मधुमत्यथापि ।नदी परुष्णी च तथा त्रिपुणया पुष्णाति पुणयां वरदां वितस्ताम् ।तीर्थानि पुण्यानि सरांसि राजन् नद्यस्तडाका: विविधाश्च कूपा: आयान्ति सर्वे वरदां वितस्तां त्रयोदशीं भाद्रपदस्य शुल्काम ।कस्यास्ति शक्तिर्नृपते प्रवक्तुं देवीगुणान् वर्षशतैरनेकै: ।भक्रया मयोक्रं च निशम्य कांचित् भक्ति कुरुष्वात्र सदा नृवीर ।श्रुत्वा वितस्तामाहात्म्यं मुच्यते सर्वकिल्विषै: ।श्रुत्वा नीलमतं सर्व दशधेनुफलं लभेत् ॥१६११॥इत्येवमुक्तं जनमेजयस्य व्यासस्य शिष्येण महाव्रतेन ।संक्षेपतओ ग्रन्थबहुत्वभीत्या समग्रशास्त्रै: खलु सूचितं यत् ।सर्वत्र नैतद्ध्युपयोगमेति ततो नचोचे भगवान महात्मा ।अतीव हृद्ये वहुविस्तरेऽपि जनाप्रिये भारतपूर्णचन्द्रे ॥१६१३॥इति नीलमते वितस्तामाहत्म्यम् ।समाप्तं चेदं नीलमतपुराणम् ॥ शिवायास्तु लेखकपाठक श्रावकाणाम् ॥संवत् ४९८९ ॥ श्रावणे त्रयोदश्याम् ॥ N/A References : N/A Last Updated : January 09, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP