संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम्

भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
श्रावण्यां समतीतायां या स्यात्कृष्णाष्टमी व्दिज ।
तस्मामुत्पद्यते देवो मानुषो मधुसूदन: ॥८५७॥
वराहावतारणार्थ हि (भवभारापहारार्थ) तस्यां तु व्दिजसत्तम्‍ ।
अष्टाविंशे च संप्राप्ते व्दापुरान्ते इति श्रुतम्‍ ॥८५८॥
तत्राहानि तु कर्तव्यं तस्मात्कालात्सदा परम्‍ ।
 पूजनं देवदेवस्य देवाश्चैव यथाविधि ॥५५९॥
देवकी च यशोदा च तदा पूज्ये व्दिजोत्तम ।
गन्धैर्माल्यैस्तथा भक्ष्यैर्यवगोधूम सम्भवै: ॥५६०॥
सगोरसैर्भक्ष्यभोज्यै: फलैश्च विविधैस्तथा ।
एवं सम्पूजनं कृत्वा रात्रौ कुर्यान्महोत्सवम्‍ ॥८६१॥
वाजि(रात्रि)जागरणं कार्य नवम्यां व्दिजसत्तम ।
अनर्काभ्युदिते काले स्त्रिय: कौसम्बवासस: ॥८६२॥
नदीतीरे शुभे रम्ये विविक्रे सरसेऽपिवा(?) ।
नयेयु: प्रतिमा: सर्वागीतवाद्यैर्मनोहरै: ॥८६३॥
तस्मिन्नहनि भोक्तव्यं भोजनं यवसम्भवम्‍ ।
युक्ततिक्षुविकारैश्च मरिचैश्च घृतेन च ॥८६४॥
इति श्री नीलमते भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP