संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
महीमानवर्णनम्

महीमानवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


फाल्गुणस्य तु मासस्य शुक्लपक्षे व्दिजोत्तम: ॥६३६॥
महीमानं तथा कार्य तथा मे गदत: श्रृणु ।
अनश्रद्भिस्तथाष्टम्यां नरै: स्रातैरलंकृतै: ॥३३७॥
प्रदोषसम्ये देया दीपकास्तु हिमोपरि ।
देवतानां पितृणां च भोक्तव्यं तदनन्तारम्‍ ॥३३८॥
व्दितीयेऽहनि मध्याह्वे धान्यकूटैश्च शोभनै: ।
पूजनीयाअ गृहा विप्र देवागारा विशेषत: ॥६३९॥
तदा सीता च संपूज्या गंधमाल्यादिभिस्तथा ।
अनन्तरं च भोक्रव्यं भोजनं च विशेषवत्‍ ॥६४०॥
तत्सर्व चैवकर्तव्यं नृत्तगीतसमाकुलम्‍ ।
नित्यदानं सपकणं ऋते तस्मिन्दिने सदा ॥६४१॥
नान्यत्किंचित्प्रदातव्यं लब्धं ग्राह्यं प्रयत्नत: ।
व्दितीयेऽहनि कर्तव्यं प्रतिकर्म तथात्मन: ॥६४२॥
मडंलालल्बनं कार्य तत्सर्व च विशेषवत्‍ ।
आश्रितानां व्दिजातीनां शिल्पिसंबन्धिनां तथा ॥६४३॥
तस्मिन्नहीन दातव्यं ग्राह्यं चैवाप्युपायनम्‍ ।
मद्यं तु मद्यपैर्पेयं ब्राह्मणै: पानका: शुभ: ॥६४४॥
शय्यास्थानं च कर्तव्यं धूपगन्धादिभासितम्‍ ।
तस्मिन्नहनि नो कार्य्यो विमुख: कश्चिदेव तु ॥६४५॥
स्त्रीभिर्माव्यं प्रहृष्टामि: सवस्त्राभिस्तथैव च ।
स्वर्चिताभि: सुगन्धामि: स्वनुलिप्ताभिरेव च ॥६४६॥
भूषणैर्भूषिताभिश्च क्रीडितव्यं नरै: सह ।
इति श्री नीलमते महीमानवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP