संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| भूतेश्वर वर्णन नाम नन्दिचरितं नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् भूतेश्वर वर्णन नाम नन्दिचरितं नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत भूतेश्वर वर्णन नाम नन्दिचरितं Translation - भाषांतर बृहदश्व उवाच ।एवमुक्तस्तु शक्रेण ब्रह्मा वचनमब्रवीत् ॥१२६९॥मा मा शक्र वदे देवमभिज्ञातोऽसि पुत्रक ।एष सर्वेश्वर: शक्र एष कारणकारणम् ॥१२७०॥त्वया धृता: धारयन्ति त्वयैदं सचराचरम् ।वष्टा त्वमसि सर्वस्य सहर्ता पालकस्तथा ।यदुन्मोलयसे नेत्रे त्रैलोक्यस्योद्भवस्तदा ।भवतीह जगन्नाथ यदा सुप्यसि वै तदा ।तदेतदखिलं देव त्रैलोक्यं संप्रणश्यति ।भूमिर्धृता धारयते त्वयेदं सचराचरम् ।त्वया धृता: धारयन्ति तथैवापोऽखिलं जगत् ॥एष चाचिन्त्यमहिमा एष ब्रह्म सनातनम् ।सएष सर्वकर्ता च सर्वज्ञश्च महेश्वर: ॥१२७१॥यदिच्छया जगदिदं वर्वर्ति सचराचरम् ।यस्य शक्रिलता सेयं सूर्यचन्द्रास्मन: प्रभो: ॥१२७२॥पुष्पिताऽखिल मेवेदं जगद्भासयते भवात् ।त्वमहं चापि यस्यैव शासने समवस्थितौ ॥१२७३॥मनाक् प्रच्यवने शक्र रुजातौ भवता कचित् ।विभूतिमानसौ शुक्र सर्व मस्य वशे स्थितम् ॥१२७४॥महेश्वरोऽसौ यस्यान्तं न विदु र्देवदानवा: ।यस्यैषा मे कला शुक्र विभूति: स्वर्गलक्षणा ॥१२७५॥स एव भगवान् शंभु: सर्वलोकमहेश्वर: ।अस्यैवयं तनु: शक्र कलामात्रं विभो मतम् ॥१२७६॥नाहं अस्य तु तद्रूपं निरुपयितुमज्जसा ।शक्रोऽस्म्यनेन सत्वेन प्रसीदतु ममाप्यसौ ॥१२७७॥यथाऽहं तस्य श्रीर्विष्णु: परस्य परमात्मन: ।परं तत्वं न जानामि स तथास्य जगत्पति: ॥१२७८॥स एष त्रिजगन्नथो धूर्जटिश्चन्द्र्शेखर :।भूतिभूषितसर्वाड: शूलभृत्सर्पभूषण: ॥१२७९॥एषाऽसौ परमा मूति: शार्वी परमपावनी ।तपसा महता युक्ता यन्नतोऽस्मि शतक्रतो ॥१२८०॥तं च सर्वै: सुरै: साकं प्रणम्यैनं प्रसादय ।एवमुक्तस्तत: शक्र: सर्वै: सुरगणैर्वृत: ॥१२८१॥तुष्टाव देवदेवेशं त्रिपुरान्तकरं हरम् ।प्रसादाद्ब्राह्मणस्तस्य याथातथ्येन शंकरम् ॥१२८२॥शक्र उवाच ।नमस्ते देवदेवेश मायावृतजगत्त्रय ।यजमानो मही खंच तोयाग्रीन्व्दर्कवायव : ॥१२८३॥तनवस्ते विनिर्दिष्टा याभिर्व्याप्तं जगत्रयम् ।ब्राह्मीं तनुं समास्थाय राजसीं त्वं जगद्गुरो ॥१२८४॥लोकान् सृजसि भूतात्मन्य़् तव कार्ये न विद्यते ।पौरुषीं तनुमास्थाय सात्विकीं त्वं महेश्वर ॥१२८५।पालयस्यखिलं देव त्रैलोक्य साक्षिवत्स्थित: ।कालाख्यां तामसीं कृत्वा जगत्सहरसि तथा ॥१२८६॥वृपरुपधरो धर्मो वाहनत्वमुपागत: ।तथास्तेऽत्र जगन्नाथ प्रसीद परमेश्वर ॥१२८७॥वामार्थ दयितास्थानं कथं जातं तव प्रभो ।समाधिनिरतो नित्यं ब्रह्मचार्यध: भवान् ॥१२८८॥नम: शशांकलेखांकजटाभार महेश्वर ।गंगातरडंनिर्धूत जटाभार नमोऽस्तुते ॥१२८९॥त्रिपुरारे नमस्तेस्तु नमस्त्वन्धकघातिने ।कुशाग्रभिन्नदेत्यांशरुधिरार्द्र नमोस्तु ते ॥१२९०॥कपालमालिने तुभ्यं पार्वतीदयिताय च ।उग्रायुधाय भीमाय भीमायुधधराय च ॥१२९१॥उर्ध्वलिगाय शीघ्राय कथाय कथनाय च ।मडंल्याय वरेण्याय महाहासाय मीडुषे ॥१२९२॥भीमाख्याय भुसणडाय व्यालयज्ञोपवीतिने ।क्षमस्व मम देवेश यन्मयासि न पूजित: ॥१२९३॥तवैव मायया पूर्व मोहितेन जगत्प्रभो ।प्रसन्नोऽसि ध्रुवं शम्भो येन ज्ञातोऽस्मि वै मया ॥१२९४॥सुप्रसन्नोऽसि देवेश प्रणतोऽस्मि महेश्वर ।बृहदश्व उवाच ।एवं स्तुतस्तु शक्रेण ब्रह्मणा ऋषिभि: सुरै: ॥१२९५॥हंसरुपं तदा त्यक्त्वा स्वेन रुपेण शंकर: ।जगाम ब्रह्मणो यज्ञ देवानां दर्शनं तदा ॥१२९६॥आनाययामास तदा देवदेवो वृषं मुदा ।इत्थं त देवदेवेश: समाप्ते ब्रह्मण: क्रतौ ॥१२९७॥सर्वदेवगणै: सार्ध ययौ कालोदकं सर: ।ददर्श नन्दिनं तत्र शीततृट् क्षुत् समाकुलम् ॥१२९८॥अतीव किन्नगात्रं च कृषितीन्द्रियमानसम् ।मृत्युना नयमानेंन बन्धुनेव नराधिप ॥१२९९॥दृष्टोवाच महादेवो नन्दिनं जगतां वरम् ।वरं वरय भद्रं ते उत्तिष्ठोत्तिष्ठ पुत्रक ॥१३००॥मा भैषीर्नहिते मृत्यु: कल्पकल्पान्तरेष्वपि ।इति वाचं समाकणर्य महादेवस्य सत्फलाम् ॥१३०१॥उन्मील्य नेत्रे सहसा ददर्शाग्रे महेश्वरम् ।देव हरं देव्या पार्वत्या सहितं स्थितम् ॥१३०२॥देवगणै: सार्ध तत्याज मरणाद्भयम् ।शिलां त्यक्त्या समुत्थाय तोयमध्यात्ससंभ्रमम् ॥१३०३॥पूजयामास देवेशं वाग्भिरद्भि: प्रसूनकै: ।स चापि पूजित: शम्भु: प्रहसन् वाक्यमब्रवीत् ॥१३०४॥शंकर उवाच ।रुद्रजाप्येन ते तात महता तपसा तथा ।परितुष्टोऽस्मि भद्रं ते मत्समीपे निवत्स्यसि ॥१३०५॥अनेनैव शरीरेण नास्ति ते मृत्युतो भयम् ।स्मरस्व पूर्वकं जन्म प्रतीहारो भवान् मम ॥१३०६॥शिलादेन व्दिजेन्द्रेण प्राप्तस्त्वं तपसा तदा ।सत्पुत्रेण तथा पुत्र शिलादस्तारितस्त्वया ॥१३०७॥गणेश्वरत्वमासाद्य मया सह निवत्स्यसि ।अस्माद्योजनमात्रेण पूर्वभागी व्दिजोत्तम ॥१३०८॥त्वया सह निवत्स्यामि भूत्वा भूतेश्वराख्यया ।तव नन्दिन् प्रतिष्ठानं वसिष्ठो भगवान् ऋषि: ॥१३०९॥कर्ता देशे शुभे तस्मिन् मम चाच्युत भूतले ।सन्निधानं करिष्यामि तत्र नित्यं महं व्दिज ॥१३१०॥पूर्वोत्पन्नं च यज्ज्येष्ठे शाख्यं लिंगं मम व्दिज ।तत्रापि सन्निधानं मे नित्यं विज्ञातुमर्हसि ॥१३११॥ऋषिकोटिसहस्राणि मम भक्त्या व्दिजोत्तम ।तत्र संज्ञापयन्ति स्म ज्येष्ठेशं त सदैव तु ॥१३१२॥ब्रह्मन् दिव्येन तोथेन शुभेनोत्तरमानसम् ।तेषां तप: प्रभावेण भक्त्या च मम पाश्वद ॥१३१३॥सोदरस्य च नागस्य स्रानं कृत्वा विधानत: ।गत्वा च शीघ्रं सव्दिप्र तथैवओत्तरमानसम ॥१३१४॥तत्रापि विधिवत्स्रानं विधाय दृढ निश्चयात् ।सुखं प्राप्तो महाभागा तत्र रंस्यसि पुत्रक ॥१३१५॥तस्माद्देशात्तथा याति दक्षिणेण महानदी ।हिरण्याभाम्मसा पूर्णा नाम्ना कनकवाहिनी ॥१३१६॥वसाम्यहं च ज्येष्ठेशे भूतै: सह तथोमया ।वस त्वमपि सध्दिप्र मन्निष्ठो मत्परायण: ॥१३१७॥आकाम्येण अवसन्नित्यं नियमाचारतत्पर: ।विशुध्दप्रकृतिर्भूत्वा सर्वभूताभयंकर: ॥१३१८॥मत्समीपमथाभ्येहि देहेनानेन पुत्रक ।एवमुक्त्वा तु देवेशो नन्दिनं प्रणतं स्थितम् ॥१३१९॥मृत्युं विसर्जयामास सान्त्वयित्वा सुरारिहा ।नन्दिनं च समादाय दृष्टा चोत्तरमानसं ॥१३२०॥तस्यैव सरसोऽभ्यासे श्रृगं त्रैलोक्यविश्रुतम् ।अत्युच्छ्रितं समाभाति दृष्टं पुण्यप्रवर्धकम् ॥१३२१॥हरमुकटमिति ख्यातं आरुरोह मुदान्वित: ।यत्र सन्निहितो नित्यं देवदेवो महेश्वर: ॥१३२२॥भयदाता च दैत्यानां सुराणभयप्रद: ।ज्येष्ठेश्वरसमीपे तु वसिष्ठोऽपि महायश: ॥१३२३॥सर्वैर्देवगणै: सार्ध दध्रे भूतेश्वरं हरम् ।तस्यैव पश्चिमां मूर्ति स चकाराथ नन्दिनम् ॥१३२४॥एवं कृते ययुर्देवा यथागतमरिन्दम ।सस्नुस्तीर्थानि च तथा ऋषयश्च तपोधना: ॥१३२५॥एवं हि भृगु शापेन हरस्यानुग्रहेण च ।तत्र संनिहतो नन्दी तत्प्रीत्या च महेश्वर: ॥१३२६॥नन्दीश्वरस्य या मूर्ति र्दुराचारैर्न दृश्यते ।भूतेश्वर तथा दृष्टा मुच्यते सर्वकिल्विषै: ॥१३२७।स्राता तु सोदरे पुणये दृष्टा भूतेश्वरं हरम् ।ज्येष्ठेश्वरं नन्दिनं च गाणपत्यमवाप्नुयात् ॥१३२८॥इति श्री नीलमते भरतगिरि मुणड पृष्ठ-कृपाणी तीर्थ ब्रह्मस्रो -हंमव्दार-वाष्प-बिन्दु-कालोदक-वसिष्ठाश्रम-ज्येष्ठेश्वर-सोदरोत्तमानस-भूतेश्वर वर्णन नाम नन्दिचरितं समाप्तम् ॥ N/A References : N/A Last Updated : January 09, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP