संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| तीर्थमहिमावर्णनम् नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् तीर्थमहिमावर्णनम् नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत तीर्थमहिमावर्णनम् Translation - भाषांतर गोनन्द उवाच ।देशस्यास्य समीपे तु तीर्थानि वदतां वर ॥१४४०॥कथयस्वामितप्रज्ञ कस्य तीर्थस्य किं फलम् ।बृहदश्व उवाच ।आरोह्य गृध्रकूटं तु गोसहस्रफलं लभेत् ॥१४४१॥कुमुनारीं नदीं प्राप्य स्रातो मुच्येत किल्विषै: ।वितस्ता- मधुमत्योश्च संगमे त्रिदिवं व्रजेत् ॥१४४२॥इअन्द्रकीलं समारुह्य गोसहस्रफलं लभेत् ।दृष्टा चक्रेशमाप्रोति वह्रिष्टोमफलं नर: ॥१४४३॥तथा मधुमतीतीरे शाण्डिल्येन निवेशिताम् ।दृष्टा दुर्गामवाप्रोति काममेव यथेप्सितम् ॥१४४४॥तत्रैव शाण्डिली नाम्री नदी पापनिसूदिनी ।तस्यां स्रातो दिवं याति पुरुषो गतकल्मप: ॥१४४५॥शाण्डिलीमधुमत्योश्च स्रातो य: संगमे नर: ।सर्वपापविनिर्मुक्त: स्वर्गलोकं स गच्छति ॥१४४६॥राजवासं हरिं दृष्टा काम्यं प्राप्रोत्यभीप्सितम् ।रजोविनिर्मलं प्राप्य स्रात्वा मुच्यते किल्विषै: ॥१४४७॥तस्यां देवी उमा स्रात्वा प्रथमं तु रजोवती ।दृष्टा च गौरीशिखरं चन्द्रलोकमवाप्नुयात् ॥१४४८॥पूर्वमासीदुमा राजन्नीलोत्पलसमप्रभा ।सा तत्र तपसा लेभे गौरवर्ण मनोहरम् ॥१४४९॥कृष्णपक्षेऽपि नं शैलं सज्योत्स्रमिव मानद ।पश्यन्ति मानवा नित्यं तत्तत्र महदद्भुतम् ॥१४५०॥तलेला भूर्जलां पुणयामवगाह्य पृथक् पृथक् ।तुल्यं फलमवाप्रोति गोशतस्य महीपते ॥१४५१॥तयोस्तु संगमे स्रात्वा वाजपेयफलं लभेत् ।मधुमत्यास्तयोश्चैव स्रातस्य नृप संगमे ॥१४५२॥कथितं मुनिभि: पुणयमश्वदानसमं भुवि ।तत: प्रभवमासाद्य मधुमत्या: मनोहरम् ॥१४५३॥सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।उत्तरे मानसे स्रात्वा गोसहस्रफलं लभेत् ॥१४५४॥पितरस्तर्पितास्तत्र कामान्यच्छन्त्यभीप्सितम् ।हरमुणडं नरो स्रात्वा दशगोधफलं नर: ॥१४५५॥आरुह्य तदवाप्रोति राजसूयफलं नर: ।तत्र गडां सरित् श्रेष्ठा चन्द्रभ्रष्टा प्रतिष्ठिता ॥१४५६॥यस्यां स्रातस्य पूयन्ते सर्वपापान्यसंशयम् ।राजसूयमवाप्रोति गंगामानुषसंगमे ॥१४५७॥देवतीर्थे नर: स्रात्वा भवत्यमरपूजित: ।बालखिल्ये कृतेऽगस्त्ये तुल्यतेजा महर्षिभि: ॥१४५८॥कालोदकं नन्दिकुण्डं शंखचक्र गदा तथा ।पद्मं स कपिलातीर्थ तीर्थौ वातिकशुण्डिकौ ॥१४५९॥तीर्थमप्सरसां पुणयं ब्रह्मण: परमेष्ठिन: ।कृपाणीतीर्थमासाद्य प्रत्येकं गोशतं लभेत् ॥१४६०॥कालोदकं यत्र याति नदी मानससंभवा ।तत: स्रातस्य पूयन्ते सर्वपापान्यशेषत: ॥१४६१॥देववध्वस्तथा पुण्या: पुणयं सूर्यसर: स्मृतम् ।तारासर: चन्द्रसर: पुणयं कालुपकं महत ॥।१४६२॥ब्रह्मणो यागभूमिश्च तत्र पुण्या महीपते ।चक्रतीर्थ देवतीर्थ तीर्थ ब्राह्मणकुणिडका ॥१४६३॥दृष्टैकैकमथैतेभ्यो गोशतस्य फलं लभेत् ।हंसव्दारे तु संगम्य स्वर्गमाप्रोत्यसंशयम् ॥१४६४॥सिन्धुप्रभवमासाद्य राजसूयफलं लभेत् ।पुण्डरीकमवाप्रोति योऽवाभ्येति धृतव्रत: ॥१४६५॥तत्राग्रितीर्थ दृष्टैव वह्रिलोके महीयते ।नदी चित्रप्रथा पुण्या मृगनन्दा मृगा तथा ॥१४६६॥गोदावरी वैतरणी तथा मन्दाकिनी शुभा ।चन्द्रभागा गोमती च सर्वपापभयापहा ॥१४६७॥स्रात्वा सुविधिनाप्नोति गोशतस्य फलं नर: ।यत्र चित्रपथा पुणया मधुरा च महानदी ॥१४६८॥गोदावरी तथा पुण्या तथा मधुमती वरा ।एके भवन्ति स्रातस्य तत्र नश्यन्ति किल्विषम् ॥१४६९॥शर्वलोकमवाप्नोति पुनाति स्वकुलं नर: ।भनुवायां नर: स्रात्वा स्रात्वा बिन्दुसरस्यपि ॥१४७०॥सन्ध्यां नाम नदीं दृष्टा मुच्यते सर्वकिल्विषै : ।तथा चैता महानद्य: कथितास्ते महीपते ॥१४७१॥तासां तु संगम: पुण्य: स्वर्गलोकफलप्रद: ।चित्रकूटगिरि: पुणयो गौरी यत्र विवाहिता ॥१४७२॥तथादिमं गव्यसर: पश्च गव्यसर: पृथक् ।तथान्ये पश्च भूपाल पुणयं तैलसर: परम् ॥१४७३॥उर्व्दतनसर: पुण्यं पुण्यमुष्णोदकं तथा ।सिध्दार्थकसरस्तत्र तथामलकवारिण: ॥१४७४॥मधुपर्कसर: पुण्यं पुणयमुष्णोदकं तथा ।एकमेकमथैतेभ्यो दृष्टा स्वलोकमाप्नुयात् ॥१४७५॥चित्रकूटमथारुह्य स्वर्गलोके महीयते ।तीर्थ सप्तऋषं नाम सर्वकामफलप्रदम् ॥१४७६॥अश्वमेधसहस्रस्य श्रेय: सप्तरुचि सर: ।श्राध्दं दानं तथा जप्यं स्रानं होमस्तथार्चनम् ॥१४७७॥सर्वमक्षयतां याति यत्कृंत तत्र पार्थिव ।भस्रापदमथासाद्य रुद्रलोके महीयते ॥१४७८॥छागलेश्वरमासाद्य काममाप्रोत्यभीप्सितम् ।रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥१४७९॥परोष्णीप्रभवं प्राप्य गोसहस्रफलं लभेत् ।उष्णोदकमथासाद्य विष्णुलोके महीयते ॥१४८०॥क्रमता विष्णुना लोकान् कृतं पादेन तत्सर: ।क्रमसारमिदं प्रोक्तं तदा विष्णुपदं च तत् ॥१४८१॥इष्टवान् क्रतुभिस्तत्र यदा देव: पितामह: ।क्रमसारस्तदा प्रोक्त: सर्वकल्मषनाशन: ॥१४८२॥वसतिस्तत्र नागस्य कौणिडाण्यस्य यदा तदा ।कौणिडण्य सर इत्येव तस्य नाम प्रकीर्तितम् ॥१४८३॥तत्र स्रात: समभ्यर्च्य देवताश्च पितृन् तथा ।अश्वमेधमव:प्रोति नात्र कार्या विचारणा ॥१४८४॥दृष्ठा तु शिखरान् रम्यान् ब्रह्मविष्णुमहेश्वरान् ।लोकन्नयमवाप्रोति तेषामेव न संशय: ॥१४८५॥ब्रह्मणो यागभूमिस्तु दृष्टा तत्र महीपते ।स्वर्गलोकमवाप्रोति कुलमुध्दरते सुखम् ॥१४८६॥तत्र क्षीरसरो रम्यं दृष्टा मुच्येत किल्विषै: ।सुसाराप्रभवं प्राप्य स्रात्वा कृष्णचतुर्दशीम् ॥१४८७॥सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।सन्निकृष्टानि तीर्थानि कथितानि मया तव ॥१४८८॥सर्वेषां पापहर्तणि किं भूय: कथयामि ते ।इति श्री नीलमते तीर्थमहिमावर्णनम् ॥ N/A References : N/A Last Updated : January 09, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP