संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कश्यपतीर्थयात्रावर्णनम्

कश्यपतीर्थयात्रावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
एतस्मिन्नेव काले तु कश्यपो भगवान्‍ ऋषि: ॥१२३॥
तीर्थयात्राप्रसडेन चचार सकलां महीम्‍ ।
वर्षेऽस्मिन्‍ भारते पुण्ये शुभाशुभफलप्रदे ॥१२४॥
पुष्करं दुष्करगमं ब्रह्मलोकप्रदं शिवम्‍ ।
प्रयागं यागबहुलं सर्वकिल्विषनाशनम्‍ ॥१२५॥
धर्मक्षेत्रं क्रुरुक्षेत्रं नैमिषं पापनाशनम्‍ ।
पितृणामालयं पुण्यं हयशीर्ष महात्मनाम्‍ ॥१२६॥
सर्वपापहरं दिव्यं तथा चामरुकण्टकम्‍ ।
वराहपर्वतं पुण्यं पुण्यं पश्चनदं तथा ॥१२७॥
कालाज्जनं सगोकर्ण केदारं समहालयम्‍ ।
नारायणस्य च स्थानं सपुण्यं बदिराश्रमम्‍ ॥१२८॥
सुगन्धां शतकुम्भां च कालिकाश्रममेव च ।
शाकम्भरीं नीलतिकं शालिग्रामं पृथूदकम्‍ ॥१२९॥
सुवर्णाख्यं रुद्रकोटिं प्रभासं सागरोदकम्‍ ।
इन्द्रमार्ग मतंगस्य वापीं पापप्रसूदिनीम्‍ ॥१३०॥
अगस्त्यस्याश्रमं पुण्यं तथा तण्डुलिकाश्रमम्‍ ।
जम्बुमार्ग तथा पुण्यं पुण्यां वाराणसीं तथा ॥१३१॥
तथैव जाह्ववीं गंगां देवीं गगनमेखलाम्‍ ।
यमुनां यमपाशघ्रीं शतद्रुं द्रुतगामिनीम्‍ ॥१३२॥
सरयूं यूपसंपन्नां तथा देवीं सरस्वतीम्‍ ।
गोदावरीं वैतरिणीं गोमतीं बाहुदामपि ॥१३३॥
वेदस्मृतिं सुवर्णाभां ताम्रवर्णोत्पलावतीम्‍ ।
शिप्रां सुनर्मदां शोणं पयोष्णीं च महानदीम्‍ ॥१३४॥
इक्षुमतीं सरट्टां च दुर्गा मत्तशिलामपि ।
कौवेरी ब्राह्मणीं गौरीं कम्पनां तमसां तथा ॥१३५॥
गडासागरसन्धिं च सिन्धुसागरसंगमम्‍ ।
भृगुतुंगं विशालां च कुब्जाम्रं रैवतं तथा ॥१३६॥
गंगाव्दारे कुशावर्त बिल्वकं नीलपर्वतम्‍ ।
तथा कनखलं तीर्थ तीर्थान्यन्यानि पार्थिव ॥१३७॥
चचार पादचारेण मारीच; स्वात्मशुध्दये ।
इति नीलमते कश्यपतीर्थयात्रावर्णनम्‍ ॥१०॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP