संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् Translation - भाषांतर नील उवाच ।तस्मिन्नेवाऽह्रि कर्तव्या महाशान्तिर्व्दिजोत्तम ।आढयैर्हि रक्षणार्थाय श्रियस्तत्प्रापणाय च ॥६८५॥तस्मिन्नेवाहि कर्तव्या पूजाकालस्य काश्यप ।तस्मिन्कालस्य गणना प्रवृत्ता पूर्वमेव तु ॥६८६॥तस्मिन्नहानि वै सृष्टं ब्रह्मणेदं जगत्पुरा ।सूर्योदये व्दिजश्रेष्ठ इत्येवमनुशुश्रुम ॥६८७॥पूजनीयास्तु ये देघा ब्रह्मविष्णुमहेश्वर: ।प्रहक्षशान्ति: कर्तव्या दैवज्ञविधिचोदिता ॥६८८॥पूजनीया: ग्रहा: सर्वे नक्षत्राणि च मानद ।कालस्यावय वा: सर्वे ये च संवत्सरादय: ॥६८९॥कालकल्पावुभौ पूज्यौ मनवश्च चतुर्दश ।अतिताश्च भविष्यन्तस्तेषां नामानि मे शृणु ॥६९०॥स्वायंभुवो मनु: पूर्व मनु: स्वारोचिषस्तथा ।औत्तमस्तामसश्चैव रैवतश्चक्षुषस्तथा ॥६९१॥वैवस्वतोऽर्कसावर्णिर्ब्रह्मसावर्ण्य एवच ।रुद्रेशो दक्षसावर्णि: सप्यो भैत्यस्तथैव च ॥६९२॥संपूजनीया देवेन्द्रास्तथा ब्रह्मन् चतुर्दश ।विश्वभुक् च विपश्चिच सुचित्तिश्च निधिस्तथा ।विभुर्मनोजवश्चैव तेजस्वी च तथा बडि: ॥६९३॥अद्भुतश्च तथा शान्तो वृषो देववरस्तथा ।ऋतधामा च देवेन्द्र: शुचि: शुक्लश्चतुदर्श ॥६९४॥युगाना च तथा पूजा कर्तव्या व्दिजसत्तम ।पश्च संवत्सरा: पूज्या: पूज्यं चैवायनव्दयम् ॥६९५॥ऋतुषट्कं तथा पूज्यं मासा व्दादश चाप्यथ ।व्दौ पक्षौ तिथयश्चैव पूज्या पश्चदशैव तु ॥६९६॥करणानि मुहूर्ताश्च राशयश्च पृथक् पृथक् ।धर्म वरिष्ठं सत्यं च कामार्थौ च हुताशनम् ॥६९७॥वसून् रुद्रान् लोकपालान् लोकालोकनिवासिन: ।सुदामानं शंखपादं केतुमन्तं तथैव च ॥६९८॥तथा हिरणयरोमानं दिकपालान् चैव पूजयेत् ।शक्राद्यान् ब्राह्मणश्रेष्ठ दक्षपुत्रीस्तथैव च ॥६९९॥सती ख्याति: स्मृति : स्वाहाप्यनुसूया तथा सुधा ।प्रीति: क्षमा च संभूति: सन्नतिश्चाप्यरुन्धती ॥७००॥लक्ष्मी: कीर्तिर्धृतिर्मेधा तुष्टि: श्रध्दा क्रिया मति : ।बुध्दिर्लज्जा वसु: शान्ति: पुष्टि: सिध्दिस्तथा रति : ॥७०१॥सुरमा च वसुर्दाशी लम्बा भानुमरुध्दती ।संकल्पाश्च मुहूर्ताश्च साध्या विश्वे च काश्यप ॥७०२॥(?) अदितिर्दितिर्दनु: काला दनायु: सिंहिका मुनि: ।कद्रू: क्रूरा इरा स्रावा विनता सुरभि: खशा ॥७०३॥वृषाश्वाश्च तथा पूज्या: सुप्रभा च तथा जरा ।बहुपुत्रश्च संपूज्यस्तस्य पक्षीव्दयं तथा ॥७०४॥पक्षीचतुष्कसंयुक्तोऽ रिष्टनेमिस्तथैव च ॥७०५॥ऋध्दिर्वृध्दिस्तथा निद्रा धनेशो नलकूवर: ।शंखपद्मानिधी पूज्यौ भद्रकाली सरस्वती ॥७०६॥वेदोपवेदवेदाडविद्यास्थानानि कृत्खश: ।नागा यज्ञा: सुपर्णाश्च तथैव गरुडारुणौ ॥७०७॥जम्बु:शाक: कुश: कौश्च: शाल्मलिव्दीप एव च ।गोमेध पुष्करश्चैव व्दीपा: पूज्या: पृथक् पृथक् ॥७०८॥लवण: क्षीरमाज्यं च दधिमण्डसुरोदका: ।तथैवेक्षुरसोदश्च पुणया: स्वादूदकस्तथा ॥७०९॥उत्तरा: कुरव: पुणया: गम्यो हैरण्वतस्तथा ।भद्राश्व: केतुमालश्च वर्षश्चव इलाभृत: ॥७१०॥हरिवर्ष: किंपुरुषां वर्षो भारतसंज्ञक; ।भारतस्य तथा भेदा: पूजनीयाश्च ये नच ॥७११॥इन्द्रद्युम्र: कशेरुश्च ताम्रवर्णो गभस्तिमान् ।नागव्दीपस्तथा सौम्य गान्धर्वो वारुणस्तथा ॥७१२॥श्रयं च मानवो व्दीपस्तथा सागरसंभृत ।चत्वार: सागरा: पूज्यास्तथा पातालसप्तकम ॥७१३॥रुक्मभौमशिलाभौमपातालो नीलमृत्तिक: ।क्रभौम: पीतभौम: श्वेतकृष्णक्षितिस्तथा ॥७१४॥कालाग्रिरुद्रशेषश्च वराहश्च तथा हरि: ।भूर्भुव: स्व: महश्चैव जनश्च तपसा सह ॥७१५॥मर्त्यलोकस्तथालोक: पूजनीया व्दिजोत्तम ।पृथिव्यापस्तथा तेज: पवनं खं च पूजयेत् ॥७१६॥मनो बुध्दिस्तथात्मानमव्यक्रं पुरुषं तथा ।हिमवान् हेमकूटश्च निषधो नीलपर्वत: ॥७१७॥श्वेतश्च श्रृगवान् मेरुर्माल्यवान् गंधमादन: ।पर्वत: प्रवर: पूज्यो यो नाम्रा मानसोत्तर: ॥७१८॥महेन्द्रो मलय: सह्य: शक्तिमानृक्षवानपि ।विन्ध्यश्च पारयात्रश्च कैलासश्च नगोत्तम: ॥७१९॥भागीरथी पावनी च ह्रादिनी ह्रादिनी तथा ।सीता सिन्धुश्च वंक्षुश्च सप्तगंगाश्च मानद ॥७२०॥सुप्रभा काश्चनाक्षी च विशाला मानसा ह्रदा ।सरस्वत्यो घनासा च सवेगा विमलोदका: ॥७२१॥पुष्करदीनि तीर्थानि वित्स्ताद्याश्च निम्रगा: ।शची बनस्पातिगौरि धूम्रोर्णा रुचिराकृति: ॥७२२॥सिनीबाली कुहू: राका तथा चानुमति: शुभा ।आयतिर्नियति: प्रज्ञा मतिर्वेलाच धारिणी ॥७२३॥देव्यौ धातृविधातारौ सप्त छन्दांसि चाप्यथ ।ऐरावर्णश्च सुरभिस्तथैवोचै:श्रवा: हय: ॥७२४॥धन्वतरि र्ध्रुवश्चैव शास्त्राण्यस्त्राणि चाप्यथ ।विनायक: कुमारश्च तथैवच विनायक: (?) ॥७२५॥शाखो विशाख: स्कन्धश्च नागो मेषस्तथैवच ।मरुतश्च प्रहश्चैव रोगाणामधिपो ज्वर: ॥७२६॥ऋषयो बालखिल्याश्च कश्यपागस्त्यनारदा: ।तथैवाप्सरस: पुणया: पूज्या देवाश्च सोमपा; ॥७२७॥आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।भूगवोंऽगिरस: साध्या मरुतश्च महाबला: ॥७२८॥धाता मित्रोऽर्यमा पूषा शक्रेशो वरुणो भग: ।तुष्टा विवस्वान् सविता विष्णुर्व्दादशमानव: ॥७२९॥धनुर्ध्रुव भोजश्च आपश्चैवानिलानलौ ।प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता: ॥७३०॥अडांरकस्तथा सूर्यो नैऋतो घोष एवच ।अजैकपाचाहिर्बुध्न्य: धूमकेतुर्ध्वजस्तथा ॥७३१॥वाहनं चेश्वरो मृत्यु: कपाली कडंणस्तथा ।एकादशैते विज्ञेया: रुद्रा स्त्रिभुवनेश्वर: ॥७३२॥नासत्यदस्त्रौ विज्ञेयावश्विनौ वदतां वर ।भुवनो भावनश्चैव सुजन्यो सुजन: क्रतु: ॥७३३॥त्याज्य: सुवच मूर्धा च दक्षश्चव्यश्च बन्धुक: ।प्रसवश्च व्ययश्चैव भृगवो व्दादश स्मृता: ॥७३४॥आत्मा चायुर्मनो दक्षो मद: प्राणस्तथैवच ।हविष्मांश्च गरिष्ठश्च ऋतु: सत्यस्तथैवच ॥७३५॥एते तंऽगिरस: पुत्रा दश देवा महाबला: ।मनो मदश्च प्राणश्च नरपालश्च वीर्यवान् ॥७३६॥दितिर्हयो नयश्चैव हंसो नारायणस्तथा ।विभुश्चापि प्रभुश्चैव साध्या व्दादश कीर्तिता: ॥७३७॥एकज्योतिर्व्दिज्योतिश्च त्रिज्योतिर्ज्योतिरेवच ।एकचक्रो व्दिचक्रश्च त्रिचक्रश्च महाबल: ॥७३८॥ऋतजित् सत्यजिश्चैव सुषेण: षेणजित्तथा ।अग्रिमित्रोऽरिमित्रश्च प्रभुमित्र: पराजित: ॥७३९॥ऋतश्च ऋतवाक् धर्ता निधर्ता वरुणो ध्रुव: ।विदारणो नाम तथा देवदेवो महाबल: ॥७४०॥ईदृक्षश्चाप्यदृक्षश्च ईहादृगमिताशन: ।कृती नम्र: सकृहक्ष: समरश्च महायशा: ॥७४१॥धाता चोप्रधनुर्भीमश्चापि युक्र: सदा सह : ।[?] दितिर्वसुरथो दृशुवास: कामजयो विराट् ॥७४२॥एते ह्येकोनपश्चाशन्मरुत: परिकीर्तिता: ।विश्वकर्मा तथा पूज्य: सर्वशिल्पप्रवर्तक: ॥७४३॥आयुधं वाहनं छत्रं आसनं चिह्रदुन्दुभी: ।संपूज्य विधिवद्रूह्यन् गन्धमाल्यानुलेपनै ॥७४४॥धूपदीपप्रधानैश्च नैवेद्यैश्च पृथक् पृथक् ।एतेषां पूजनं कृत्वा बह्णन्नकुसुमोत्करै: ॥७४५॥फलं वेदात्तथा ज्ञात्वा नगवर्षस्य वारकम् ।एषां च पूजनं कृत्वा पूजनीया विशेषत: ॥७४६॥ग्रहो नागस्तथा मास: य: स्यात्संवत्सर: प्रभु: ।ग्रहो भविष्यव्दअर्पस्य तथा मासस्य वारक: ॥७४७॥दैवज्ञवक्त्राविज्ञेयो ग्रहमासो विचक्षणै: ।दैवज्ञादेव विज्ञेयं मासवर्षस्य वारकम् ॥७४८॥तस्य पूजा प्रयोक्तव्या भक्ष्यो ज्युअपुरस्सरा ।ततोऽग्रिहवनं कार्य सर्वेपामनुपूर्वश: ॥७४९॥ऊँकार पूर्वकं ब्रह्म नाममध्ये निरन्तरम् ।नमोन्तं च मनुं कृत्वा जुहुयाव्दिधिपूर्वकम् ॥७५०॥वित्तशाठयं परित्यज्य घृताक्षतयवैस्तिलै: ।पृथक् पृथक् तथोद्दिश्य देया विप्रे सुदक्षिणा ॥७५१॥ब्राह्मणा भोजनीयाश्च सुहृत्सबधिबान्धवा: ।विशेषवच भोक्रव्यं कार्यश्चापि महोत्सव: ॥७५२॥पूजनीया व्दिजश्रेष्ठ तथा ज्योतिषका व्दिजा: ।धन्यधान्यौघवस्त्रैश्च पूज्याश्च व्दिजपुंगवा: ॥७५३॥फलवेदविसश्चैव इतिहासविदश्च ये ।याचका: पूजनीयाश्च दक्षिणाभिमुखा व्दिजा: ॥७५४॥आत्मशोभा च कर्तव्या पुष्पालडरघूपनै: ।कथितेयं महाशान्ति: सदाघविनिसूदिनी ॥७५५॥सर्वोत्पातप्रशमनी कलिदु: स्वप्रनाशिनी ।आयुप्रदा पुष्टिकरी धनसौभाग्यवर्धिनी ॥७५६॥व्याधिशत्रुप्रशमनी राज्यराष्ट्रविवर्धनी ।मंगल्या च पवित्रा च लोकोभयसुखावहा ॥७५७॥चित्रामाससमरम्भे य मया विहितास्तव ।ते सर्वे ब्रह्मसदनं तदा यान्ति व्दिजोत्तम ॥७५८॥ब्राह्मी सभा कामरुपा विशेषेण सदाऽनघो ।धारयत्यचलं रुपमनिर्देश्यं मनोहरम् ॥७५९॥तस्यां सभायां ब्रह्माणमनिर्देश्यौजसा वृतम् ।यथोक्रास्तु नसस्यान्ति स्तुवन्त: पर्युपासते ॥७६०॥विश्वावसुश्चाश्विनौ च गान्धर्वौ च हहाहूहू: ।नारदप्रमुखाश्चान्ये गायन्ति च जगद्गुरुम् ॥७६१॥नृत्यन्त्युपचतुर्वक्त्रं देवरामा: सहस्रश: ।उर्वशी मेनका रम्भा मिश्रकेशी त्वलंबसु: ॥७६२॥विश्वाची च घृताची पश्चचूला तिलोत्तमा ।सानुमत्यामला वृध्द: प्राधान्येन तथेतरा: ॥७६३॥तदा पितामहो देव: सर्वदेवसमागमे ।शब्दे नियुंक्ते मानसे(?) ग्रहादीन् तत्र पालकान् ॥७६४॥(?) क्रतृपासां जगद्भर्तुर्गता: स्थानान्यत :परम् ।स्वानि स्वानि व्दिजश्रेष्ठ हृष्टपुष्टदिवौकस: ॥७६५॥इति श्री नीलमते नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् ॥ N/A References : N/A Last Updated : January 08, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP