संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चैत्रकृष्णे पिशाचचतुर्दशी

चैत्रकृष्णे पिशाचचतुर्दशी

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच
ततश्चतुर्दशीं प्राप्य तामेव व्दिजपुंगव ॥६७४॥
संपूज्य शंकरं कार्य्यो रात्रौ सुमदुत्सव:।
तस्यां विर्पचतुर्दश्यां निकुम्ब: शंकरं सदा ॥६७५॥
संपूजयति धर्मात्मा सानुयात्रो महाबल: ।
तस्यां तदा प्रकर्तव्यो निशि नित्यं प्रजागर: ॥६७६॥
पूजा च देवदेवस्य शंभो: कार्या प्रयक्षत: ।
पूजनीयो निष्कुम्बश्च पिशाचाधिपतिर्बली ॥६७७॥
पिशाचानां च दातव्या: बलयश्च सुसंस्कृता: ।
वृक्षमूलेषु गोष्ठेषु गृहेषु विविधेषु च ॥६७८॥
चतुष्पथेषु रथ्यासु चत्वरेषु नदीषु च ।
शून्यालयेषु मुख्येषु गिरीणां शिखरेषु च ॥६७९॥
अट्टालक श्मशानेषु राजमार्गेषु काश्यप ।
तां रात्रिं लक्षणं (?) कार्ये बालकानां गृहे गृहे ॥६८०॥
पुश्चंलीसहितैर्नेया क्रीडामार्गेषु सा निशा ।
ब्रह्मचर्य्यण गीतेन नृतैर्वाद्यैर्मनोहरै: ॥६८१॥
इति श्री नीलमते चैत्रकृष्णे पिशाचचतुर्दशी ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP