संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| आश्रमस्वामिमाहात्म्यवर्णनम् नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत आश्रमस्वामिमाहात्म्यवर्णनम् Translation - भाषांतर गोनन्द उवाच ।भगवन् श्रोतुमिच्छामि विष्णोरायतनान्यहम् ।कश्मीरेषु फलमेषां सन्निधानाध्दरे:परं ॥१३५८॥बृहदश्व उवाच ॥नित्यं सन्निहितो देवो राजन् चक्रधरो हरि :।तं दृष्टा पुण्डरीकाक्षं दशदिनफलं लभेत्? ॥१३५९॥नित्यं सन्निहितो देवो नरसिंहो जनार्दन : ।तं दृष्टा देवदेवेशमश्वमेधफलोदय: ॥१३६०॥तथा बहुसरो नाम्रा नित्यं सन्निहितू हरि: ।देव: सन्निहितो राजन् नित्यं देवसरस्यपि ॥१३६१॥तथा सन्निहितो राजन् पुणये देव सुरेश्वर ।वासिष्ठायथैवात्र कदूर्वार्चायां तथैव च ॥१३६२॥तथैव विनतार्चायां गौतम्यां च नरेश्वर ।विलोक्य केशवार्चाश्च भक्तिश्रध्दा-पुरस्सरम् ॥१३६३॥एता: पुमान् शुध्ददेहो वह्रिष्टोमफलं लाभेत् ।महापद्मस्य सरस: पुणये कूले तथोत्तरे ॥१३६४॥नृसिंहमपरं दृष्टा ज्योतिष्टोमफलं लाभेत् ।शक्रस्थापितमालोक्य वरुणेन तथैव च ॥१३६५॥ब्रह्मणा च धनेशेन यमेन च हरेण च ।दिवाकरेण सौम्येन वह्रिना पवनेन च ॥१३६६॥कश्यपेनाऽथ भृगुना पुलस्त्येन तथात्रिणा ।भूतस्वामि-महास्वामि-शतश्रृंगगदाधरान् ॥१३६७॥मेरोर्भुवनपार्श्वे च भृगुस्वामिजनार्दनम् ।तैत्तिरियेश्वरं देवं देवकस्वामिनं तथा ॥१३६८॥भवस्य च तथा पार्श्वे रामस्वामिजनार्दनम् ।देवं नारायणस्थाने पश्चिमे तु वरप्रदाम् ॥१३६९॥गजेन्द्रमोक्षणं देवं वराहस्य समीपगम् ।वराहं च नृसिंहं च बहुरुपं वरप्रदम् ॥१३७०॥सप्तर्षीणां तथैवार्चा सुमुखस्य समीपगा ।तुंगवासं च वरदं वरदं च स्वयंभुवम् ॥१३७१॥गुहावासं च योगीशं अनन्तं कपिलं मुनिम् ।अश्वशीर्ष तथा मत्स्यं हंसं कूर्म तथैव च ॥१३७२॥उत्तुंगस्वामिनं देवं बालखिल्यकृतं तथा ।गरुडं जलवासं च देवं भोगमयं तथा ॥१३७३॥दृष्टैकैकमथैतेभ्यो दशधेनुफलं लभेत् ।वैण्यन पृथुना पूर्व मगधेषु प्रतिष्ठितम् ॥१३७४॥दृष्टैवाप्रोति हि फलं पुण्डरीकस्य मानव: ।गृध्रकूटे तथैवार्चा तथा भृगुकृतां शुभम् ॥१३७५॥आश्चमस्वामिनाभ्रोक्तां पर्वतादवतारिताम् ।स्वदेशपार्श्वे रामेण भार्गवेण महात्मना ॥१३७६॥दृष्टैव सर्वपापेभ्यो मुच्यते नात्र संशय: ।गोनन्द उवाच ।गृध्रकूटाद्रिरिश्रेष्ठात् किमर्थ भृगुनिर्मिता ॥१३७७॥अर्चावतारिता ब्रह्मन् स्वाश्रमस्य समीपत: ।बृहदश्व उवाच ।पुरा पितृवधादर्चा राम: क्षित्रियमर्दन: ॥१३७८॥त्रिसप्तकृत्व: पृथिवीं कृत्वा नि:क्षत्रियां तथा ।एकविशे तथाघाते प्राप्ते केचिन्तु क्षित्रिया: ॥१३७९॥गिरिदुर्गमनुप्राप्ता: कश्मीरेषु नृपोत्तम ।रामोऽनुपदमागस्य तान् जघानातिरोषण: ॥१३८०॥तेभ्योऽपि क्षित्रिया: केचित् क्षतशेषा महीपते ।तद्भयेन गतास्त्यक्त्वा कश्मीरान् राजसत्तम ॥१३८१॥नदी मधुमती यत्र तथान्या नृपनिर्मला ।तत्रापि रामस्तान् गत्वा पातयामास रोषत: ॥१३८२॥नि:शेषान् क्षत्रियान् कृत्वा रुधिरक्रकरस्तथा ।प्रतिष्ठामकरोत् राजन् केशवस्य महात्मन: ॥१३८३॥राजवासमिति प्रोक्तं सर्वलोकेषु विश्रुतम् ।तद्दृष्टा शीघ्रमाप्रोति कार्यसिध्दिं नरोत्तम: ॥१३८४॥रौद्रभावेन राजेण यदाचार्चा विनिर्मिता ।रौद्रभावमथास्थाय तस्यां सन्निहितो हरि: ॥१३८५॥अर्चयन्ति च रौद्रेण तां च भावेन मानवा: ।रौद्रभावान्महीनाथ नित्यं पशुवधादिना ॥१३८६॥इति राम: स धर्मात्मा पूर्व क्षत्रियशोणितै: ।कृत्वा कुणडान् जगामाथ कुरुक्षेत्रं महामति: ॥१३८७॥पितृन् स तेष्वथाभ्यर्च्य मुदं लेभे वरारिहा ।तमूचु पितार: प्रीता: राम राम महाभुज ॥१३८८॥कर्मणोऽस्मान्निवतस्व तीर्थयात्रां तथा कुरु ।पलायमानान् भीतान् च हतवान सि पुत्रक ॥१३८९॥तेन पापेन ते पुत्र शरीरे कलुषं स्थितम् ।तस्माद्रूजस्व तीर्थानि पावनार्थमिहात्मन: ॥१३९०॥भविष्यसि यथावत्वं शुध्ददेहश्च पुत्रक ।न चापैति हि ते तावत् कराभ्यां रुधिरं दृढम् ॥१३९१॥यदा करौ विरुधिरौ तव पुत्र भाविष्यत: ।तदा त्वं निर्मली भूतस्तप: कुरु यथा सुखम् ॥१३९२॥एवमुक्तस्तदा राम: पितृभि: पूजित स्तत: ।चकार तीर्थयात्रां वै सर्वतीर्थेषु पार्थिव ॥१३९३॥कृत्वा जगाम कश्मीरान् तथैवासौ महीपति : ।आप्लुत्य तीर्थेषु तदा गृध्रकूटमुपागमत् ॥१३९४॥शुध्दा सरस्वती चैव संयोगं यत्र गच्छत: ।तत्र स्रातस्य रामस्य करौ शुध्दिमुपागतौ ॥१३९५॥तस्य तीर्थस्य रमोऽपि वरं प्रादान्महायश: ।अस्मिन्तीर्थे नर: स्रात्वा सर्व मुक्ष्यति किल्विषम् ॥१३९६॥शुध्ददेह स्तदा गन्ता भृगूणां समलोकताम् ।एवं स निर्मलीभूतो राम: परबलार्दन: ॥१३९७॥पथीश्वर मथासाद्य तपस्तेपे सुदारुणम् ।नदीं सम्प्राप्य पुणयोदां तदा ब्रह्मसरोद्भवाम् ॥१३९८॥यदा तस्यां तु रामेण तपस्तप्तं महात्मना ।तदा रामह्र्देत्येवं नदी सा भुवि विश्रुता ॥१३९९॥तत्र संवत्सरं कृत्वा रामोऽपि परमं तप: ।तपोऽर्थ गृध्रकूटस्य तदा मूलं जगाम स: ॥१४००॥यत्रास्य चागतौ शुध्दिं करौ पूर्व महीपते ।तस्माददूरे पुणयोदामनन्तस्य महात्मन: ॥१४०१॥भुवनं नागराजस्य तपस्तेपे स तत्र हि ।प्रतिष्ठानं तथा चक्रे देवदेवस्य शांर्गिण: ॥१४०२॥तत्रासता तदा तस्य रामस्याकिष्ठ कर्मण: ।आश्रमस्वामिनं द्रष्टुं प्रययौ ब्राह्मणॊत्तम: ॥१४०३॥दातुं गां तस्य देवस्य तत्रादृष्टा च तं मुनिम् ।जगाम तां मृगयितुं तामादायतु सत्वर : ॥ १४०४॥तत्रासावपथे प्राणान् तस्मिन् तत्याज पर्वते ।त्यक्त्वा गां च महीपाल ब्राह्मणोऽपि निवर्तित: ॥१४०५॥प्रायश्चित्तीयतां प्राप्य दुख:शोकसमन्वित: ।स रामाश्रममागत्य वासिष्ठो धर्मनिश्चल: ॥१४०६॥यथावृत्त मथाचख्यौ रामाय सुमहात्मने ।तमुवाच ततो राम: पश्यन् दिव्येन चक्षुपा ॥१४०७॥दिव्युत्पन्न व्दिजश्रेष्ठ दिव्यनारी मनोरमा ।देवर्षि वश्चयामास गोरुपेनाथ नारदम् ॥१४०८॥तेन विज्ञाय सा शप्त तव गोत्वमुपागता ।तेनैव तस्य शापान्त: कृतो ब्राह्मणसत्तम ॥१४०९॥गोस्वामिना नीयमाना गृध्रकूटे शिलोचये ।तनुं त्यक्रत्वा ततो भूयो भविष्यसि वराप्सरा ॥१४१०॥मोक्षिता सा त्वया शापात् न तेऽस्ति व्दिज पातकम् ।गोदानफलसंयुक्तो मत्प्रसादाद्भविष्यसि ॥१४११॥गच्छ पश्य स्वदेवेशं तथाश्रमनिवासिनम् ।त्वं दृष्टा सर्वपापेभ्यो विनिर्मुक्तो भविष्यसि ॥१४१२॥अह हि देवप्रवरमाराध्य मधुसूदनम् ।इहानयिष्ये तामर्चा लोकस्य हितकाम्यया ॥१४१३॥प्रायशो धेनुदानेन लोकोऽर्चयति तं हरिम् ।पर्वतारे हंण क्लेशो महान् विप्र गवां तथा ॥१४१४॥आनीतायामिहार्चायां व्दिजेन्द्र न भविष्यति ।तस्मिन्नेव तत: स्थाने तपस्तेपे स भार्गव: ॥१४१५॥तत: संवत्सरान्ते च ददर्श मधुसूदनम् ।दिव्येना चक्षुषा राजन् प्रसन्नं पुरत: स्थितम् ॥१४१६॥तुपारचयसंकाशं श्वेताम्बरविराजितम् ।चतुर्मुखं चतुर्बाहुं चतुर्विधाश्रयान्वितम् ॥१४१७॥मुकुटेनार्कवर्णन कुण्डलैश्च विभूषितम् ।शरीरधारिभिश्चास्त्रैरुदीरितजयस्वनम् ॥१४१८॥तं दृष्टा प्रणतो राजन् तुष्टाव मधुसुदनम् ।राम उवाच ।नमस्ते देवदेवेश प्रणतार्तिविनाशन ॥१४१९॥चतुर्मूर्ते महामूर्ते चतुर्वेद महाभुज ।गोविन्द पुणडरीकाक्ष वराहाय नमोस्तु ते ॥१४२०॥दंष्ट्राग्रोद्धृतभूभाग संचूर्णितशिलोचय ।त्वं सदैव वराहोऽसि येनेदं धार्यते जगत् ॥१४२१॥करजाग्रविनिर्भिन्नहिरणयकशिपुरसि ।नमस्तुभ्यं नृसिंहाय ज्वालामालाकुलात्मने ॥१४२२॥त्रिविक्रमाय देवाय नमस्ते विजिगीषव ।सोमभूषितवक्त्राय नमोऽश्वशिरसे विभो ॥१४२३॥त्वं देव: सर्वदेवानां दु:खितानां परा गति: ।इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि यानि च ॥१४२४॥मनोवुध्दिस्तथैवात्मा व्यक्र यत्पुरुषोद्भवम् ।सत्वं रजस्तमश्चैव ब्रह्मविष्णुमहेश्वरा: ॥१४२५॥त्वया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।त्वया विना न पश्यामि किश्चिदेव जगत्तये ॥१४२६॥त्वत्तेजसा यदा देव निहतो क्षत्रिया भुवि ।कोटिसंख्याश्च निहता सिंहिकेषा महाबला: ॥१४२७॥सूक्ष्मातिसूक्ष्मदेवेश महात्भ्योऽसि महत्तम: ।क्षीरोदकन्यादयित कामरुप नमोऽस्तुते ॥१४२८॥कामकामद कामारिपूजिताघविनाशन ।चतुर्भि: सततं वक्त्रै: पद्मजन्माभिसंस्तुत: ॥१४२९॥कां स्तुति ते करिष्यामि जगत्कारणकारण ।स्तुतस्तैलोकक्यनाथेश सर्वथैव नमोऽस्तुते ॥१४३०॥नम: पार्श्वेषु ते देव नमस्ते सर्वत: प्रभो ।पर्वतेषु समुद्रेषु लोकेषु गगेन तथा ॥१४३१॥नमस्तेऽस्तु नमस्तेऽस्तु सर्वत्रैव नमोऽस्तुते ।एवं स्तुत: स रामेण राममाह जनार्दन ॥१४३२॥राम राम महाबाहो वरं वरय सुव्रत ।वीर्येण तपसा देव स्तेत्रेणाऽतेन सुव्रत ॥१४३३॥परितुष्टोऽस्मि ते वत्स यथा नान्यस्य कस्यचित् ।श्रीराम उवाच ।भृगुणा निर्मिता मर्चा गृध्रकूटाग्रत: प्रभो ॥१४३४॥इहानयितुमिच्छामि तन्मेऽनुज्ञातुमर्हसि ।श्रीभगवान् उवाच ।एवं कुरु यथेष्टं ते जनो मुच्यते किल्विषात् ॥१४३५॥केशं विना भृगुश्रेष्ठ कृतस्तेऽनुग्रहो मया ।बृहदश्व उवाच ।एवमुक्त्वा ययौ विष्णुस्तदान्तर्धानमीश्वर: ॥१४३६॥रामोऽपि गृध्रकूटात्तां तदार्चामव वारयत् ।मध्ये चकार तां भक्त्या स्वार्चामनन्तकूटयो: ॥१४३७॥तां दृष्टा फलमाप्रोति पुण्डरीकस्य मानव : ।रामोऽपि तपसा दीप्तो वाजिमेधे महाक्रतौ ॥१४३८॥दत्वा महीं कश्यपाय महेन्द्रं गिरिमाययौ ।एवं रामेण धर्मज्ञ गृध्रकूटान्नगोत्तमात् ॥१४३९॥स्वाश्रमस्य समीपे तु सानीता प्रतिमाअ शुभा ।इति श्री नीलमते आश्रमस्वामिमाहात्म्यवर्णनम् ॥ N/A References : N/A Last Updated : January 09, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP