संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चतुर्थीत्रिनयम्

चतुर्थीत्रिनयम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


कन्यामध्यमनुप्राप्ते सहस्रकिरणे व्दिज ॥९३४॥
रात्र्यन्ते सोपवासेन पूज्योऽगस्त्यो मुनिर्भवेत्‍ ।
पूर्णकुम्भै; सकूष्माण्डै: (?यवैर्धान्यैर्घृतेन च ) ॥९३५॥
जातिपद्मांत्पलै: श्वभ्रैश्चन्दनेन सितेन च ।
धेन्वा वृषेण वस्त्रैश्च रत्नै: सागरसंभवै: ॥९३६॥
छत्रोपानत्सुदण्डैश्च पादुकाभिस्तथैव च ।
भूरिणा परमान्नेन फलैर्मूलै: सुशोभनै: ॥९३७॥
अन्नप्रकारैर्भक्ष्यैश्च बह्रिब्राह्मणपूजनै: ।
अगस्त्यपूजां कृत्वैव दैवज्ञं पूजयेत्तदा ॥९३८॥
तेन सन्दर्शितं पश्येत तदागस्त्यं महामुनिम्‍ ।
कामानभीष्टानाप्रोति दृष्टागस्त्यं मुनिं नर: ॥९३६॥
नील उवाच ।
अथाश्वयुकचतुर्थ्या तु देवपूजा विधीयते ।
नवम्युक्तांविधानेन सर्वोपकरणादिना ॥९४०॥
पूज्याश्च सुभगाम्तत्र याश्च नार्य: पतिव्रता: ।
यासां जीवन्ति नाथाश्च श्वस्रूप्रभृतयश्च यत्‍ ॥९४१॥
यथैवाश्वयुजे मासि तथा माघे च पूजयेत्‍ ।
यथा माघे तथा ज्येष्ठे चतुर्थीत्रितयं सदा ॥९४२॥
इति श्री नीलमते चतुर्थीत्रिनयम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP