संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| शक्रसंशयवर्णनम् नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् शक्रसंशयवर्णनम् नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत शक्रसंशयवर्णनम् Translation - भाषांतर बृहदश्व उवाच ।एवं महेश्वरेणोक्त: स्वान्तपूर्व वचस्तदा ॥१२१४॥गुणोत्तमो मनुष्यत्वं स्वीचक्रे भाविताशय: ।गोनन्द उवाच ।कथं जर्त: शिलादस्य नन्दी पुत्रत्वमागत: ॥१२१५॥अत्याश्चर्यमिदं नाम यदनेनैव वर्त्मना ॥१२१६॥गाणपत्यमवाप्तोऽसौ विस्तरेण वदस्व मे ।बृहदश्व उवाच ।अयोनिज: शिलादेन विप्रेण सुमहात्मना ॥१२१७॥यथाप्तोऽसौ गण: पुत्र: स्तन्मे निगदत: श्रृणु ।अयोनिज: शिलादेन शिलां चूर्णयता तदा ॥१२१८॥संप्राप्तस्तु शिलामध्यात्पुत्रो नन्दी शशिप्रभ: ।तं प्राप्य तनयं विप्र: शिलदे हर्षमागत: ॥१२१९॥ददौ दानं यथाशक्ति विप्रगाथकनर्तकान् ।संतर्पयामास तदा शरारिणे ममौ मुदा ॥१२२०॥संस्करांश्चापि निखिलाज् विदधेऽसौ यथाविधि ।आमन्त्र्य ब्राह्मणश्रेष्ठान् संमानितान् यथायथम् ॥१२२१॥क्रियमाणेषु पुत्रस्य संस्कारेषु तदा व्दिज:।अल्पायुषं स श्रुश्राव ब्राह्मणेभ्यस्तदा सुतम् ॥१२२२॥श्रुत्वाऽवोचत् स धमीत्मा शिलाद: पुत्रवत्सल : ।व्रत मे सदुपायं तं येनासौ जीवितो भवेत् ॥१२२३॥इति संप्रार्थिता: तेन ब्राह्मणास्तं पुरस्थितम् ।प्राज्जलिं प्रावदन् सर्वे श्रृणु वाक्यं तपोनिधे ॥१२२४॥सर्वस्य साधनै: सिध्दिर्मुनिभि: सर्वदर्शिभि: ।विनायुरिति संचित्य सुखी भव गतज्वर: ॥१२२५॥प्रारब्धं यादृशं यस्य सूचितं तस्य पूर्तये ।जीवनं जीवितं पूर्तौ तस्य किं नर्म साधनम् ॥१२२६॥न मन्त्रं नौषधं तध्दि लोकेऽस्मिन् किल दृश्यते ।श्रूयते वापि येनाऽस्य नष्टमायु: पुनर्भवेत् ॥१२२७॥इति विप्रमुखोद्रीतां निशम्य गिरमुध्दताम् ।शिलादोऽतीव खिन्नोऽसौ रुरोद मृशदु:खित: ॥१२२८॥तं रुदन्तं तदा नन्दी वारयामास धर्मवित् ।मामा रोदिहि ताताऽद्य तवाऽहं प्रियकाम्यया ॥१२२९॥अराध्य शंकरं देवं दीर्घमाप्त्यामि जीवितम् ।एवमुक्त्वा स पितरं प्राप्तानुरास्तत: स्वयम् ॥१२३०॥शुभं हिमवत: शृंगं हरमुकटमित्यध: ।यदस्ति लोके विख्यातं गंगाप्रभव मुत्तमम् ॥१२३१॥जगाम सहसा तत्र तपसि कृत निश्चय: ।यस्य श्रृगस्य पूर्वार्द्धे सरोऽस्ति विमलोदकम् ॥१२३२॥कालोदकमिति ख्यातं सर्वकिल्विषनाशनम् ।तस्मिन्नन्दी शिलां गुवीं गृहीत्वा मूर्ध्न्यतंद्रित: ॥१२३३॥आराधयामास हरं रुदजाप रतो जले ।तस्य वर्षशंत रुद्रं जपत: सलिले गतम् ॥१२३४॥ततो वर्षशते पूर्णे देवी देवमभाषत ।पुत्रोऽसौ भगवन् नन्दी कालोदे तप्यते तप: ।वरदानेन तं देवं योजयस्वाशु मा चिरम् ॥१२३५॥एव मुक्ता स्तदा देव्या वारणस्यां नराधिप ।देव्या सह ततो देवो मार्गेण क्षितिगामिना ॥१२३६॥आययौ वृषभारुढोऽलक्षितं परमादृत: ।स प्रयागमतिक्रम्य तथायोध्यां महापुरीम् ॥१२३७॥पुणयं च नैमिषारणयं गंगाव्दारमत: परम् ।स्थानेश्वरात्कुरुक्षेत्रं ततो विष्णुपदं शुभम् ॥१२३८॥शतद्रुं च विपाशां च पुण्यतोयामिरावतीम् ।देविका चन्द्रभागां च तथा विष्णुपदं सर: ॥१२३९॥विशोकां विजयेशं च वितस्तां सिन्धुसंगमम् ।एतान् सर्वानतिक्रम्य प्रययौ भरतं गिरिम् ॥१२४०॥तस्य मूल मथासाद्य दैव्यै वचनमब्रवीत् ।इहैव तिष्ठ तावत्त्वं महं यास्याम्यत: परम् ॥१२४१॥वृषेण सहिता: देवि पर्वतेऽस्मिन् हि य: पथा ।करोत्यारोहणं तस्य महत्पुणयफलं स्मृतम् ॥१२४२॥पथा त्वं न समर्थाऽसि सुकुमाराऽसि देवि यत् ॥१२४३॥आरोढुं तेन यास्येऽहमेक एवाद्य सत्वर: ।तस्माद्देशात्प्रत्तस्तु गन्तुं देववर: पथा ॥१२४४॥पथीश्वराख्यस्त्रत्रेष्टो देवस्यायतनोऽभवत् ।आरुरोह यदा शैलं पथा देवो महेश्वर: ॥१२४५॥तदा वृध्दिमगाच्छैलो महतीं भूरिदक्षिण: ।वर्धमानं तु तं ज्ञात्वा श्रान्त्वा क्रुध्दो महेश्वर: ॥१२४६॥रुपं कृत्वा महध्दोरं तदा मूर्धन्यताडयत् ।तदा प्रभृति शैलोऽसौ मुण्डपृष्ठ: प्रकीर्तित: ॥१२४७॥मुण्डपृष्ठं शरीरेण स्पृष्टा सर्वेण मानव: ।अशुभं कीर्तयित्वा च तस्मात्पापात्प्रमुच्यते ॥१२४८॥देवेन ताडित: शैलो रुपं मानुषमास्थित: ।प्राज्जलिर्देवदेवेशं उवाच विनयान्वित: ॥१२४९॥भगवन्नपराधं मे क्षमस्व वृषभध्वज ।महात्मानो न गृहन्ति प्रायश: कृपणान् जडान् ॥१२५०॥सोऽहं कृपणभूतोऽस्मि जडश्च सुतरां विभो ।अनुगृहीष्व मां देव प्रसीद करुणानिधे ॥१२५१॥इत्यार्तवचसा तेन देवदेव: प्रभाषित: ।प्रसन्नीभूय देवेश: शैलमाह कृपान्वित: ॥१२५२॥मम पादप्रहारेण निर्गतं यज्जलं तव ।कृपाणीतीर्थमित्येतद्भवि स्थास्यति पर्वत ॥१२५३॥मुणडापृष्ठं गिरि कृत्वा सौम्यं रुपमथास्थित: ।अप्सरोभिर्युतो यत्र तीर्थमप्सरसां हि तत् ॥१२५४॥ततो ब्रह्मसरो नाम दृष्टा तीर्थ मनोहरम् ।हंसरुपधर: शैलं पाटयामास सत्वर: ॥१२५५॥हंसरुपेण यच्छैले कृतं रन्ध्रं महात्मना ।हंसव्दार मिति प्रोक्तं सर्वकिल्विषनाशनम् ॥१२५६॥दृष्टा तीर्थौ महादेवस्तथा वाष्यिकपिणिडकौ ।कपिलां तीर्थमासाद्य स ददर्श पितामहम् ॥१२५७॥देवैर्वृतं महाभागं यजन्तं ऋषिभि: सदा ।हंसरुपधरं दृष्टा ब्रह्मा देवं महेश्वरम् ॥१२५८॥जानुभ्यां अवनिं गत्वा ववन्दे परमेश्वरं ।दृष्टा च प्रणतं देवं ब्रह्माणं जगत: पतिम् ॥१२५९॥प्रणम्य शक्रस्तुष्टाव यथा तच्छृणु भूपते ।शक्र उवाच ।नमस्ते देव्देवेश जगत्कारण कारण ॥१२६०॥त्रैकोक्यनाथ सर्वज्ञ सर्वेश्वर नमोस्तुते ।त्वत्तोऽन्यं पश्यामि जगतोऽस्याहि कारणम् ॥१२६१॥त्वया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।स्रष्टा त्वमस्य सर्वस्य संहर्ता पालकस्तथा ॥१२६२॥यदुन्मीलयसि नेत्रे त्रैलोक्यस्योद्भवस्तदा ।भवतीह जगन्नाथ यदा स्वपिसि वै तदा ॥१२६३॥तदेतदखिलं देव त्रैलोक्यं संप्रणश्यति ।भूमिर्धृता धारयते त्वयेदं स चराचरम् ॥१२६४॥शव्दयोनिस्तथाकांश जगध्दारयते प्रभो ।वीर्येण ते महाभाग त्वं च प्रोक्तस्तथाऽपर: ॥१२६५॥त्वं बुध्दिस्त्वं तथैवात्मा सर्वस्यास्य प्रकीर्तित: ।अव्यक्र: पुरुषश्चैव रज: सत्वं तमस्तथा ॥१३६६॥इन्द्रियाणीन्द्रियार्थाश्च भूततन्मात्र संगक: ।ज्ञाता ज्ञेयं तथा क्षेत्रं क्षेत्रज्ञ: परमेश्वर: ॥१२६७॥ध्याता ध्येयं तथा ध्यानं यज्ञाश्च विविधास्तथा ।सर्व मेतत्त्वमेवैकस्तत्व: किमपरं प्रमो ॥१२६८॥यन्नतोऽसि महाभाग तत्र मे संशयो महान् ।इति श्री नीलमते शक्रसंशयवर्णनम् ॥ N/A References : N/A Last Updated : January 09, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP