TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
जनमेजय वैशम्पायनसंवाद:

जनमेजय वैशम्पायनसंवाद:

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


जनमेजय वैशम्पायनसंवाद:
नीलमत पुराण
श्रीनिवासं हरिं देवं वरदं परमेश्वरम्‍ ।
त्र्यैलोक्यनाथं गोविन्दं प्रणम्याक्षरमव्ययम्‍ ॥१॥
परीक्षिव्दंशभृच्छीमान्‍ नृपतिर्जनमेजय: ।
पप्रच्छ शिष्यं व्यासस्य वैशम्पायममन्तिकात्‍ ॥२॥
जनमेजय उवाच ।
महाभारतसंग्रामे नानादेश्या नराधिपा: ।
महाशूरा: समायाता: पितृणां मे महात्मनाम्‍ ॥३॥
कथं काश्मीरिको राजा नायातस्तर कीर्तय ।
पाण्डवैर्धार्तराष्टैश्च न वृत: स कथं नृप: ॥४॥
कश्मीरमण्डलं चैव प्रधानं जगति स्थितम्‍ ।
कथं नासौ समाहतस्तत्र पाण्डकौरवै : ॥५॥
कीं नामाभूत स राजा च कश्मीराणां महाशय: ।
कथं वासौ निशम्यैतन्नायातश्चात्मना तदा ॥६॥
स्वर्गसोपानपंक्रिर्हि भव्यानां समभूदिदम्‍ ।
भारतं नाम युध्दं यज्जिगीषूणां महात्मनाम्‍ ॥७॥
अकारणमिदं नाम न भवेद्यदसौ तदा ।
नायातो भारतं युध्दं राजा काश्मीरिको महान्‍ ॥८॥
वैशम्पायन उवाच ।
सत्यमेतन्महाराज त्वया प्रोक्तं महीपते ।
यथा नासौ समायातस्तन्निशामय सुव्रत ॥९॥
कुरुपाण्डववेलायां भूमिर्भगवता स्वयम्‍ ।
पाविताभूद्दितिसुतानवतीर्णाज्जघान यत्‍ ॥१०॥
तस्मिन्‍ कालेऽत्र समभूत राजा विशदकीर्तिमान्‍ ।
कश्मीरान्‍ पालयन्‍ सौम्य गोनन्द इति संज्ञया ॥११॥
असौ प्रतापकलितो दिशं सौम्यां समाश्रित: ।
शुशुभे विक्रमोदग्रो मानी कलितसंस्थिति: ॥१२॥
अथोत्थिते किल महाविरोधे दैत्यबन्धुना ।
वृष्णीनां कृष्णमुख्यानां जरासंधेन भूभृता ॥१३॥
श्रनेन बन्धुना मानस्थानमेष महीपति: ।
काश्मीरिकोऽभ्यर्थनयाहूत: साहाय्यकाम्यया ॥१४॥
गत्वासौ बन्धुगृह्यत्वाज्जरासंधस्य भूपते: ।
चक्रे साहाय्यकं धीमान्‍ अरासन्धस्य भूपते: ॥१५॥
ररोधाथ च कंसारर्मथुरां मधुराकृति: ।
वलै: स्वैर्बलवान्‍ राजा त्रेस्तुस्त यत्र दानवा; ॥१६॥
भूरिशोऽथ बले भग्रे यादवानां बलोध्दत: ।
बलो बलेन रुरुधे महता तं जिगीषया ॥१७॥
अतीव तुमुले तस्मिन्‍ युध्दऽन्योन्यजिगीषया ।
काश्मीरिकोऽसौ क्रध्देज बलेन बलवान्‍ बलात्‍ ॥१८॥
रुध्दोऽभूत्पतितो भूमौ शस्त्रास्त्रत्ततविग्रह: ।
इत्यास्मिन्‍ वीरकलितां गतिमाप्ते महात्मनि ॥१९॥
दामोदराभिधस्तस्य सूनू राजाऽभवत्सुधी: ।
विभूतिकलितेनाऽथ समृध्देन महात्मना ॥२०॥
येन काश्मीरभू : राज्ञाऽन्विता सौम्या जहास ह ।
स राजबीजी सत्कीर्तिर्वीर्यशाली महाभुज:  ॥२१॥
अन्तश्चिन्तातुरो जातु न लेभे निर्वृतिं पराम्‍ ॥२२॥
श्रहो महात्मा राजा स कथं नाम हतो बलात्‍ ।
व्दीपान्तर्वासिना तातो बलेन बलवान्‍ मम ॥२३॥
अथोपसिन्धु गान्धारविषयेऽभुत्स्वयंवर: ।
यत्राहूँता: समाजग्मू राजानां वीर्यशालिन: ॥२४॥
तत्रागतं समाकर्ण्य वासुदेवं स्वयंवरे ।
जगाम माधवं योध्दुं चतुरडबलान्वित:  ॥२५॥
तत्र तस्याभवद्युध्दं वासुदेवेन धीमता ।
यादृशं वासुदेवस्य नरकेन सहाऽभवत्‍ ॥२६॥
तत: स वासुदेवेन युध्दे तस्मिन्निपातित: ।
अन्तर्वतीं तस्य पत्नीं वासुदेवोऽभ्यषेचयत्‍ ॥२७॥
भविष्यत्पुत्नराज्यार्थं तस्य देशस्य गौरवात्‍ ।
तत: सा सुषुवे पुत्रं बालगोनन्दसंज्ञितम्‍ ॥२८॥
बालभावात्‍ पाण्डुसुतैर्नानीत: कौरवैर्न वा ॥२९॥
जनमेजय उवाच ।
देशस्य गौरवं चक्रे किमर्थ व्दिजसत्तम ।
वासुदेवो महात्मा यदभ्यषिज्चत्स्वय स्त्रियम्‍ ॥३०॥
वैशम्पायन उवाच ।
यैषा देवी उमा सैव कश्मीरा नृपसत्तम ।
आसीत्‍ सर पूर्णजलं सुरम्यं सुमनोहरम्‍ ॥३१॥
कल्पारम्भप्रभृति यत्पुरा मन्वन्तराणि षट्‍ ।
अस्मिन्मन्वन्तरे जातं विषयं सुअनोहरम्‍ ॥३२॥
शालिमालाकुलं स्फीतं सत्फलाद्यै: समन्वितम्‍ ।
स्वाध्यायध्याननिरतैर्यज्ञशीलैर्जनैर्युतम्‍ ॥३३॥
तपस्विभिर्धर्मपरैर्वेदवेदाडंपारगै: ।
क्षत्रियै: सुमहाभागै: सर्वशस्त्रास्त्रपारगै: ॥३४॥
वैश्यैर्वृत्तिरतै: शूद्रैर्व्दिजातिपरिचारकै:  ।
देवतायतनोपेत सर्वतीर्थमयं शुभम्‍ ॥३५॥
पृथिव्यां यानि तीर्थानि तानि तत्र नराधिप ।
ॠष्याश्रमसुसंबाधं शीतातपशुभं सुखम‍ ॥३६॥
अधृष्यं पराराष्ट्राणां तद्भयाजामकोविदम्‍ ।
गोश्वनागादिबहुलं दुर्भिक्षातंकवर्जितम्‍ ॥३७॥
अदेवमातृकं पुण्यं रम्यं प्राणभूतां हितम्‍ ।
सर्धसस्यगणोपेतमनातडं बहुप्रजम्‍ ॥३८॥
स्त्रीमिश्च सुकुमाराभिर्देवालयसममाश्रयम्‍ ।
दुष्टैर्भुजंगशार्दूलमहिषर्क्षैर्विवर्जितम्‍ ॥३९॥
ब्रह्म घोषधनुर्घोषनित्योत्सव्समाकुलम्‍ ।
केलिप्रायजनाकीर्णं नित्यहृष्टबुधावृतम्‍ ॥४०॥
उद्यानारामसम्बाधं वीणापटहनादितम्‍ ।
नित्याशौण्डजनोपेतं सतां हृदयवल्लभम्‍ ॥४१॥
नानापुष्पफलोपेतं नानाद्रुमलतोज्ज्वलम्‍ ।
नानामृगगणाकींर्ण सिध्दचारणसेवितम्‍ ॥४२॥
कश्मीरमण्डलं पुण्य सर्व तीर्थमरिन्दम ।
तत्र नागा ह्र्दा: पुण्यास्तत्र पुण्या: शिलोपया: ॥४३॥
तत्र नद्यस्तथा पुण्या: पुण्यान्यपि सरांसि च ।
देवालया: सुपुण्याश्च तेषां चैव तथाश्रमा: ॥४४॥
तन्मध्येन च निर्याता सीमन्तमिव कुर्वती ।
वितस्ता परमा देवी साक्षाध्दिमनगोद्भवा ॥४५॥
जनमेजय उवाच ।
मन्वन्तरेषु सर्वेषु यदासीव्दिमलं सर: ।
कथं वैवस्वते जातं तन्मण्डलमिति प्रभो ॥४६॥
ब्रहि मे भगवन्‍ किज्चित्रास्ति तेऽविदितं खलु ।
प्रियशिष्योऽसि तस्यर्षेर्व्यासस्यामिततेजस: ॥४७॥
श्री वैशम्पायन उवाच ।
इममर्थ पुरा वर्त्स गोनन्दाख्यो नृपोत्तम: ।
तीर्थयात्राप्रसंगेन बृहदश्वमुपागतम्‍ ॥४८॥
पूजयित्वा स नृपति: पप्रच्छ मुनिसत्तमम्‍ ।
सुखासोनं समादाय पाद्यार्ध्यादि अनुक्रमात ॥४९॥
गोनन्द उवाच ।
मन्वान्तरेषु पूर्वेषु नासीदेतत्पुरं किल ।
कश्मीराख्यं बभूवास्मिन्कथं वैवस्वतेऽन्तरे ॥५०॥
इति नीलमते जनमेजय वैशम्पायनसंवाद: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-08T18:23:22.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

MĀYĀVASIṢṬHA(मायावसिष्ठ)

  • There was once a King called Mitrasaha among the Kings of the Solar dynasty who ruled Ayodhyā. One day while he was hunting he saw two demons roaming about as tigers and Mitrasaha killed one of them. The other demon waited for an opportunity to wreak vengeance and an opportunity presented itself. Mitrasaha was conducting an Aśvamedha yāga to which Vasiṣṭha was the chief priest. The demon went to the King as Vasiṣṭha and privately told him that he desired to eat meat and the King accordingly prepared meat which was greatly resented by the real Vasiṣṭha and the sage cursed Mitrasaha to become a demon. The false Vasiṣṭha who played the trick on the King is called Māyāvasiṣṭha. (See for details under Kalmāṣapāda). 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site