संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
महापद्मप्रबोधना

महापद्मप्रबोधना

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नागा भुजगशार्दूल सर्वेऽत्र विहितालया: ॥११२९॥
नास्ति स्थानं तु वससि यत्र नागेन्द्रसत्तम: ।
न तं देशं प्रपश्यामि सूक्ष्ममप्यमरप्रभ ॥११३०॥
नागेनाधिष्ठितं यत्त स्थानं स्यादिह मानद ।
पदे पदेऽधिष्ठितं यत्सर्वमेव भुजंगम ॥११३१॥
परिवारेण बहुना तथा त्वं पारवारित: ।
त्वंद्योग्यं नैव पश्यामि स्थानं किश्चित्कथंचन ॥११३२॥
किन्त्वस्ति साम्प्रतं शून्यं स्थानं शाडंगुलं शुभम्‍ ।
मयाभिवासितो नागस्तस्मा द्देशाच्छडंगुल: ॥११३३॥
मनुष्याणां सा दारान्‍ च हरत्यहरह: पुरा ।
इति निर्वास्य दत्तं च स्थानं तस्य ततो मया ॥११३४॥
उशीरके गिरिश्रेष्ठ दार्वेषु भुजगोत्तम ।
महाहिस्थानपालोऽसौ युक्त्या तत्र निवेशित: ॥११३५॥
गृहीतश्चानुरागेण जन: कश्मीरको मया ।
षडंगुलस्य नागेन्द्र सेम पथि निवेशित: ॥११३६॥
पूज्यमानो जनैस्तत्र सुखमास्ते षडंगुल: ।
मव्दाक्याचभयं दत्तं तत्रास्य हरिणा स्वयम्‍ ॥११३७॥
स्थाने षाडंगले रम्ये विषगश्वस्य भूपते ।
यदेतन्नगरं रम्यं नाभ्रा चन्द्रपुरं पुरम्‍ ॥११३८॥
अत्र ते दद्मि वसतिं कुरु तत्र जलाशयम्‍ ।
यावत्पुरपरीमाणं योजनायामविस्तरम्‍ ॥११३९॥
स्थाने षाडंगुले रम्ये दुर्वासा मुनिसत्तम: ।
उन्मत्तवेषप्रच्छन्नो नाप्तवान्‍ संप्रतिश्रयम्‍ ॥११४०॥
शप्तं तेन सरोषेण भवतीदं जलाशय: ।
नचापिविदितं नापि नाग मुनिवाक्यं तु कस्यचित्‍ ॥११४१॥
मयैव केवलं  ज्ञातं तस्यैवानुग्रहान्मुने: ।
तस्मात्त्वं वसतिं तत्र कुरु पन्नग मा चिरम्‍ ॥११४२॥
किन्तवभ्यर्थय भूपालं विष्वगश्वं  नराधिपम्‍ ।
छद्मना याचितं तस्य तथा कार्य महीपते: ॥११४३॥
स छद्मना याच्यमानो लोभाद्योन प्रदास्यति ।
अवश्यकरणीयेर्थे पार्थिव: स्याव्दिमानित: ॥११४४॥
इति श्री नीलमते महापद्मप्रबोधना ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP