संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम्

जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्च उवाच ।
कदाचित्सरसस्तस्य तीरेऽभ्योरुहलोचन:  ॥१११॥
शक्रश्चिक्रीडा सहित: पौलोभ्या पार्थिवोत्तम ।
क्रीडमानस्य शक्रस्य तं देशं कालचोदित: ॥११२॥
संग्रहो नाम दैत्येन्द्र: प्राप्त: परमदुर्जय: ।
तस्य दृष्टा शचीं रेत: प्रस्तुतं सलिलाशये ॥११३॥
पपात मग्रं तत्राभूदतीव विषमं परम्‍ ।
तत: कामबलोन्मत्त: शचीहरणलालस: ॥११४॥
चकार तुमुलं युध्दं दैत्यदानवहर्षदम्‍ ।
तत: शक्रण संग्रामे वृत्ते सवत्सरं गतम्‍ ॥११५॥
पूर्णमासीत्तयोर्हन्त शक्रसंग्रहयो: पुरा ।
वत्सरान्ते च तं हत्वा शक्रस्त्रिदशपूजित: ॥११६॥
जगाम त्रिदिवं देवै: पूज्यमानस्तदालयै : ।
तस्मिन्‍ सरसि यत्तस्य संग्रहस्य दुरात्मन: ॥११७॥
प्रस्कन्नं पाततं रेतस्तस्माज्जातो जले शिशु: ।
कृपया स: शिशुर्नागैर्जले तस्मिन्विवर्धित: ॥११८॥
यस्मादयं जले जातस्तस्मादेष जलोद्भव: ।
आराध्य तपसा लेभे वरं देवात्पितामहात्‍ ॥११९॥
जलेऽमरत्वमायाच विक्रमं चातुलं तथा ।
लब्धमायस्तु दैत्येन्द्रो भक्षयामास मानवान्‍ ॥१२०॥
समीपे सरसस्तस्य नानदेशेष्वावस्थितान्‍ ।
दार्वाबिसारगान्धारजुहुण्डुरशकान्‍  खसान्‍ ॥१२१॥
तड‍णान्‍’ माण्डवान्‍ मद्रान्नन्तर्गिरिबहिर्गिरीन्‍ ।
ते हन्यमाना: पापेन देशान्संप्राद्रवन्‍ भयात‍ ॥१२२॥
शून्येषु तेषु देशेषु विचचार स निर्भय: ।
इति नीलमते जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम्‍ ॥९॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP