संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च

दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्च उवाच ।
दिक्‍पालानथ ते वक्ष्ये कश्मीरेषु निबोध तान्‍ ॥१११६॥
पूर्वस्यां दिशि राजेन्द्र नागो बिन्दुसरो मत: ।
दक्षिणेन तथा नागो नाभ्रा श्रीमाडकस्तथा ॥१११७॥
उत्तरेण तथा राजन्‍ नाभ्रा चोत्तरमानस: ।
पश्चिमेन तु राजेन्द्र नाभ्रैलापत्र उच्यते: ॥१११८॥
एंव नागसहस्राणि प्रयुतान्यर्बुदानि च ।
नार्क्ष्यजं च भयं त्यक्त्वा वसन्तीह गतच्यथा: ॥१११९॥
ये च प्रोक्ता मया नागास्तेषां मध्याच्छ्रडंगुल: ।
एको विभासितो राज्ञा नीलेनामिततेजसा ॥११२०॥
स्थानं षडंगुलं राजन्‍ महापद्मस्य धीमत: ।
तृतीयस्य तु यद्दत्तं तत्र जातो जलाशय: ॥११२१॥
योजनायामविस्तार: समुद्र इव चापर: ।
छद्मनापदृतं यश्च महापद्मेन पार्थिव ॥११२२॥
नीलस्यानुमते पूर्व विष्वगश्चान्नराधिप ।(?)
इति श्री नीलमते दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP