संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
पौषकृष्णचतुर्दश्यां वारारात्रि:

पौषकृष्णचतुर्दश्यां वारारात्रि:

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


तस्यास्त्वनन्तरं ब्रह्मन्‍ या स्यात्‍ कृष्णचतुर्दशी ॥६०३॥
अनर्काभ्युदिते काले स्रातव्यं शीतले जले ।
वितस्तायां विशोकायां चन्द्रवत्यामथापि वा ॥६०४॥
तथा हर्षपथायां वा त्रिकोटयां वा व्दिजोत्तम ।
सिन्धुं प्राप्याथवा पुण्यां तथा कनकवाहिनीम्‍ ॥६०५॥
अन्यां वा सरितं पुण्यां ह्रदांश्चैव सरांसि च ।
यमस्य नामभिर्दद्यात्‍ सप्तसप्तजलांजलिम्‍ ॥६०६॥
एकैकन व्दिजश्रेष्ठ तानि नामानि मे शृणु ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥६०७॥
वेवस्वताय कालाय सर्वप्राणहराय च ।
स्रात्वा तु पूजा कर्तव्या धर्मराजस्य वै तदा ॥६०८॥
पुष्पै: धूपैस्तथा गंधै: कृशरेण च भूरिणा ।
घह्रिपूजा च कर्तव्या घृतयुक्तैस्तथा तिलै: ॥६०९॥
कृपरं भोजनीयाश्च ब्राह्मणेन्द्रा: सदक्षिणम्‍ ।
एवं कृत्वा नर: शुध्दो मुच्यते सर्वकिल्बिषै: ॥६१०॥
महापातकयुक्तश्चेन्न भवेच व्दिजोत्तम ।
महापातकिनां मोक्ष: प्रायश्चितैर्विना कुत: ॥६११॥
इति श्री नीलमते पौषकृष्णचतुर्दश्यां वारारात्रि: ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP