संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम्

हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
यस्मिन्प्रदेशे राजेन्द्र भवांस्तिष्ठसि सांप्रतम्‍ ॥२५१॥
स एष देशो यत्रेशैस्तौ प्रहासं प्रचक्रतु: ।
परिहासं तु कृत्वा तु तथा देववरो हरि: ॥२५२॥
हसन्मुखीं निधायात्र प्रतिमामात्मनस्तदा ।
शम्भोर्देव्याश्च राजेन्द्र प्रतिमे तादृशे शुभे ॥२५३॥
हसन्मुखे विधायाशु स्वस्थचितो बभूव ह ।
एतास्ता: प्रतिमा; राजन्‍ हसन्मुख्योत्र संस्थिता: ॥२५४॥
यासां दर्शनमात्रेण यान्ति पापानि संक्षयम्‍ ।
तादृशं संविधानं तु लीलारुपं जनार्दन: ॥२५५॥
विधाय शुशुभे तत्र महादेवेन संयुत: ।
जनार्दनकृतं दृष्टा संविधानं तथाविधम्‍ ॥२५६॥
जलोद्भवसरस्यस्मिन्कृतवानास्पदं हरि: [हर:] ।
इमौ मनुष्यशार्दूल यत्र सन्निहितावुभौ ॥२५७॥
केशवश्च शिवश्चैव सर्वकल्मषनाशनौ ।
कृतदेव प्रतिष्टानं देवदेवं जनार्दनम्‍ ॥२५८॥
ऋषयो देवता नागा गंधर्वाप्सरसां गणा: ।
द्रष्टुं सर्वे समाजग्मु: जलोद्भवसरस्यथ ॥२५९॥
इति नीलमते हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP