संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
विंशत्यधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - विंशत्यधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनातन उवाच॥
एकादश्यां तु दलयोर्निराहारः समाहितः॥
नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम् ॥१॥

स्रात्वा सम्यग्विधानेन सोपवासो जितेंद्रियः॥
संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः ॥२॥

उपचारैर्बहुविधैर्जपैर्होमैः प्रदक्षिणैः॥
स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः ॥३॥

दंडवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः॥
रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम् । १२०-४॥

चैत्रस्य शुक्लैकादश्यां सोपवासो नरोत्तमः॥
कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये ॥५॥

द्वादश्यामर्चयेद्भक्तया वासुदेवं सनातनम्॥
उपचारैः षोडशभिस्ततः संभोज्य बांधवान् ॥६॥

दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत च स्वयम्॥।
इयं तु कामदा नाम सर्वपातकनाशिनी ॥७॥

भुक्तिमुक्तिप्रदा विप्र भक्त्या सम्यगुपोषिता॥
वैशाखकृष्णैकादश्यां समुपोष्य विधानतः ॥८॥

वरूथिनीं परदिने पूजयेन्मृधुसूदनम्॥
स्वर्णान्नकन्याधेनूनां दानमत्र प्रशस्यते ॥९॥

वरूथिनीव्रतं कृत्वा नरो नियमतत्परः॥
सर्वपाप विनिर्मुक्तो वैष्णवं लभते पदम् ॥१०॥

वैशाखशुक्लैकादश्यां समुपोष्य च मोहिनीम्॥
स्नात्वा परेऽह्नि संपूज्य गंधाद्यैः पुरुषोत्तमम् ॥११॥

संभोज्य विप्रान्मुच्येत पातकेभ्यो न संशयः॥
ज्येष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप ॥१२॥

द्वादश्यां नैत्यिकं कृत्वा समभ्यर्च्य त्रिविक्रमम्॥
ततो द्विजाग्र्यान्संभोज्य दत्वा तेभ्यश्च दक्षिणाम् ॥१३॥

सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः॥
ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु ॥१४॥

उदयादुदयं यावद्भास्करस्य द्विजोत्तम॥
प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः ॥१५॥

ह्यषीकेशं समभ्यर्च्य विप्रान् संभोज्य भक्तितः॥
चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात् ॥१६॥

आषाढकृष्णैकादश्यां योगिनीं समुपोष्य वै॥
नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः ॥१७॥

ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम्॥
सर्वदानफलं प्राप्य मोदते विष्णुमन्दिरे ॥१८॥

आषाढशुक्लैकादश्यां यद्विधानं श्रृणुष्व तत्॥
उपोष्य तस्मिन् दिवसे विधिवन्मंडपे शुभे ॥१९॥

स्थापयेत्प्रतिमां विष्णोः शंखचक्रगदांबुजैः॥
लसच्चतुर्भुजामग्र्यां कांचनीं वाथ राजतीम् ॥२०॥

पीतांबरधरां शुभ्रे पर्य्यंके स्वास्तृते द्विज॥
ततः पंचामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च ॥२१॥

पौरुषेणैव सूक्तेन ह्युपचारान् प्रकल्पयेत्॥
नीराजनांतान्पाद्यादींस्ततः संप्रार्थयेद्धरिम् ॥२२॥

सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम् ॥२३॥

इति संप्रार्थ्य देवाग्रे चातुर्मास्यप्रचोदितान्॥
नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः ॥२४॥

ततः प्रभाते द्वादश्यां समर्चेच्छेषशायिनम्॥
उपचारैः षोडशभिस्ततः संभोज्य वाडवान् ॥२५॥

प्रतोष्य दक्षिणाभिश्च स्वयं भुञ्जीत वाग्यतः॥
ततः प्रभृति विप्रेंद्र गन्धाद्यैः प्रत्यहं यजेत् ॥२६॥

कृत्वैवं विधिना विप्र देवस्य शयनीव्रतम्॥
भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः ॥२७॥

श्रावणे कृष्णपक्षे तु एकादश्यां द्विजोत्तम॥
कामिकां समुपोष्यैव नियमेन नरोत्तम ॥२८॥

द्वादश्यां कृतनित्यस्तु श्रीधरं पूजयेद्धरिम्॥
उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान् ॥२९॥

दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत बांधवैः॥
एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम् ॥३०॥

स सर्वकामाँल्लब्ध्वेह याति विष्णोः परं पदम्॥
एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै ॥३१॥

द्वादश्यां नियतो भूत्वा पूजयेच्च जनार्दनम्॥
उपचारैः षोडशभिस्ततः संभोज्य वाडवान् ॥३२॥

दत्वा च दक्षिणां तेभ्यः पुत्रं प्राप्येह सद्गुणम्॥
याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः ॥३३॥

नभस्यकृष्णैकादश्यामजाख्यां समुपोष्य वै॥
अर्चेदुर्पेंद्रं द्वादश्यामुपचारैः पृथग्विधैः ॥३४॥

विप्रान्संभोज्य मिष्टान्नैर्विसृजेत्प्राप्तदक्षिणान्॥
एवं कृतव्रतो विप्रभक्त्याऽजायाः समाहितः ॥३५॥

भुक्त्वेह भोगानखिलान्यात्यंते वैष्णवं क्षयम्॥
नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै ॥३६॥

कृत्वा नित्यार्चनं तत्र कटिदानमथाचरेत्॥
पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम ॥३७॥

समुत्सवविधानेन नीत्वा तां सलिलाशये॥
कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः ॥३८॥

आनीय मण्डपे तस्मिन् वामपार्श्वेन शाययेत्॥
ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम् ॥३९॥

संभोज्य वाडवान्दत्वा दक्षिणां च विसर्जयेत्॥
एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम् ॥४०॥

भुक्तिं प्राप्येह मुक्तिं तु लभतेंऽते प्रपंचतः॥
इषस्य कृष्णैका दश्यामिंदिरां समुपोष्य वै ॥४१॥

शालग्रामशिलाग्रे तु मध्याह्ने श्राद्धमाचरेत्॥
विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने ॥४२॥

पद्मनाभं समभ्यर्च्य भूदेवान्भोजयेत्सुधीः॥
विसृज्य दक्षिणां दत्वा ताँस्ततोऽश्नीत च स्वयम् ॥४३॥

एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान्॥
पितॄणां कोटिमुद्धृत्य यात्यंते वैष्णवं गृहम् ॥४४॥

एकादश्यामिषे शुक्ले विप्र पाशांकुशाह्वयाम्॥
उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत् ॥४५॥

ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम्॥
भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः ॥४६॥

एवं यः कुरुते भक्त्या नरः पाशांकुशाव्रतम्॥
स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम् ॥४७॥

कार्तिके कृष्णपक्षे तु एकादश्यां द्विजोत्तम॥
रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत् ॥४८॥

केशवं केशिहंतारं देवदेवं सनातनम्॥
भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान् ॥४९॥

एवं कृतव्रतो विप्र भोगान्भुक्त्वेह वांछितान्॥
व्योमयानेन सांनिध्यं लभते च रमापतेः ॥५०॥

ऊर्जस्य शुक्लैकादश्यां समुपोष्य प्रबोधिनीम्॥
केशवं बोधयेद्रात्रौ सुप्तं गीतादिमंगलैः ॥५१॥

ऋग्यजुःसाममंत्रैश्च वाद्यैर्नानाविधैरपि॥
द्राक्षेक्षुदाडिमैश्चान्यै रंभाश्रृंगाटकादिभिः ॥५२॥

समर्पणैस्ततो रात्र्यां व्यतीतायां परेऽहनि॥
स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत् ॥५३॥

उपचारैः षोडशभिः पौरुषेणापि सूक्ततः॥
संभोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान् ॥५४॥

ततस्तां प्रतिमां हैमीं सधेनुं गुरवेऽर्पयेत्॥
एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः ॥५५॥

स भुक्त्वेह वरान्भोगान्वैष्णवं लभते पदम्॥
मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै ॥५६॥

द्वादश्यां कृष्णमभ्यर्चेद्गंधाद्यैरुपचारकैः॥
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ॥५७॥

विसृज्य पश्चाद्भुंजीत स्वयमिष्टैः समाहितः॥
एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत् ॥५८॥

स विमानं समारुह्य यात्यंते वैष्णवं पदम्॥
मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै ॥५९॥

द्वादश्यां प्रातरभ्यर्च्य ह्यनंतं विश्वरूपकम्॥
सर्वैरेवोपचारैस्तु विप्रान्संभोजयेद्द्विजः ॥६०॥

विसृज्य दक्षिणां दत्वा स्वयं भुंजीत बांधवैः॥
एवं कृत्वा व्रतं विप्र भुक्त्वा भोगानिहेप्सितान् ॥६१॥

दश पूर्वान्दश परान्समुद्धृत्य व्रजेद्धरिम्॥
पौपस्य कृष्णैकादश्यां सफलां समुपोष्य वै॥
द्वादश्यामच्युतं प्रार्च्य सर्वैरेवोपचारकैः ॥६२॥

संभोज्य विप्रान्मधुरैर्विसृजेल्लब्धदक्षिणान्॥
एवं कृत्वा व्रतं विप्र सफलाया विधानतः ॥६३॥

भुक्त्वेह भोगानखिलान्यात्यंते वैष्णवं पदम्॥
पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै ॥६४॥

द्वादश्यां चक्रिणं प्रार्येदर्घाद्यैरुपचारकैः॥
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यस्तु दक्षिणाम् ॥६५॥

विसृज्य स्वयमश्नीयाच्छेषान्नं स्वेष्टबांधवैः॥
एवं कृतव्रतो विप्र भुक्वा भोगानिहेप्सितान् ॥६६॥

विमानवरमारुह्य यात्यंते हरिमंदिरम्॥
माघम्य कृष्णैकादश्यां षट्तिलां समुपोष्य वै ॥६७॥

स्नात्वा दत्वा तर्पयित्वा हुत्वा भुक्त्वा समर्च्य च॥
तिलैरेव द्विजश्रेष्ठ द्वादश्यां प्रातरेव हि ॥६८॥

वैकुंठं सम्यगभ्यर्व्य सर्वैरेवोपचारकैः॥
द्विजान्संभोज्य विसृजेद्दत्वा तेभ्यश्च दक्षिणाम् ॥६९॥

एवं कृत्वा व्रतं विप्र विधिना सुसमाहितः॥
भुक्त्वेह वांछितान्भोगानंते विष्णुपदं लभेत् ॥७०॥

माघस्य शुक्लैकादश्यां समुपोष्य जयाह्वयाम्॥
प्रातर्हरि दिनेऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज ॥७१॥

भोजयित्वा दक्षिणां च दत्वा विप्रान्विसृज्य च॥
स्वयं भुंजीत तच्छेषं प्रयतो निजबांधवैः ॥७२॥

य एवं कुरुते विप्र व्रतं केशवतोषणम्॥
स भुक्त्वेह वरान्भोगानंते विष्णोः पदं व्रजेत् ॥७३॥

तपस्यकृष्णैकादश्यां विजयां समुपोष्य वै॥
द्वादश्यां प्रातरभ्यर्च्य योगीशं गंधपूर्वकैः ॥७४॥

ततः संभोज्य भूदेवान्दक्षिणाभिः प्रतोष्य तान्॥
विसृज्य बांधवैः सार्द्धं स्वयमश्नीत वाग्यतः ॥७५॥

एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान्॥
देहांते वैष्णवं लोकं याति देवैः सुसत्कृतः ॥७६॥

फाल्गुनस्य सिते पक्षे एकादश्यां द्विजोत्तम॥
उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत् ॥७७॥

पुंडरीकाक्षमखिलैरुपचारैस्ततो द्विजान्॥
भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम् ॥७८॥

एवं कृत्वा विधानेनामलक्यां पूजनादिकम्॥
सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम् ॥७९॥

चैत्रस्य कृष्णैकादशीं पापमोचनिकां द्विज॥
उपाष्य द्वादश्यांप्रातर्गोविंदं पूजयेत्तथा ॥८०॥

उपचारैः षोडशभिर्द्विजान्संभोज्य दक्षिणाम्॥
दत्वा तेभ्यो विसृज्याथ स्वयं भुंजीत बान्धवैः ॥८१॥

एव यः कुरुते विप्र पापमोचनिकाव्रताम्॥
स याति वैष्णवं लोकं विमानेन तु भास्वता ॥८२॥

इत्थं कृष्णो तथा शुक्ले व्रतं चैकादशीभवम्॥
मोक्षदं कीर्तितं विप्र नास्त्यस्मिन्संशयः क्वचित् ॥८३॥

यतस्त्रिदिनसंसाध्यं कीर्तिनं पापनाशनम्॥
सर्वव्रतोत्तमं विप्र ततो ज्ञेयं महाफलम् ॥८४॥

त्यजेच्चत्वारि भुक्तानि नारदै तद्दिनत्रये॥
आद्यंतयोरेकमेकं मध्यमे द्वयमेव हि ॥८५॥

अथ ते नियमान्वच्मि व्रते ह्यस्मिन्दिनत्रये॥
कांस्यं मांसं मसूरान्नं चणकान्कोद्रवांस्तथा ॥८६॥

शाकं मधु परान्नं च पुनर्भोजनमैथुने॥
दशम्यां दश वस्तूनि वर्जयेद्वैष्णवः सदा ॥८७॥

द्यूतक्रीडां च निद्रां च तांबूलं दंतधावनम्॥
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥८८॥

कोपं ह्यनृतवाक्यं च एकादश्यां विवर्ज्जयेत्॥
कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम् ॥८९॥

व्यायामं च प्रवासं च पुनर्भोजनमैथुने॥
अस्पृश्यस्पर्शमाशूरे द्वादश्यां द्वादश त्यजेत् ॥९०॥

एवं नियमकृद्विप्र उपवासं समाचरेत्॥
शक्तोऽशक्तुस्तु मतिमानेकभुक्तं न नक्तकम् ॥९१॥

अयाचितं वापि चरेन्न त्यजेद्व्रतमीदृशम् ॥९२॥

इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्तितैकादशीव्रतकथनं नाम विंशत्यधिकशततमोऽध्यायः ॥१२०॥

N/A

References : N/A
Last Updated : May 08, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP