TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चदशोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चदशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


पञ्चदशोऽध्यायः

धर्मराज उवाच ॥

पाप भेदान्प्रवक्ष्यामि यथा स्थूलाश्च यातनाः॥ श़ृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः ॥१॥

पापिनो ये दुरात्मानो नरकाग्निषु सन्ततम् ॥ पच्यन्ते येषु तान्वक्ष्ये भयंकरफलप्रदान् ॥२॥

तपनोवालुकाकुम्भौमहारौखरौखौ ॥ कुम्भीपाको निरुच्छ्वासःकालसूत्रःप्रमर्दनः॥३॥

असिपत्रवनं घोरं लालाभक्षो हिमोत्कटः॥ मूषावस्था वसाकूपस्तथा वैतरणी नदी ॥४॥

भक्ष्यन्ते मूत्रपानं च पुरीषह्नद एव च ॥ तप्तशूलं तप्तशिला शाल्मलीद्रुम एव च ॥५॥

तथा शोणितकूपश्च घोरः शोणितभोजनः ॥ स्वमांसभोजनं चैव वह्निज्वालानिवेशनम् ॥६॥

शिलावृष्टिः शस्त्रवृष्टिर्वह्निवृष्टिस्त थैव च ॥ क्षारोदकं चोष्णतोयं तप्तायःपिण्डभक्षणम् ॥७॥

अथ शिरःशोषणं च मरुत्प्रपतनं तथा ॥ तथा पाषाणवर्षं च कुमिभोजनमेव च ॥८॥

क्षारो दपानं भ्रमणं तथा क्रचदारणम् ॥ पुरीषलेपनं चैव पुरीषस्य च भोजनम् ॥९॥

रेतःपानं महाघोरं सर्वसन्धिषु दाहनम् ॥ धूमपानं पाशबन्धं नाना शूलानुलेपनम् ॥१०॥

अङ्गारशयनं चैव तथा मुसलमर्द्दनम् ॥ बहूनि काष्ठयन्त्राणि कषणं छेदनं तथा ॥११॥

पतनोत्पतनं चैव गदादण्डादिपीडनम् ॥ गजदन्तप्रहरणं नानासर्पेश्च दंशनम् ॥१२॥

शीताम्बुसेचनं चैव नासायां च मुखे तथा ॥ घोरक्षाराम्बुपानं च तथा लावणभक्षणम् ॥१३॥

स्नायुच्छेदं स्नायु बन्धमस्थिच्छेदं तथैव च ॥ क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम् ॥१४॥

पित्तपानं महाघोरं तथैवः श्लेष्मभोजनम् ॥ वृक्षाग्रात्पातनं चैव जलान्तर्मज्जनं तथा ॥१५॥

पाषाणधारणं चैव शयनं कण्टकोपरि ॥ पिपीलिकादंशनं च वृश्चिकैश्चापि पीडनम् ॥१६॥

व्याघ्रपीडा शिवापीडा तथा महिषपीडनम् ॥ कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम् ॥१७॥

बहुशश्चार्धशयनं महातिक्तनिषेवणम् ॥ अत्युष्णतैलपानं च महाकटुनिषेवणम् ॥१८॥

कषायोदकपानं च तप्तपाषाणतक्षणम् ॥ अत्युष्णशीतस्नानं च तथा दशनशीर्णनम् ॥१९॥

तप्तायःशयनं चैव ह्ययोभारस्य बन्धनम् ॥ एवमाद्या महाभाग यातनाः कोटिकोटिशः ॥२०॥

अपि वर्षसहस्रेण नाहं निगदितुं क्षमः ॥ एतेषु यस्य यत्प्राप्तं पापिनः क्षितिरक्षक ॥२१॥

तत्सर्वं संप्रवक्ष्यामि तन्मे निगदतः श़ृणु ॥ ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ॥२२॥

महापातकिनस्त्वेते तत्संसर्गी च पञ्चमः ॥ पंक्तिभेदी वृथापाकी नित्यं ब्राह्मणदूषकः ॥२३॥

आदेशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः ॥ ब्राह्मणं यः समाहूय दास्यामीति धनादिकम् ॥

पश्चान्ना स्तीति यो ब्रूयात्तमाहुर्बह्मघातिनम् ॥२४॥

स्त्रानार्थं पूजनार्थं वा गच्छतो ब्राह्मणस्य यः ॥ समायात्यंतरायत्वं तमाहुर्बुह्यघातिनम ॥२५॥

स्नाथार्थ पूजनार्थं वा गच्छतो ब्राह्मणस्य यः ॥ असत्यनिरतश्चैव ब्रह्महा परि पूकीर्तितः ॥२६॥

अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः ॥ अन्योद्वेगरतश्चैव अन्येषां दोषसूचकः ॥२७॥

दम्भाचाररतश्चैव ब्रह्महेत्यभिधीयते ॥ नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः ॥२८॥

अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः ॥ ब्रह्महत्यासम पापमेव बहुविधं नृप ॥२९॥

सुरापानसमं पापं प्रवक्ष्यामि समासतः ॥ गणान्नभोजनं चैव गणिकानां निषेवणम् ॥३०॥

पतितान्नादनं चैव सुरा पानसमं स्मृतम् ॥ उपासनापरित्यागो देवलानां च भोजनम् ॥३१॥

सुरापयोषित्संयोगः सुरापानसमः स्मृतः ॥ यः शूद्रेण समाहूतो भोजनं कुरुते द्विजः ॥३२॥

सुरापी स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥ यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करोति चः ॥३३॥

सुरापान समं पापं लभते स नराधमः ॥ एवं बहुविधं पापं सुरापानसमं स्मृतम् ॥३४॥

हेमस्तेयसमं पापं प्रवक्ष्यामि निशामय ॥ कन्दमूलफलानां च कस्तूरी पटवाससाम् ॥३५॥

सदा स्तेयं च रत्नानां स्वर्णस्तेयसमं स्मृतम् ॥ ताम्रायस्रपुकांस्यानामाज्यस्य मधुनस्तथा ॥३६॥

स्तेयं सुगन्धद्रव्याणां स्वर्ण स्तेयसमं स्मृतम् ॥ क्रमुकस्यापिहरणमम्भसां चन्दनस्य च ॥३७॥

पर्णरसापहरणं स्वर्णस्तेयसमं स्मृतम् ॥ पितृयज्ञपरित्यागो धर्मकार्यविलोपनम् ॥३८॥

यतीनां निन्दनं चैव स्वर्णस्तेयसमं स्मृतम् ॥ भक्ष्याणां चापहरणं धान्यानां हरणं तथा ॥३९॥

रुद्राक्षहरणं चैव स्वर्णस्तेयसमं स्मृतम् ॥ भगिनीगमनं चैव पुत्रस्त्रीगमनं तथा ॥४०॥

रजस्वलादिगमनं गुरुतल्पसमं स्मृतम् ॥ हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम् ॥४१॥

परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् ॥ भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम् ॥४२॥

विश्वस्तागमनं चैव गुरुतल्पसमं स्मृतम् ॥ अकाले कर्मकरणं पुत्रीगमन मेव च ॥४३॥

धर्मलोपः शास्त्रनिन्दा गुरुतल्पसमं स्मृतम् ॥ इत्येवमादयो राजन्महापातकसंज्ञिताः ॥४४॥

एतेष्वेकतमेनापि सङ्गकृत्तत्समो भवेत् ॥यथाकथंचित्पापानामेतेषां परमर्षिभिः ॥४५॥

शान्तैस्तु निष्कृतिर्दृष्टा प्रायश्चितादिकल्पनैः ॥ प्रायश्चितविहीनानि पापानि श़ृणु भूपते ॥४६॥

समस्तपापतुल्यानि महानरकादानि च ॥ ब्रह्महत्यादिपापानां कथंचिन्निष्कृतिभवेत् ॥४७॥

ब्राह्मणं द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् ॥ विश्वस्तघातिनं चैव कृतघ्नानां नरेश्वर ॥४८॥

शूद्रस्त्रीसङ्गिनां चैव निष्कृतिर्नास्ति कुत्रचित् ॥ शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम् ॥४९॥

सत्कथानिन्दकानांच नेहामुत्रचनिष्कृतिः ॥५०॥

बौद्धवलयं विरोद्यस्तु महापद्यपि वैद्विजः । नतस्यनिष्कृतिर्दृष्टाप्रायश्चित्तशतैरपि ॥५१॥

बौद्धाः पाषंण्डिनः प्रोक्ता यता वदावनिन्दकाः ॥ तस्मांद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ॥५२॥

ज्ञानतोऽज्ञानतो वापि द्विजो बौद्धालयं विशत् ॥ ज्ञात्वा चेन्निष्कृतिनास्ति शास्त्राणामिति निश्चयः ॥५३॥

एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ॥ प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ॥५४॥

पापानि तेषां नरकान्गदतो मे निशामय ॥५५॥

महापातकिनस्तेषु प्रत्येकं युगवासिनः ॥ तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ॥५६॥

ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ॥ आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ॥५७॥

ततः सहस्रजन्मानि मृगाद्याः पशवो नृप ॥ शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ॥५८॥

ततस्तु सप्तजन्मानि चण्डालाः पापकारिणः ॥ ततः षोडश जन्मानि शूद्राद्या हीनजातयः ॥५९॥

ततस्तु जन्मद्वितये दरिद्रा व्याधिपीडिताः ॥ प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ॥६०॥

असूयाविष्टमनसो रौखे नरके स्मृतम् ॥ तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजस्मसु ॥६१॥

मा ददस्वेति यो ब्रूयाद्रवाग्निब्राह्मणेषु च ॥ शुनां योनिशतं गत्वा चाण्डालेषूपजायते ॥६२॥

ततो विष्ठाकृमिश्चैव ततो व्याघ्रस्त्रिजन्मसु ॥ तदंते नरकं याति युगानामेकविंशतिम् ॥६३॥

परनिन्दापरा ये च ये च निष्ठुरभाषिणः ॥ दानानां विघ्नकर्त्तारस्तेषां पापफलं श़ृणु ॥६४॥

मुशलोलू खलाभ्यां तु चूर्ण्यन्ते तस्करा भृशम् ॥ तदन्ते तप्तपाषाणग्रहणं वत्सरत्रयम् ॥६५॥

ततश्च कालसूत्रेण भिद्यन्ते सप्त वत्सरान् ॥ शोचन्तः स्वानि कर्माणि परद्रव्यापहारकाः ॥६६॥

कर्मणा तत्र पच्यन्ते नरकाग्निषु सन्ततम् ॥६७॥

परस्वसूचकानां च नरकं श़ृणु दारुणम् ॥ यावद्युगसहस्त्रं तु तप्तायः पिण्डभक्षणम् ॥६८॥

सपीड्य़ते च रसना संदंशैर्भृशदारुणैः ॥ निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते ॥६९॥

परस्त्रीलोलुपानां च नरकं कथयामि ते ॥ तप्तताम्रस्त्रियस्तेन सुरूपाभरणैर्युताः ॥७०॥

यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु ॥ विद्रवन्तं भयेनासां गृह्णन्ति प्रसभं च तम् ॥७१॥

कथ यन्तश्व तत्कर्म नयन्ते नरकान्क्रमात् ‍ ॥ अन्यं भजन्ते पतिं त्यक्त्वा च याः स्त्रियः ॥७२॥

तप्तायःपुरुषास्तास्तु तप्तायःशयने बलाते ‍ ॥ पातयित्वा रमन्ते च बहुकालं बलान्वुताः ॥७३॥

ततस्तैर्योषितो मुक्ता हुनसमोज्जवलम् ॥ आयःस्तम्भं समाश्र्लिष्य तिष्ठन्त्यब्दसहस्रकम् ॥७४॥

ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् ॥ तदन्ते नरकान् सर्वान् भुञ्जतेऽब्दशतं शतम् ॥७५॥

यो हन्ति ब्राह्मणं गां च क्षत्रियं च नृपोत्तमम् ॥ सचापि यातनाः सर्वा भुक्ते कल्पेषु पञ्चसु ॥७६॥

यः श्रृणोति महन्निन्दां सादरं तत्फलं श्रृणु ॥ तेषां कर्णेषु दाप्यन्ते तप्तायःकीलसंचयाः॥७७॥

ततश्व तेषु छ्द्रेषु तैलमत्युष्णमुल्बणम् ‍ ॥ पूर्यते च ततश्वपिं कुम्भीपाकं प्रपद्यते ॥७८॥

नास्तिकानां प्रवक्ष्यामि विमुखानां हरे हरौ ॥ अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते ॥७९॥

ततश्च कल्पपर्यन्तं रौखे तप्तसैकते ॥ भज्यंते पापकर्माणोऽन्येष्वप्येवं नराधिप ॥८०॥

ब्राह्मणान्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः ॥ तप्तसूचीसहस्त्रेण चक्षुस्तेषां प्रसूर्यते ॥८१॥

ततः क्षाराम्बुधाराभिः सेच्यन्ते नृपसत्तम ॥ ततश्च क्रकचैर्घोरैर्भिद्यन्ते पापकर्म्भणः ॥८२॥

विश्वासघातिनां चैव मर्यादाभेदिनां तथा ॥ परान्नलोलुपानां च नरकं श़ृणु दारुणम् ॥८३॥

स्वमांसभोजिनो नित्यं भक्षमाणाः श्वभिस्तु ते ॥ नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः ॥८४॥

प्रतिग्रहरता ये च ये वै नक्षत्रपाठकाः ॥ ये च देवलकान्नानां भोजिनस्ता ञ्श़ृणुष्व मे ॥८५॥

राजन्नाकल्पपर्यन्तं यातनास्वासु दुःखिताः ॥ पच्यन्ते सततं पापविष्टा भोगरताः सदा ॥८६॥

ततस्तैलेन पूर्यन्ते कालसूत्रप्रपीडिताः॥ ततः क्षारोदकस्नानं मूत्रविष्ठानिषेवणम् ॥८७॥

तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः॥ अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम् ॥८८॥

त्यक्तपञ्चमहायज्ञा लालाभक्षं व्रजन्ति हि ॥ उपासनापरित्यागी रौखं नरकं व्रजेत् ॥८९॥

विप्रग्रामकरादानं कुर्वतां श़ृणु भूपते ॥ यातनास्वासु पच्यन्ते वावदाचन्द्रतारकम् ॥९०॥

ग्रामेषु भूपालवरो यः कुर्यादधिकं करम् ॥ सहस्रकुलो भुङ्क्तेनरकं कल्पपञ्चसु ॥९१॥

विप्रग्रामकरादाने योऽनुमन्ता तु पापकृत् ॥ स एव कृतवान् राजन्ब्रह्महत्यासहस्रकम् ॥९२॥

कालसूत्रे महाघोरे स वसेद्विचतुर्युगम् ॥ अयोनौ च वियोनौ च पशुयोनौ च यो नरः ॥९३॥

त्यजेद्रेतो महापापी स रेतोभोजनं लभेत् ॥ वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसप्तकम् ॥९४॥

रेतोभोजी भवेन्मर्त्यः सर्वलोकेषु निन्दितः॥ उपवासदिने राजन्दन्तधावनकृन्नरः ॥९५॥

स घोरं नरकं याति व्याघ्रपक्षं चतुर्युगम् ॥ यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः ॥९६॥

तत्संगकृतमोघः स्यात्तावुभावतिपापिनौ ॥ कल्पकोटिसहस्रेषु प्राप्नुतो नरकान्क्रमात् ॥९७॥

देवद्रव्यापहर्त्तारो गुरुद्रव्यापहारकाः ॥ ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप ॥९८॥

अनाथघनहर्त्तारो ह्यनाथं ये द्विषन्ति च ॥ कल्पकोटिसहस्राणि नरके ते वसन्ति च ॥९९॥

स्त्रीशूद्राणां समीपे तु ये वेदाध्ययनेरताः ॥ तेषां पापफलं श्रृणुष्व सुसमाहितः ॥१००॥

अधःशीर्षोर्ध्वपादाश्च कीलिताः स्तम्भकद्वये ॥ धूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम् ॥१॥

जले देवालये वापि यस्त्यजद्देहजं मलम् ॥ भू्रणहत्यासमं पापं संप्राप्नोत्यतिदारुणम् ॥२॥

दन्तास्थिकेशनखरान्ते त्यज्यन्त्यमरालये ॥ जले वा भुक्तशेषं च तेषां पापफलं श़ृणु ॥३॥

प्रासप्रोता हलैर्भिन्ना आ र्तरावविराविणः ॥ अत्युष्णतैलपाकेऽतितप्यन्ते भृशदारुणे ॥४॥

कुर्वान्ति दुःखसंतप्तास्तोऽन्येषु व्रजन्ति च ॥ ब्रह्म संहरते यस्तु गन्धकाष्ठं तथैव च ॥५॥

स याति नरकं घोरं यावदाचन्द्रतारकम् ॥ ब्रह्मस्वहरणं राजन्निहामुत्र च दुःखदम् ॥६॥

इहसंपद्विनाशायपरत्र नरकाय च ॥ कूटसाक्ष्यंवदेद्यस्तु तस्य पापफलं श़ृणु ॥७॥

स याति यातनाः सर्वायावदिन्द्राश्चतुर्दश ॥ इहपुत्राश्च पौत्राश्च विनश्यन्ति परत्र च ॥८॥

रौखं नरकं भुङ्क्ते ततोऽन्यानपि च क्रमात् ॥ ये चातिकामिनो मर्त्या ये च मिथ्याप्रवादिनः ॥९॥

तेषां मुखे जलौकास्तु पूर्य्यन्ते पन्नगोपमाः॥ एवं पष्टिसहस्राब्दे ततः क्षाराम्बुसेचनम् ॥१०॥

ये वृथामांसनिरतास्ते यान्ति क्षारकर्दमम् ॥ ततो गजैर्निपात्यन्ते मरुत्प्रपतनं यथा ॥११॥

तदन्ते भवमासाद्य हीनाङ्गाः प्रभवन्तिच ॥ यस्त्वृतौ नाभिगच्छेत स्वस्त्रियं मनुजेश्वर ॥१२॥

य याति रौखं घोरं ब्रह्महत्यां च विन्दति ॥ अन्याचाररतं दृष्ट्वा यः शक्तो न निवारयेत् ॥१३॥

तत्पापं समवाप्नोति नरकं तावुभावपि ॥ पापिनां पापगणनां कृत्वान्येभ्यो दिशन्ति च ॥१४॥

अस्तित्वे तुल्यपापास्ते मिथ्यात्वे द्विगुणा नृप् ॥ अपापे पातकं यस्तु समारोप्य विनिन्दति ॥१५॥

स याति नरकं घोरं यावच्चंद्रार्क तारकम् ॥ पापिनां निन्द्यमानानां पापार्द्धं क्षयमेति च ॥१६॥

यस्तु व्रतानि संगृह्य असमाप्य परित्यज्येत् ॥ सोऽसिपत्रेऽनुभूयर्तिं हीनाङ्गो जायते भुवि ॥१७॥

अन्यैः संगृह्यमाणानांव्रतानां विघ्नकृन्नरः ॥ अतीव दुःखदं रौद्रं स याति श्लेष्मभोजनम् ॥१८॥

न्याचे च धर्मशिक्षायां पक्षपातं करोति यः ॥ न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि ॥१९॥

अभोज्यभोजी संप्राप्य विड्भोज्यं तु समायुतम् ॥ ततश्चाण्डालयोनौ तु गोमांसाशी सदा भवेत् ॥२०॥

अवमान्य द्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति ॥ सर्वाश्च यातना भुक्त्वा चाण्डालो दशजन्मसु ॥२१॥

विप्राय दीयमाने तु यस्तु विघ्नं समाचरेत् ॥ ब्रह्महत्यासमं तेन कर्त्तव्यं व्रतमेव च ॥२२॥

अपहृत्य पस्यार्थं यः परेभ्यः प्रयच्छति ॥ अपहर्त्ता तु निरयी यस्यार्थस्तस्य तत्फलम् ॥२३॥

प्रतिश्रुत्याप्रदानेन लालाभक्षं व्रजेन्नरः ॥ यतिनिन्दापरो राजन् शिलामात्र प्रयाति हि ॥२४॥

आरामच्छेदिनो यान्ति युगानामेकविंशतिम् ॥ श्वभोजनं ततः सर्वा भुञ्जते यातनाः क्रमात् ॥२५॥

देवतागृहभेत्तारस्तडागानां च भूपते ॥ पुष्पारामभिदश्चैव यां गतिं यान्ति तच्छृणु ॥२६॥

यातनास्वासु सर्वासु पच्यन्ते वै पृथक् पृथक् ॥ ततश्च विष्ठाकृमयः कल्पानामेकविंशतिम् ॥२७॥

ततश्चाण्डालयोनौ तु शतजन्मानि भूपते ॥ ग्रामविध्वं सकानां तु दाहकानां च लुम्पताम् ॥२८॥

महत्पापं तदादेष्टुं न क्षमोऽहं निजायुषा ॥ उच्छिष्टभोजिनो ये च मित्रद्रोहपराश्च ये ॥२९॥

एतेषां यातनास्तीव्रा भवन्त्याचन्द्रतारकम् ॥ उच्छिन्नपितृदेवेज्या वेदमार्गबहिःस्थिताः ॥३०॥

पाषण्डा इति विख्यातास्तेषां वै सर्वयातनाः ॥ एवं बहुविधा भूप यातनाः पापकारिणाम् ॥३१॥

तेषां तासां च संख्यानं कर्त्तुं नालमहं प्रभो ॥ पापानां यातनानां च धर्माणां चापि भूपते ॥३२॥

संख्यां निगदितुं लोके कः क्षमो विष्णुना विना ॥ एतेषां सर्वपापानां धर्मशास्त्रविधानतः ॥३३॥

प्रायश्चित्तेषु चीर्णेषु पापराशिः प्रणश्यति ॥ प्रायश्चित्तानि कार्याणि समीपे कमलापतेः ॥३४॥

न्यूनातिरिक्तकृत्यानां संपूर्तिकरणाय च ॥ गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम् ॥३५॥

अनसूया ह्यहिंसा च सर्वेप्येते हि पापहाः ॥ विष्णवर्पितानि कर्माणि सफलानि भवन्ति हि ॥३६॥

अनर्प्पितानि कर्माणि भस्मवि न्यस्तहव्यवत् ॥ नित्यं नैमित्तिकं काम्यं यच्चान्यमोक्षसाधनम् ॥३७॥

विष्णौ समर्पितं सर्व सात्त्विकं सफलं भवेत् ॥ हरिभक्तिः परा नृणां सर्व पापप्रणाशिनी ॥३८॥

सा भक्तिर्दशधा ज्ञेया पापारण्यदवोपमा ॥ तामसै राजसैश्चैव सात्त्विकैश्च नृपोत्तम ॥३९॥

यच्चान्यस्य विनाशार्यं भजनं श्रीपतेर्नृप ॥ सा तामस्यधमा भक्तिः खलभावधरा यतः ॥४०॥

योऽर्चयेत्कैतवधिया स्वैरिणी स्वपतिं यथा ॥ नारायणं जगन्नाथं तामसी मध्यमा तु सा ॥४१॥

देवपूजारान्दृष्ट्वा मात्सर्याद्योऽर्चयेद्धीरम् ॥ सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता ॥४२॥

धनधान्यादिकं यस्तु प्रार्थ्ज्ञयन्नर्चयेद्धरिम् ॥ श्रद्धया परया युक्तः सा राजस्यधमा स्मृता ॥४३॥

यः सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् ॥ अर्चयेत्परया भक्तया सा मध्या राजसी मता ॥४४॥

सालोक्यादि पदं यस्तु समुद्दिश्यार्चयेद्धीरम् ॥ सा राजस्युत्तमा भक्तिः कीर्तिताः पृथिवी पते ॥४५॥

यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्धरिम् ॥ श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता ॥४६॥

हरेरिदं प्रियमिति शुश्रूषां कुरुते तु यः ॥ श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा ॥४७॥

विधिबुद्ध्य़ार्चयेद्यस्तु दासवच्छ्रीपतिं नृप ॥ भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता ॥४८॥

महिमानं हरेर्यस्तु किंचित्कृत्वा प्रियो नरः ॥ तन्मयत्वेन संतुष्टः सा भक्तिरुत्तमोत्तमा ॥४९॥

अहमेव परो विष्णुर्मयि सर्वमिदं जगत् ॥ इति यः सततं पश्येत्तं विद्यादुत्तमोतमम् ॥५०॥

एवं दशविधा भक्तिः संसारच्छेदकारिणी ॥ तत्रापि सात्त्विकी भक्तिः सर्वकामफल प्रदा ॥५१॥

तस्माच्छृणुष्व भूपाल संसारविजिगीषुणा ॥ स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने ॥५२॥

यः स्वधर्मं परित्यज्य भक्तिमात्रेण जीवति ॥ न तस्य तुष्यते विष्णुराचारेणैव तुष्यते ॥५३॥

सर्वागमानामाचारः प्रथमं परिकल्पते ॥ आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥५४॥

तस्मात्कार्या हरेर्भक्तिः स्वधर्मस्याविरोधिनी ॥ सदाचारविहीनानां धर्मा अप्यसुखप्रदाः ॥५५॥

स्वधर्महीना भक्तिश्चाप्यकृतैव प्रकीर्तिता ॥ यत्तु पृष्टं भूयस्तत्सर्वं गदितं मया ॥५६॥

तस्माद्धर्मपरो भूत्वा पूजयस्व जनार्दनम् ॥ नारायणमणीयांस सुखमेष्यसि शाश्वतम् ॥५७॥

शिव एव हरिः साक्षाद्धरिरेव शिवः स्वयम् ॥ द्वयोरन्तरदृग्याति नरकान्कोटिशः खलः ॥५८॥

तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चय ॥ भेदकृदृ : ख माप्नोति इह लोक परत्र च ॥५९॥

यदर्थमहमायातस्त्वत्समीपं जनाधिप ॥ तत्ते वक्ष्यामि सुमते सावधानं निशामय ॥६०॥

आत्मघातकपाप्मानो दग्धाः कपिलकोपतः ॥ वसन्ति नरके ते तु राजंस्तव पितामहाः ॥६१॥

तानुद्धर महाभाग गङ्गानयनकर्मणा ॥ गङ्गा सर्वाणि पापानि नाशयत्येव भूपते ॥६२॥

केशास्थिनखदन्ताश्च भस्मापि नृपसत्तम ॥ नयति विष्णुसदनं स्पृष्टा गाङ्गेन वारिणा ॥६३॥

यस्यास्थि भस्म वा राजन् गङ्गायांक्षिप्यते नरैः ॥ स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः ॥६४॥

यानि कानि च पापानि प्रोक्तानि तव भूपते ॥ तानि नश्यन्ति गङ्गाबिन्द्वभिषेच नात् ॥६५॥

सनक उवाच ॥ इत्युक्त्वा मनिशार्दूल महाराज भगीरथम् ॥ धर्मात्मानं धर्मराजः सद्यश्चान्तर्द ॥६६॥

स तु राजा महाप्राज्ञः सर्वशास्त्रार्थपारगः ॥ निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम् ॥६७॥

तुहिनाद्रौ ततो गत्वा नरनारायणाश्रमात् ॥ पश्चिमे तुहिनाक्रान्ते श़ृङ्गे षोडशयोजने ॥६८॥

तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम् ॥६९॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:31:18.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अफ्तागीर

  • अफजाईश - अफतर - अफवा इत्यादि पहा . 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site