संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| षडशीतितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - षडशीतितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण षडशीतितमोऽध्यायः Translation - भाषांतर सनत्कुमार उवाच ॥सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम् ॥ अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान् ॥१॥वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम् ॥ ऋषिः स्याद्दक्षिणामूर्तिः पंक्तिश्र्छंदः प्रकीर्तितम् ॥२॥देवता त्रिपुरा बाला मध्यांते शक्तिबीजके ॥ नाभंरापादमाद्यंतु नाभ्यतं ह्रदयात्परम् ॥३॥मूर्ध्नो ह्रदतं तार्तीयं क्रमाद्देहेषु विन्यसेत् ॥ आद्यं वामकरे दक्षकरे तदुभयोः परम् ॥४॥पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि ॥ नव योन्याभिधं न्यासे नवकृत्वो मनुं न्यसेत् ॥५॥कर्णयोश्विबुके न्यस्येच्छंखयोर्मुखपंकजे ॥ नेत्रयोर्नासिकायां च स्कंधयो रुदरे तथा ॥६॥न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिंगमस्तके ॥ पादयोरपि गुह्ये पार्श्वयोर्त्दृदये पुनः ॥७॥स्तनयोः कंठदेशेः च वामांगादिषु विन्यसेत् ॥ वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां ह्रदि ॥८॥कामबीजादिकान्पश्येद्धूमध्ये तु मनोभवाम् ॥ पुनर्वागकात्ममाद्यास्तिस्त्रएव च विन्यसेत् ॥९॥अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् ॥ मूर्ध्नि वक्रे त्दृदि न्यस्येद्धुह्ये चरणेयोरपि ॥१०॥कामेशी पंचबीजाढ्यां स्मरात्पञ्च न्यसेत्क्रमात् ॥ मायाकामी च वाग्लक्ष्मी कामेशी पंचबीजकम् ॥११॥मनोभवश्व मकरध्वजकंदर्पमन्मथाः ॥ कामदेवः स्मरः पंच कीर्तिता न्याससिद्धिदाः ॥१२॥शिरःपन्मुखगुह्येषु त्दृदये बाणदेवताः ॥ द्राविण्याद्याः क्रमान्न्यस्येद्वानेशीबीजपूर्वकाः ॥१३॥द्रांद्रीं क्लींजूंस इति वै बाणेशीबीजकं च कम् ॥ द्राविणी क्षोभिणी वशीकरण्याकर्षनी तथा ॥१४॥संमोहनी च बाणानां देवताह पञ्च कीर्तिताः ॥ तार्तीयवाग्मध्यगेन कामेन स्यात्षंडकम् ॥१५॥षड्कीर्घस्वयुक्तेन ततो देवीं विचिंतयेत् ॥ ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनाम् ॥१६॥उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम् ॥ लक्षत्रयं जपेन्मंत्र दशांशं किंशुकोद्धवैः ॥१७॥पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः ॥ नवयोन्यात्मंक यंत्रं बहिरष्टदला वृतम् ॥१८॥केसरेषु स्वरान्न्यस्तेद्वर्गानष्टौदलेष्वपि ॥ दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम् ॥१९॥एवं विलिखिते यंत्रे पीठशक्तिः प्रपूजयेत् ॥ इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ॥२०॥रती रतिप्रियां नंदा मनोन्मन्यपि चोदिताः ॥ पीथशक्तिरिमा इष्ट्रा पीठं तन्मनुना दिशेत् ॥२१॥व्योमपूर्वे तु तर्तियं सदाशिवमहापदम् ॥ प्रेतपद्मासनं ङेंत नमोतः पीठमन्त्रकः ॥२२॥षोडशार्णस्ततो मूर्तौ क्लप्तायां मूलमंत्रतः ॥ आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः ॥२३॥देवीमिष्ट्रा मध्ययोनी त्रिकोणे रतिपूर्विकाम् ॥ वामकोणे रतिं दक्षे प्रीतिमग्ने मनोभवाम् ॥२४॥योन्यन्तर्वह्रिकोणादवंगान्यूग्नेर्विदिक्ष्वपि ॥ मध्ययोर्नबहिः पूर्वादिषु चाग्रे स्मरानपि ॥२५॥वाणदेवीस्तद्वदेव शक्तिरष्टसु योनिषु ॥ सुभगाख्या भगा पश्वात्तृतीया भगसर्पिणी ॥२६॥भगमाला तथानंगा नगाद्या मुसुमापरा ॥ अनंगमेखलानंगमदनेत्यष्टशक्तयः ॥२७॥पद्मकेशर्गा ब्राह्मी मुखाः पत्रेषु भैरवाः ॥ दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्वाष्टभैरवाः ॥२८॥द्लाग्रेष्वष्टपीठानि कामरुपाख्यमादिमम् ॥मलंय कोल्लगि र्य्याख्यं चौहाराख्यं कुलांतकम् ॥२९॥जालंधर तथोन्नासं कोटपीठमथाष्टमम् ॥ भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरांतकम् ॥३०॥वैतालमग्नि जिह्रं च कमलांतपालिनी ॥ एकपादं भीमरुपं विमंल हाटकेश्वरम् ॥३१॥शक्राद्यानायुधैः सार्द्ध स्वस्वदिक्षु समर्चयेत् ॥ तद्वहिर्दिक्षु बटुकं योगिनी क्षेत्रनायकम् ॥३२॥गणेश विदिशास्वचैद्वसून्सूर्याञ्छवांस्तथा ॥ भूतांश्वेत्थं भजन्बालामीशः स्याद्धनविद्ययोः ॥३३॥रक्तांभोजैर्हुतैर्नायौ वश्याः स्युः सर्षपैर्नृपाः ॥ नंद्यावर्तै राजवृक्षैः कुंदैः पाटलचंपकैः ॥३४॥पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् ॥ अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया ॥३५॥यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते ॥ ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः ॥३६॥पलाशपुष्पैर्वाक्सिद्धिरन्नप्ति श्वान्नहोमतः ॥ सुरभिक्षीरदध्यक्ताँल्लाजान्हुत्वा रुजो जयेत् ॥३७॥रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः ॥ चन्दनं केशरं मांसीं क्रमाद्धगौनियो जयेत् ॥३८॥भूमिचंद्रैकनदाब्धिदिक्सप्तानिगमोन्मितैः ॥श्मशाने कृष्णभूतस्य निशि नीहारपाथसा ॥३९॥कुमार्या पेषयेत्तानि मंत्रेणाथाभि मंत्र्य च ॥ विदद्धयात्तिलकं तेन दर्शनाद्वशयेज्जनान् ॥४०॥गजसिंहादिभूतानि राक्षसाञ्छादिनीरपि ॥ प्रयोजनानां सिद्धयै तु देव्याः शापं निवर्त्य च ॥४१॥विधायोत्कीलितां पश्वाज्जपमस्य समाचरेत् ॥ यो जषेदादिमे बीजे वराहभृगुपावकान् ॥४२॥मध्यमादौ नभोहंसौ मध्यमांते तु पाव कम् ॥ आदावंते च तार्तीयक्रमात्स्वं धूम्रकेतनम् ॥४३॥एवं जप्त्वा शतं विद्या शापहीना फलप्रदा ॥ यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत् ॥४४॥शापोद्धारप्रकारोऽन्यो यद्वायं कीर्तितो बुधैः ॥ आद्यमाद्यं हि तार्तीयं कामः कामोऽथ वाग्भवम् ॥४५॥अंत्यमंत्यमनंगश्व नवार्णः कीर्तितो मनुः ॥ जप्तोऽयं शतधा शापं बालाया विनिवर्तयेत् ॥४६॥चैतन्याह्रादिनीमन्त्रौ जप्तौ निष्कीलताकरौ ॥ त्रिस्वराश्वेतनं मन्त्री धरः शांतिरनुग्रहः ॥४७॥तारादिह्रदयांतः स्यात्काम आह्रादिनीमनुः ॥ तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ॥४८॥सुदीप्तानि विधा यादौ यजेत्तानीष्टसिद्धये ॥ वदयुग्मं सदीर्घांबु स्मृतिवालावनंगतौ ॥४९॥सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी ॥ क्लिन्ने क्लेदिनि वैकुंठो दीर्घं स्वं सद्यगोंतिमः ॥५०॥निद्रा सचंद्रा कुर्वीत शिवार्णा मध्यदीपिनी ॥ तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी ॥५१॥दीपिनीमंतरा बाला साधितापि न सिद्धयति ॥ वागंत्यकामान् प्रजयेदरीणां क्षोभहेतवे ॥५२॥कामवाग्यंबीजानि त्रैलोक्यस्य वशीकृतौ ॥ कामांत्यवाणीबीजानि मुक्तये नियतो जपेत् ॥५३॥पूजारंभे तु बालायास्त्रिविधानर्चयेद्धुरुन् ॥ दिव्यौघश्वैव सिद्धौघो मानवौघ इति त्रिधा ॥५४॥परप्रकाशः परमे शानः परशिवस्तथा ॥ कामेश्वरस्ततो मोक्षः षष्ठः कामोऽमृतोंऽतिः ॥५५॥एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः ॥ ईशानाख्यस्तत्पुरुषोऽघोराख्यो वामदेवकः ॥५६॥सद्योजात इमे पंच सिद्धौघाख्याः स्मृता मुने ॥ मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः ॥५७॥नवयोन्यात्मके यन्त्रे विलिखे न्यध्ययोनितः ॥ प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ॥५८॥त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत् ॥ बहिर्मातऋकयाऽऽवेष्टय तद्वहिर्भूपुरद्वयम् ॥५९॥कामबीजलसत्कोण व्यतिभिन्नं परस्परम् ॥ पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम् ॥६०॥बाहुना विधृते दद्याद्धनं कीर्ति सुखं सुतान् ॥ कामांते त्रिपुरा देवी विद्महे कविषं भहिम् ॥६१॥बकः खङी समारुढः सनेत्रोऽग्निश धीमहि ॥ तत्र प्रचोदांते यादित्येषा प्रकीर्तिता ॥६२॥गायत्री त्रैपुरा सर्वसिद्धिदा सुरसेविता ॥ अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते सिद्धिदो नृणाम् ॥६३॥वेदादिर्गिरिजा पद्मा मन्मथो त्दृदयं भृगुः ॥ भगवति माहेश्वरी ङेन्तेऽन्नपूर्णें दहनांगना ॥६४॥प्रोक्ता विंशतिवर्णेयं विद्या स्याद्दुहिणो मुनिः ॥ धृतिश्र्छंदोऽन्नपूर्णेशी देवता परिकीर्तिता ॥६५॥षडूदीर्घा ढ्येन हल्लेखाबीऽजेन स्यात्षंडगकम् ॥ मुखनासक्षिकर्णांसगुदेषु नवसु न्यसेत् ॥६६॥पदानि नव तद्वर्णसंख्येदानीमुदीर्यते ॥ भूमिचंद्रधरै काक्षिवेदाब्धियुगबाहुभिः ॥६७॥पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम् ॥ स्वर्णाभांगां त्रिनयनां वस्त्रालंकारशोभिताम् ॥६८॥भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम् ॥ लक्षं जपोऽयुतं होमो घृताक्तचरुणा तथा ॥६९॥जयादिनाशक्तयाढ्ये पीठे पूजा समीरिता ॥ त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके ॥७०॥भूपुरेण युते यंत्रे प्रदद्यान्मायया मनुम् ॥ अग्न्यादिकोणत्रितये शिववाराहमाधवान् ॥७१॥अचर्ययेत्स्वस्वमंत्रैस्तु प्रोच्यंते मनवस्तु ते ॥ प्रणवो मनुचन्द्राढ्यं गगनं ह्रदयं शिवा ॥७२॥मारुतः शिवमंत्रोऽयं सप्तार्णः शिवपूजये ॥ वाराहनारायणयोर्मंत्रौ पूर्व मुदीरयेत् ॥७३॥षडंगानि ततोऽभ्यर्च्य वामे दक्षे धरां रमाम् ॥ यजेत्स्वमनुभ्यां तु तावुच्यंते मुनीश्वर ॥७४॥अन्नं मह्यन्नेमित्युक्ता मे देह्यन्नाधिपोर्णकाः ॥ नयेममंन्न प्राणांते दापयानलसुंदरी ॥७५॥द्वाविंशत्यक्षरो मंत्रो भूमीष्टौ भूमिसंपुटः ॥ लक्ष्मीष्टौ श्रीपुटो विप्र स्मृतिर्लभेनुचंद्रयुक् ॥७६॥भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाह्रतम् ॥ मंत्रादस्थचतुर्बीजपूर्विकाः परिपूजयेत् ॥७७॥शक्तिश्वतस्त्रो वेदास्त्रे परा च भुवनेश्वरी ॥ कमला सुभगा चति ब्राह्मयाद्या अष्टपत्रगाः ॥७८॥षोडशारे स्मृते चव मानदातुष्टिपुष्टयः ॥ प्रीती रतिर्ह्रीः श्रीश्वापि स्वधा स्वाहा दशम्यथ ॥७९॥ज्योत्स्रा हैमवती छाया पूर्णिमा संहतिस्तथा ॥ अमावास्येति संपूज्या मंत्रेशे प्राणपूर्विका ॥८०॥भृपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रस्तः इत्थं जपादिभिः सिद्धे मंत्रेऽस्मिन्धनसंचयैः ॥८१॥कुबेरसदृशौ मंत्री जायते जनवंदितः ॥अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते मुनिसत्तम ॥८२॥प्रणवः शांतिरुणाक्रियाढ्याचन्द्रभूषिताः ॥ बगलामुखिसर्वांते इंधिकाह्रादिनीयुता ॥८३॥पीताजरायुक्प्रतिष्ठा पुनर्दीर्घोदसंयुता ॥ वाचं पदं स्तंभयांते जिह्रापदं वदेत् ॥८४॥कीलयेति च बुद्धिं विनाशयांते स्वबीजकम् ॥ तारोऽग्निसुंदरी मंत्रो बगलायाः प्रकीर्तितः ॥८५॥मुनिस्तु नारदश्वदो बृहती बगलामुखी ॥ देवता नेत्रपंचेषुनवपंचदिगर्णकैः ॥८६॥अंगानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः ॥ स्वर्णसनस्थां हेमाभां स्तंभिनीमिंदुशेखराम् ॥८७॥दधतीं पाशं वज्रं च रसनां करैः ॥ एवं ध्यात्वा जपेल्लक्षमयुतं चंपकाद्धवैः ॥८८॥कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम् ॥ चंदनागुरुचंद्राघैः पूजार्थ यंत्रमालिखेत् ॥८९॥त्रिकोणषड्दलाष्टास्त्रषोडशारे यजोदिमाम् ॥ मंगला स्तंभिनी चैव जृंभिणी मोहिनी तथा ॥९०॥वश्या चला बलाका च भूधरा कल्मशाभिधा ॥ धात्री च कलना कालकर्षिणी भ्रामिकापि च ॥९१॥मंदगापि च भोगस्था भाविका षोडशी स्मृता ॥ भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात् ॥९२॥गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् ॥ इंद्रादींश्व ततो बाह्ये निजायुधसमन्वितान् ॥९३॥इत्थं सिद्धे मनौ मंत्री स्तंभयेद्देवतादिकान् ॥ पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः ॥९४॥पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्त्रजा जपेत् ॥ पीतां ध्यायन्भगवतीं पयोमध्येऽयुतं जपेत् ॥९५॥त्रिमध्वा ज्यतिलैर्होमो नृणां वश्यकरो मतः ॥ मधुरत्रितयाक्तिः स्यादाकर्षो लवर्णैर्धुवम् ॥९६॥तैलाभ्यकैर्निम्बपत्रैर्होमो विद्वेषकारकः ॥ ताललोण हरिद्राभिर्द्विषां संस्तंभनं भवेत् ॥९७॥आगारधूमं राजीश्व माहिष गुग्गुले निशि ॥ श्मशाने पावके हुत्वा नाशयेदचिरादरीन् ॥९८॥गरुतो गृध्रकाकानां कटुतैलं विभीतकम् ॥ गृहधूमं चितावह्रौ हुत्वा प्रोच्चाट्येद्रिपून् ॥९९॥दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान् ॥ जुहोति सोऽखिलान् रोगान् शमयेद्दर्शनादपि ॥१००॥पर्वताग्रे महारण्ये नदीसंगे शिवालये ॥ ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये ॥१०१॥एक वर्णगवीदुग्धं शर्करामधुसंयुतम् ॥ त्रिशंतं मंत्रितं पीतं हन्याद्विषपराभवम् ॥१०२॥श्वेतपालाशकाष्ठेन रचिते रम्यपादुके ॥ अलक्तरंजिते लक्षं मन्त्रयेन्मनुनामुना ॥१०३॥तदारुढः पुमान् गच्छेत्क्षणेन शतयोजनम् ॥ पारदं च शिलां तालं पिष्टं मधुसमन्वितम् ॥१०४॥मनुना मन्त्रयेल्लक्षं लिंतत्तेर्नाखिलां तनुम् ॥ अदृश्यः स्यान्नृणामेष आश्वर्य्यं दृश्यतामिदम् ॥१०५॥षट्कोणं विलिखेद्वीजं साध्यनामान्वितं मनोः ॥ हरितालनिशा चूर्णैरुन्मत्तरससंयुतैः ॥१०६॥शेषाक्षरैः समानीतं धरागेहविराजितम् ॥ तद्यंत्रं स्थापितप्राणं पीतसूत्रेण वेष्ट्येत् ॥१०७॥भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा ॥ रचयेदृष्टभं रम्यं यंत्रं तन्मध्यतः क्षिपेत् ॥१०८॥हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् ॥ स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम् ॥१०९॥आदाय वामहस्तेन प्रेतस्थितकर्परम् ॥ अंगारेण चितास्थेन तत्र यंत्रं समालिखेत् ॥११०॥मंत्रितं निहितं भूमौ रिपूणां स्तंभयेद्धतिम् ॥ प्रेतवस्त्रे लिखेद्यंत्रं अंगारेणैव तत्पुनः ॥१११॥मंडूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम् ॥ पूजितं पीतपुष्परैस्तद्वाचं संस्तंभयोद्दिषाम् ॥११२॥यद्धूमौ भाविता दिव्यं यंत्रं समालिखेत् ॥ मार्जितं तद्दिषां पात्रौर्दिव्यस्तम्भनकृद्धवेत् ॥११३॥इन्द्रवारुणिकामूलं सप्तशी मनुमंत्रितम् ॥ क्षिप्तंजले दिव्यकृतं जलस्तंभनकारकम् ॥११४॥किं बहूक्तया साधकेन मन्त्रः सम्यगुपासितः ॥ शत्रूणां गतिबुद्धयादेः स्तंभनो नात्र संशयः ॥११५॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरुपणं नाम षडशीतितमोऽध्यायः ॥८६॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP