संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| एकोनपञ्चाशत्तमोध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - एकोनपञ्चाशत्तमोध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण एकोनपञ्चाशत्तमोध्यायः Translation - भाषांतर सनंदन उवाच॥निशम्य तस्येति वचः परमार्थसमन्वितम् ॥ प्रश्रयावनतो भूत्वा तमाह नृप तिद्विजम् ॥१॥राजोवाच ॥भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः॥ श्रुते तस्मिन्भ्रंमतीव मनसो मम वृत्तयः ॥२॥एतद्विवेकविज्ञानं यदि शेषुषु जंतुषु ॥ भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥३॥नाहं वहामि शिबिकां शिबिका मयि न स्थिता ॥ शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥४॥गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता ॥ प्रवर्तंते गुणाश्वैत किं ममेति त्वयोदितम् ॥५॥एतस्मिअन्परमार्थज्ञ मम श्रोत्रपथं गते ॥ मनो विह्यलतामेति पर मार्थार्थतां गतम् ॥६॥पूर्वमेव महाभाग कपिलर्षिमहं द्विज ॥ प्रष्टुमभ्युद्यतो गत्वा श्रेयः किंत्वत्र संशये ॥७॥तदंतरे च भवता यदिदं वाक्यमी रितम् ॥ तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥८॥कपिलर्षिर्भगवतः सर्वभूतस्य वै किल ॥ विष्णोरंशो जगन्मोहनाशाय समुपागतः ॥९॥स एव भगवान्नूमस्माकं हितकाम्यया ॥ प्रत्यक्षतामनुगतस्तथैतद्धवतोतोच्यते ॥१०॥तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज ॥ तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥११॥ब्राह्मण उवाच ॥भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि ॥ श्रेयांसि परमार्थानि ह्यशेषाण्येव भूपते ॥१२॥देवताराधनं कृत्वा धनसंपदमिच्छति ॥ पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥१३॥विविकिनस्तु संयोगः श्रेयोऽसौ परमात्मना ॥ कर्मयज्ञा दिकं श्रेयः स्वर्लोकफलादायि यत् ॥१४॥श्रेयःप्रधानं च फले तदेवानभिसंहिते ॥ आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ॥१५॥श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ श्रेयास्येवमनेकानि शतशोऽथ सहस्त्रशः ॥१६॥संत्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ धर्मोऽयं त्यजते किं तुपरमार्थो धनं यदि ॥१७॥व्ययश्वक्रियत कस्मात्कामप्राप्त्युपलक्षणः ॥ पुत्रश्वेत्परामार्थाख्यः सोऽप्यन्यस्य नरेश्वर ॥१८॥परमार्थभूत सोऽन्यस्य परमार्थो हि नः पिता ॥ एवं न परमार्थोऽस्ति जगत्यत्रं चराचरे ॥१९॥परमार्थो हि कार्याणि करणानामशेषतः ॥ राज्यदिप्राप्तिरत्रोक्ता परमार्थतया यदि ॥२०॥परमार्था भवंत्यत्र न भवंति च वै ततः ॥ ऋग्यजुःसामनिष्पांद्य यज्ञकर्म मतं तव ॥२१॥परमार्थभूतं तत्रापि श्रूयता गदतो मम ॥ यत्तु निष्पाद्यते कार्यं मृदा कारणभुतया ॥२२॥तत्कारणानुगमनाज्जायती नृप मृन्मयम् ॥ एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ॥२३॥निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ अनाशी परमार्थस्तु प्राज्ञैभ्युपगयते ॥२४॥यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् ॥ तदेवाफलदं कर्म परमार्थो मतो मम ॥२५॥मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ ध्यानमेवात्मनो भूप परमार्थोर्थशब्दितम् ॥२६॥भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ परमार्थात्मनोर्योगः परमार्थ इतीष्यते ॥२७॥मिथ्यैतदन्यद्दव्यं हि नैतद्दव्यमयं यतः ॥ तस्माछ्रेयांस्यशेषाणि नृपैतानि न संशयः ॥२८॥परमार्थस्तु भूपाल संक्षेपाच्छ्रयताम मम ॥ एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ॥२९॥जन्मवृद्धयादिरहित आत्मा सर्वगतो नृप ॥ परिज्ञानमयो सद्धिर्नामजात्यादिभिविभुः ॥३०॥न योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्याति ॥ तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ॥३१॥विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः॥ वेणुरंध्रविभेदेन भेदः षङ्जदिसंज्ञितः ॥३२॥अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः ॥ एकत्वं रुपभेदश्व वाह्यकर्मप्रवृत्तिजः ॥३३॥देवादिभेदमध्यास्ते नास्त्येवाचणो हि सः ॥ श्रृण्वत्र भूप प्राग्वृतं यद्धीतसृभुणा भवेत् ॥३४॥अवबोधं जनयतो निदाघस्य द्विजनमः ॥ ऋभुर्नामाऽभवत्पुत्रो ब्रह्मणः परमेष्ठिनः ॥३५॥विज्ञात तत्त्वसद्धावी निसर्गादेव भूपते ॥ तस्य शिष्यो निदाघोऽभूत्पुलस्त्यनयः पुरा ॥३६॥प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥ अवाप्तमति तत्त्वस्य न तस्याद्वैतवासना ॥३७॥स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥ देविकायास्तटे वीर नागरं नाम वै पुरम् ॥३८॥समृद्धमति रम्यं च पुलस्त्येन निवेशितम् ॥रम्योपवनपर्यंतं स तस्मिन्पार्थिवोत्तम ॥३९॥निद्राघनामायोगज्ञस्तस्य शिष्योऽभवत्पुरा ॥ दिव्ये वर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् ॥४०॥जगाम स ऋभुः शिष्यं निदाघमवलोकितुम ॥ स तस्य वैश्वदेवांते द्वारालोकनगोचरः ॥४१॥स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः ॥ प्रक्षालितांघ्रपाणिं च कृपासनपरिग्रहम् ॥४२॥उवाच स द्विजश्रेष्ठो भुज्यतामिति सादरम् ॥ ऋभुरु वाच ॥ भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ॥४३॥तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥ निदाघ उवाच ॥ सक्तुयावकव्रीहीनामपूपानां च मे गृहे ॥४४॥यद्रोचते द्विजश्रेष्ठ ताक्द्धुक्ष्व यथेच्छया । ऋभुरवाच ॥ कदन्नानिदिजैतानि मिष्टमन्नं प्रयच्छ मे ॥४५॥संयावपायसादीनि चेक्षुक रसवंति च ॥ निदाघ उवाच ॥ गृहे शालिनि मद्रेहे यत्किचिदत शोभनम् ॥४६॥भोज्येषु साधनं मिष्टं तनास्यान्नं प्रसाधय ॥ इत्युक्ता तेन सा पत्नी मिष्टमंत्र द्विजस्य तत् ॥४७॥प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ॥ त भुक्तवंतमिच्छातो मिष्टमन्नं महामुनिम् ॥४८॥निदायः प्राह भूपाल प्रश्रयावनतः स्थितः ॥ निदाघ उवाच ॥ अपि ते परमा तृप्तिर्पन्ना पुष्टिरेव ॥४९॥अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ॥ क्क निवासी भवान्विप्र क्क वा गंतुं समुद्यतः ॥५०॥आगम्यते च भवता यत्स्तच्च विनेद्यताम् ॥ ऋगुरुवाज ॥ क्षुधितस्य च भुक्तऽन्ने तृप्तिर्ब्रह्मन्विजायते ॥५१॥न मे क्षुधा भवेत्तृप्ति कस्मानां द्विज पृच्छति ॥ वह्रिना पार्थिवेनादौ दगधे बै क्षुरापरिश्वः ॥५२॥भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्धवः ॥ क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ॥५३॥ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा ॥ मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ॥५४॥चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते ॥ क्क निवासस्तवेत्युंक्क क्क गंतासि च यत्त्वय ॥५५॥कुतश्वागम्यते त्वेतत्रितयेऽपि निबोध मे ॥ पुमान्स वर्गतो व्यापीत्याकाशवदयं यतः ॥५६॥कुतः कुत्र क्क गंतसीत्येतदप्यर्थवत्कथम् ॥ सोऽहं गंता च चागंता नैकदेशनिकेतनः ॥५७॥त्वं चान्ये च न च त्वं नान्ये नैवाहमप्यहम् ॥ मिष्टान्ने मिष्टमित्येषा जिह्या सा मे कृता तव ॥५८॥किं वक्ष्यातीति तत्रापि श्रृयतां द्विजसत्तम॥ मिष्ट मेव यदामिष्टं तदेवोद्वेगकारणम् ॥५९॥अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः ॥ आदिमध्यावसानेषु किमन्नं रुचिकारणम् ॥६०॥मृण्मयं हि मृदा यद्वदृहं लिप्त स्थिरीभवेत् ॥ पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥६१॥यवगोधूममुद्द्धादि घृतं तैलं पयो दधि ॥ गुडः फलानीति तथा पार्थिवाः परमाणवः ॥६२॥तदेतद्धवता ज्ञात्वा मिष्टमिष्टविचारि यत ॥ तन्मनःशमनालंबि कार्यं प्राप्यं हि मुक्तये ॥६३॥इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप ॥ प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत ॥६४॥प्रसीद मद्धितार्थाय कथ्यतां यस्त्त्वमागतः ॥ नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥६५॥ऋभुरुवाच ॥ ऋभुरस्मि तवाचार्यःप्रज्ञादानाय ते द्विज ॥ इअहागतोऽहं दास्यामि परमार्थं सुबोधितम् ॥६६॥एक एवमिंद विद्धि न भेदि सकलं जगत् ॥ वासुदेवभिवेस्य स्वरुपं परात्मनः ॥६७॥ब्राह्मण उवाच ॥तथेत्युक्ता निदाघेन प्रणिपातपुरःसरम् ॥ पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ॥६८॥पुनवषसहस्त्रांते समायातो नरेश्वर ॥ निदाघज्ञानदानाय तदेव नगरं गुरुः ॥६९॥नगरस्य बहिः सोऽथ निदाघं दृष्टवान् मुनिम् ॥ महाबलपरिवारे पुरं विशति पार्थिवे ॥७०॥दूरस्थितं महाभागे जनसंमर्दर्जकम् ॥ सुत्क्षामकण्ठमायांमरण्यात्ससमित्कुशम् ॥७१॥दृष्ट्रा निदाघ्म स ऋभुरुपागत्याभिवाद्य च ॥ उवाच कस्मादेकांते स्थीयते भवता द्विज ॥७२॥॥निदाघ उवाच॥भो विप्र जनसंमर्द्दो महानेष जनेश्वरे ॥ प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ॥७३॥ऋभुरुवाच ॥नराधिपोऽत्र कत्तमः कतमश्वेतरो जनः ॥ कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम ॥७४॥निदाघ उवाच ॥योऽयं गजेंद्रमुन्मत्तमद्रिश्रृंगसमुच्छ्रायम ॥ अधिरुढो नरेन्द्रोऽयं परितो यस्तथेतरः ॥७५॥ऋभुरुवाच ॥एतौ हि गजराजानौ दृष्टौ हि युगपन्मया ॥ भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ॥७६॥तत्कथ्यतां महाभाग विशेषो भवतानयोः ॥ ज्ञातिमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ॥७७॥निदाघ उवाच ॥गजोयोऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः ॥ वाह्यवाहकसंबंध को न जानति वै द्विज ॥७८॥ऋभुरुवाच ॥ब्रह्मन्यथाहं जानीयां तथा मामवबोधय ॥ अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ॥७९॥ब्राह्मण उवाच ॥इत्युक्ता सहसारुह्य निदाघः प्राह तं ऋभुम् ॥ श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥८०॥उपर्यहं यथा राजा त्वमधःकुंजरो यथा ॥ अवबोधाय ते ब्रह्मन्द्दष्टांतो दर्शितो मया ॥८१॥ऋभुरुवाच ॥ त्व राजेव द्विजश्रेष्ठ स्थितोऽहं गजवद्यदि ॥ तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥८२॥ब्राह्मण उवाच ॥इत्युक्तः सत्वरस्तस्य चरणवभिवंद्य सः॥ निदाघः प्राह भगवन्नाचार्यस्त्वमृभुर्मम ॥८३॥नान्यस्याद्वै तसंस्कारसंस्कृतं मानसं तथा ॥ यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥८४॥ऋभुरुवाच ॥ तवोपदेशदानाय पूर्वशुश्रूणात्त्व ॥ गुरुस्त्रेहाद्दभुर्नाम निदाघ्म समुपागतः ॥८५॥तदेतदुपदिष्टं ते संक्षेपेण महामते ॥ परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥८६॥ब्राह्मण उवाच ॥एवमुक्ता ददौ विद्यां निदाघं स ऋभुर्गुरुः ॥ निदाघोऽप्य्तुपदेशेन तेनाद्वैतपरोऽभवत् ॥८७॥सर्वभूतान्यभेदेन दद्देश स तदात्मनः ॥ तथा ब्रह्मतनौ मुक्तिमवाप परमा द्विजः ॥८८॥तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबांधवः ॥ भव सर्वगतं ज्ञानमात्मानमवनीपते ॥८९॥सितनीलादिभेदेन यथैकं दृश्यंत नमः ॥ भ्रांत दृष्टिभिरात्मापि तथैकः सन्पृथक पृथक ॥९०॥एकः समस्तं यदिहास्ति किंचित्तदच्युतो नास्ति परं ततोऽन्यत् ॥ सोऽहं स च त्वं स च सर्वमेतदात्मां स्वयं भात्यभेदमोहः ॥९१॥सनंदन उवाच ॥इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ॥ स चापि जातिस्मरणाबवोधस्तत्रैव जन्मन्य पवगमाप ॥९२॥परमार्थाघ्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर ॥ ब्राह्मणक्षत्रियविशां श्रोर्तृणां चापि मुक्तिदम् ॥९३॥यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया ॥ ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ॥९४॥इति श्रीबृहन्नादीयपुराणे पूर्वभागे बृहपाख्याने द्वि०पा०एकोनपञ्चाशत्तमोध्यायः ॥४९॥ N/A References : N/A Last Updated : May 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP