संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| षष्टितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - षष्टितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण षष्टितमोऽध्यायः Translation - भाषांतर सनंदन उवाच ॥ अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् ॥ तूष्णीं ध्यानपरो धीमानेकांते समुपाविशत् ॥१॥तमुवाचाशरीरी वाक् व्यासं पुत्रसमवितम् ॥ भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ॥२॥एको ध्यानपरस्तूष्णीं किमास्से चिंतयन्निव ॥ ब्रह्मघोर्षैर्विरहितः पर्वतोऽयं न शोभते ॥३॥तस्मादधीष्व भगवन्सार्द्धं पुत्रेण धीमता ॥ वेदन्वेदविदा चैव सुप्रसन्नमनाः सदा ॥४॥तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् ॥ शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ॥५॥तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम् ॥ वातोऽतिमांत्र प्रववौ समुद्रानिलवीजितः ॥६॥ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ॥ शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥७॥अपृच्छत्पितर्म तत्र कुतो वायुरभूदयम् ॥ आख्यातुमर्हति भवान्सर्वं वायोर्विचेष्टितम् ॥८॥शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ॥ अनध्यायनिमित्तऽस्मिन्निदं वचन मब्रवीत् ॥९॥दिव्यं ते चक्षुरुत्पंन्न स्वस्थ्म ते निश्वलं मनः ॥ तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः ॥१०॥तस्यात्मनि स्वयं वेदान्बुद्धा समनुचिंतय ॥ देवयानचरो विष्णोः पितृयानश्व तामसः ॥११॥द्वावेतौ प्रत्ययं यातौ दिवं चाधश्व गच्छतः ॥ पृथिव्यामंतरिक्षेच यतः संयांति वायवः ॥१२॥सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥ तत्र देवगणाः साध्याः समभूवन्महाबलाः ॥१३॥तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥ उदानस्तस्य पुत्रोऽभूव्द्यानस्तस्याभवत्सुतः ॥१४॥अपानश्व ततो जज्ञे प्राणश्वापि ततः परम् ॥ अनपत्योऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः ॥१५॥पृथक्कर्म्माणि तेषां तु प्रवक्ष्यामि यथा तथा ॥ प्राणिनां सवंतो वायुश्वेष्टा वर्तयते पृथक् ॥१६॥ प्रीण नाच्चैव सर्वेषां प्राण इत्यभिधीयते ॥ प्रेषयत्यसंघातान्धूमजांश्वोष्मजांस्तथा ॥१७॥प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ॥ अंबरे स्नेहमात्रेभ्यस्तडिद्धयश्वोत्तमद्युतिः ॥१८॥आवहो नाम सोऽभ्येति द्वितीयः श्वसनो नदन् ॥ उदयं ज्योतिषां शश्वत्सोमदीनां करोति यः ॥१९॥अंतर्देहेषु चोदानं यं वंदति मनीषिणः ॥ यश्वतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयेत् जलम् ॥२०॥उद्धत्य ददते चापो जीमूतेभ्यो वनेऽनिलः ॥ योऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति ॥२१॥उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ॥ संनीयमाना बहुधा येन नीला महाघनाः ॥२२॥वर्षमोक्षक्षकृतारंभास्ते भवंति घनाघनाः ॥ योऽसौ वहति देवानां विमानानि विहायसा ॥२३॥ चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥ येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः ॥२४॥पंचमः स महावेगो विवहो नाम मारुतः ॥ यस्मिन्परिप्लवे दिव्या वहंत्यापो विहायसा ॥२५॥पुण्यं चाकाशगंगायास्तोयं तिष्ठति ॥ दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ॥२६॥योनिरंशुसहस्त्रस्य येन याति वसुंधराम् ॥ यस्माद्दाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ॥२७॥षष्ठः परिवहो नाम स वायुर्जीवताः वरः ॥ सर्वप्राणभृतां प्राणान्योंऽतकाले निरस्यति ॥२८॥यस्य धर्मेऽनुवर्तेते मृत्युवैवस्वतावुभौ ॥ सम्यगान्वीक्षता बुद्धया ॥ शांतयाऽध्यात्मनित्यया ॥२९॥ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥ यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ॥३०॥दक्षस्य दश पुत्राणां सहस्त्राणि प्रजापतेः ॥ येन वृष्ट्या पराभूतस्तो यान्येन निवर्तते ॥३१॥परीव हो नाम वरो वायुः स दुरतिक्रमः ॥ एवमेते दितेः पुत्रा मरुतः पर्माद्धुताः ॥३२॥अनारमंतः सर्वांतः सर्वगाः सरचारिणः ॥ एतत्तु महदाश्वर्यं यदयं पर्वतोत्तमः ॥३३॥कंपितः सहसा तेन पवमानेन वायुना ॥ विष्णोर्निः श्वासवातोऽयं यदा वेगसमीरितः ॥३४॥सहसोदर्यते तात जगत्प्रव्यथते तदा ॥ तस्माद्धह्यविदो ब्रह्म न पठंत्यतिवायुतः ॥३५॥वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् एताव क्त्वा वचनं पराशरशुतः प्रभुः ॥३६॥उक्त्वा पुत्रमधीष्वेति व्योमगंगामगात्तदा ॥ ततो व्यासे गते स्त्रांतु शुको ब्रह्मविदां वरः ॥३७॥स्वाध्यायमकरोद्धह्यन्वेदवेदांगपारगः ॥ तत्र स्वाध्यायसंसक्तं शुकं विप्रेंद्र शुकं व्याससुतं मुने ॥३८॥सनत्कुमारो भगवानेकांते समुपागतः ॥ उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना ॥३९॥ततः प्रोवाच विप्रेंद्र शुकं विदां वरः ॥ किं करोषि महाभाग व्यासपुत्र महाद्युते ॥४०॥शुक उवाच॥स्वाध्याये संप्रवृत्तोऽहं ब्रह्मपुत्राधुना स्थितः ॥ त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च ॥४१॥किंचित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् ॥ तद्वदस्व महाभाग यथा त ज्ज्ञाअनमाप्नुयाम् ॥४२॥ सनत्कुमार उवाच ॥नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ॥ नास्ति रागसमः दुःखं नास्ति त्यागसमं सुखम् ॥४३॥निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ॥ सदृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥४४॥मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ॥ नालं स दुःखामोक्षाय संगो वै दुःखलक्षणः ॥४५॥सक्तस्य बुद्धिर्भवति मोहजालविवर्द्धिनी ॥ मोहजालावृतो दुःखमिहामुत्र तथाश्नुते ॥४६॥सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ॥ कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥४७॥नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्स रात् ॥ विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥४८॥आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ॥ आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम् ॥४९॥येन सर्वं परित्यक्तं स विद्वान्स च पंडितः ॥ इंद्रियैरिंद्रियार्थेभ्यश्वरत्यात्मवशैरिह ॥५०॥असज्जमानः शांतात्मा निर्विकारः समहितः ॥ आत्मभूतैरतद्धूतः सह चैव विनैव च ॥५१॥स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति ॥ अदर्शनमसंस्पर्शस्तथैवाभाषणं सदा ॥५२॥यस्य भूतैः सह मुने स श्रेयो विंदते महत् ॥ न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्वरेत् ॥५३॥नेदं जन्म समासाद्य वैरं कुर्वीतं केन चित् ॥ आकिंचन्यं सुसंतोषो निराशिष्टमचापलम् ॥५४॥एतदाहुः परं श्रेय आत्मज्ञान जितात्मनः ॥ परिग्रहं परित्यज्य भव तात जितेंद्रियः ॥५५॥अशोकं स्थान इह चामुत्र चाभयम् ॥ निराशिषो च शोचंति त्यजेदाशिषमात्मनः ॥५६॥परित्यज्यशिषं सौम्य दुःखग्रामद्विमोक्ष्यसे ॥ तपोनित्येन दांतेन मुनिना संयतात्मना ॥५७॥अजितं जेतुकामेन भाव्यं संगेष्वसंगिना ॥ गुणसंगेष्वनासक्त एकचर्यारतः सदा ॥५८॥ब्राह्मणो च चिरादेव सुखमायात्यनुत्तमम् ॥ द्वंद्वारामेषु भूतेषु वराको रमते मुनिः ॥५९॥किंचित्प्रज्ञानतृप्तोऽसौ ज्ञानतप्तो न शोचति ॥ शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम् ॥६०॥अशुभैश्वाप्यधो जन्म कर्मर्लभतेऽवशः ॥ तत्र मृत्युजरादुःखैः सततं समभिद्रुतम् ॥६१॥संसारं पश्यते जंतुस्तत्कथं नावबुध्यसे ॥ अहिते हितसंज्ञस्त्वमधुवे ध्रुवसंज्ञकः ॥६२॥अनर्थे वार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ॥ संवेष्ट्यमानं बहुभिर्मोहतंतुभिरात्मजैः ॥६३॥कोशकारवदात्मानं वेष्टितो नावबुध्यसे ॥ अलं परिग्रहेणेह दोषवान् हि परिग्रहः ॥६४॥कृमिर्हि कोशका रस्तु बध्यते स्वपरिग्रहात् ॥ पुत्रदारकुटुंबेषु सक्ताः सीदंति जंतवः ॥६५॥सरः पंकार्णवे मग्ना जीर्णा वनगजा एव ॥ मोहजालसमाकृषान्पश्य जंतून्सुदुःखितान् ॥६६॥कुटुंबं पुत्रदारं च शरीरं द्रव्यसंचयम् ॥ पारक्यमध्रुवं सर्वं किं सुकृतदुष्कृते ॥६७॥यदा सर्वं परित्यज्य गंतव्यमवशेन वै ॥ अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठासि ॥६८॥अविश्रांतमनालंबमपाथेयम दैशिकम् ॥ तमःकर्त्तारमध्वानं कथमेको गमिष्यसि ॥६९॥नहि त्वां प्रस्थितं कश्वित्पृष्ठतोऽनुगमिष्यति ॥ सुकृतं च त्वां गच्छंतमनुयास्यतः ॥७०॥विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ॥ अर्थार्थमनुशीर्यंते सिद्धार्थंस्तु विमुच्यते ॥७१॥निबंधिनी रज्जुरेषा या ग्रामे वसतो रतिः ॥ छित्वैनां च शौर्यं सुकृतो यांति नैनां छिदंति दुष्कृतः ॥७२॥तुल्यजातिवयोरुपान् ह्रतान्पस्यसि मृत्युना ॥ न च नामास्ति निर्वेदो लोहं हि हदयं तव ॥७३॥रुपकूलां मनःस्त्रोतां स्पर्शद्वीपां रासावहाम् ॥ गंधपंकां शब्दजलां स्वर्गमार्गदुरारुहाम् ॥७४॥क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् ॥ त्यागवातध्वगां शीघ्रां बुद्धिनावं नदीं तरेत् ॥७५॥त्यक्ता धर्ममधर्मं च ह्युभे सत्यानृते त्यज ॥ त्यज धर्मसंकल्पादधर्मं चाप्यहिंसया ॥७६॥उभे सत्यानृते बुद्धा बुद्धिं परमनिश्वयात् ॥ अस्थिस्थूणं स्त्रायुयुतं मांसशोणितलेपनम् ॥७७॥धर्मवनद्धं दुर्गंधि पूर्ण मूत्रपुरीषयोः ॥ जराशोकसमाविष्टं रोगायतमस्थिरम् ॥७८॥रजस्वलमनित्यं च भूतावांस समुत्सृज ॥ इदं विश्वं जगत्सर्वमजगच्चापि यद्धवेत् ॥७९॥महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् ॥ इंद्रियाणि च पंचैव तमः सत्त्वं रजस्तथा ॥८०॥इत्येष सप्तदृशको राशिख्यक्तसंज्ञकेः ॥ सर्वैरिहेंद्रियार्थेश्व व्यक्ताव्यर्कौर्हि हितम् ॥८१॥पंचविंशक इत्येष व्यक्ताव्यक्तमयो गणः ॥ एतैः सर्वैः समयुक्तमनित्यममिष्वीयते ॥८२॥त्रिवगोंऽत्र सुखं दुःख जीवितं मरणं तथा ॥ य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ॥८३॥इन्द्रियैर्गृह्यते यद्यत्तद्वयक्तमभिधीयते ॥ अव्यक्तमथ तज्ज्ञेयं लिंगग्राह्यमतींद्रियम् ॥८४॥इन्द्रियैर्नियतैर्दही धाराभिरवि तर्प्यते ॥ लोके विहितमात्मानं लोकं चात्मानि पश्यति ॥८५॥परावरदृशः शक्ति र्ज्ञानवेलां न पश्यति ॥ पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥८६॥ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥ ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्व देहजात् ॥८७॥लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति ॥ अनादिनिधनं जंतुमात्मनि स्थितमव्ययम् ॥८८॥अकतारममूढं च भगवानाह तीर्थवित् ॥ यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥८९॥स्वदुःखप्रतिघातार्थ हंति जंतुरनेकधा ॥ ततः कर्म समादत्ते पुन्रन्यन्नवं बहु ॥९०॥तप्यतेऽथ पुनस्तेन भुक्ताऽपथ्यमिवातुरः ॥ अजस्त्रमेव मोहांतो दुःखेषु सुखसंज्ञितः ॥९१॥वध्यते तप्यते चैव भयवत्कर्मभिः सदा ॥ ततो निवृत्तो बंधात्स्वात्कर्मणामुदयादिह ॥९२॥परिभ्रमति संसारे चक्रवद्धाहुवर्जितः ॥ संयमेन च संबंधान्निवृत्त्या तपसो बलात् ॥९३॥सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ॥९४॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP