संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| द्विषाष्टितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - द्विषाष्टितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण द्विषाष्टितमोऽध्यायः Translation - भाषांतर सूत उवाच ॥एतच्छुत्वा तु वचनं नारदो भगवानुषिः ॥ पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम् ॥१॥नारद उवाच ॥भगवन्सर्वमाख्यातं त्वयाऽतिकरुणात्मना ॥ यच्छुत्वा मानसं मेऽद्य शांतिमग्यामुपागतम् ॥२॥पुनश्व मोक्षशास्त्रं मे त्वमादिश महामुने ॥ नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे ॥३॥ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः ॥ कुत्र ते निवसंतीह संशयो मे महानयम् ॥४॥तं छिन्धि सुमहाभाग त्वत्तो नान्यो विदांवरः ॥ सन०उ०॥ धारयामास चात्मानं यथाशास्त्रं महामुनिः ॥५॥पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ॥ ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते ॥६॥पाणिपादं समाधाय विनीतदुपाविशत् ॥ न तत्र पक्षिसंघातो न शब्दो न च दर्शनम् ॥७॥यत्र वैयासकिर्धाम्नि योक्तुं समुपचक्रमे ॥ स ददर्श तदात्मानं सर्वसंगविनिःसृतः ॥८॥प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ॥ स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ॥९॥महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥ अंतरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्वितः ॥१०॥अमुंद्यतं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ॥ ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥११॥यथाशक्ति यथान्यायं पूजयांचक्रिरे तथा ॥ पुष्प वर्षैश्व दिव्यैस्तमवचक्रुर्दिवौकसः ॥१२॥तं दृष्ट्रा विस्मिताः सर्वे गंधर्वाप्सरसां गणाः ॥ ऋषयश्वैव संसिद्धाः कोऽयं सिद्धिमुपागतः ॥१३॥ततोऽसौ स्वाह्रयं तेभ्यः कथयामास नारद ॥ उवाच च महातेजास्तानृषीन्संप्रहर्षितः ॥१४॥पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥ तस्मे प्रतिवचोदेयं भवद्धिस्तु समाहितैः ॥१५॥बाढमुक्तस्ततस्तैस्तु लोकान्हित्वा चतुर्विधान् ॥ तमो ह्यष्टविधं त्यक्ता जहौ पञ्चविधं रजः ॥१६॥ततः सत्वं जहौ धीमांस्तदद्धुतमिवाभवत् नित्ये निर्गुंणे लिंगपूजिते ॥१७॥स श्रृङेऽप्रतिमे हिमवन्मेरुसन्निभे ॥ संश्लिष्टे श्वेतपीते च रुक्मरुप्यमये शुभे ॥१८॥शतयो जनविस्तारे तिर्यगूर्द्धंच नारद ॥ सोऽविशंकेन तथैवाभ्यपतच्छुकः ॥१९॥श्रृङेऽत्यंतसंश्लिष्ट सहसैव द्विधाकृते ॥ अदृश्येतां द्विजश्रेष्ठ तदद्धुतमिवाभवत् ॥२०॥ततः पर्वतश्रृंगाभ्यां सहसैव विनिःसृतः ॥ न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥२१॥ततो मंदाकिनीं दिव्या मुपारिष्टादभिव्रजन् ॥ शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम् ॥२२॥तस्यां क्रीडासु निरताः स्त्रांति चैवाप्सरोगणाः ॥ निराकारं तु साकारा ददृशस्तं विवाससः ॥२३॥तं प्रक्रमंतमाज्ञाय पिता स्त्रेहसमन्वितः ॥ उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥२४॥शुकस्तु मारुतदूर्द्धं गतिं कृत्वां तरिक्षगाम् ॥ दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥२५॥अथ योगगतिं व्यासः समास्थाय महातपाः ॥ निमेषांतरमात्रेण शुकाभिपतनं ययौ ॥२६॥स ददर्शं द्विधा कृत्वा पर्वताग्रं गतं शुकम् ॥ शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम् ॥२७॥ततः शुकेतिशब्देन दीर्घेण क्रंदितं तदा ॥ स्वयं पित्रा स्वरेणोच्चैस्त्रींल्लोकाननुनाद्य वै ॥२८॥शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः ॥ प्रत्यभाषत धर्मात्मा भोः शब्देना नुनादयन् ॥२९॥तत एकाक्षरं नादं भोरित्येवसुदीयन् ॥ प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजंगमम् ॥३०॥ततःप्रभृति वाऽप्रभृति वाऽद्यापि शब्दानुच्चारितान्पृथक् ॥ गिरिगह्रर पृष्ठेषु व्याजहार शुक्रं प्रति ॥३१॥अंतरितप्रभावं तं दर्शयित्वा शुकस्तदा ॥ गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम् ॥३२॥महिमानं तु तं दृष्ट्रा पुत्रस्यामिततेजसः ॥ सोऽनुनीतो भगवता व्यासो रुद्रेण नारद ॥३३॥ किसु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः ॥ पश्यसि विप्र नायांत ब्रह्मभूतं निजांतिके ॥३४॥इत्येवमनुनीतोऽसौ व्यासः पुनरुपाव्रजत् ॥स्वाश्रंम स शुको ब्रह्मभूतो लोकांश्वचार ह ॥३५॥तत कालांतरे ब्रह्मन्व्यासः सत्यवतीसुतः ॥ नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम् ॥३६॥तत्र दृष्ट्रा तु तौ देवौ तप्यमानो महत्तपः ॥ स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन् ॥३७॥यावत्त स्थितो व्यासः शुकः परमयोगवित ॥ श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा ॥३८॥तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः ॥ दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः ॥३९॥स्तुतश्व शुकदेवेन प्रसन्नः प्राह नारद ॥ श्रीभगवा नुवाच ॥ त्वया दृष्टोऽस्मि योगीन्द्र सर्वदेवरहःस्थितः ॥४०॥सनत्कुमारादिष्टेन सिद्धो योगेन वाडव ॥ त्वं सदागतिमार्गस्थो लोकार्पश्य यथेच्छया ॥४१॥इत्युक्तो वासुदेवेन तं नत्वारणिसंभवः ॥ वैकुंठ प्रययौ विप्र सर्वलोकनमस्कृतम् ॥४२॥वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् ॥ यं भांतनुभांत्येते लोकाः सर्वेऽपि नारद ॥४३॥यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः ॥ वाप्य उत्पलसछन्नाः सुरस्त्रीक्रीडनाकुलाः ॥४४॥दिव्यैर्हसकुलैर्घुष्टाः स्वच्छांबुनिभृताः सदा ॥ तत्र द्वाःस्थैश्वतुर्हस्तेनानार्नाभरणभूषितैः ॥४५॥विष्वक्सेनानुगैः सिद्धैः कुसुदाद्यैरवारितः प्रविश्याभ्यंतरं तत्र देवदेवं चतुर्भजम् ॥४६॥शांत प्रसन्नवदनं पीतकौशेयवाससम् ॥ शंखचक्रगदापद्मैर्मूतिद्धिरुपासितम् ॥४७॥वक्ष स्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् ॥ कटिसूत्रकटकांगदभूषितम ॥४८॥भ्राजत्किरीट्वलयं मणिनूपुरशोभितम् ॥ ददर्श सिद्धनि करैः सेव्यमानमहर्निशम् ॥४९॥तं द्दष्ट्रा भक्तभावेन तुष्टाव मधुसूदनम् ॥ शुक उवाच ॥ नमस्ते वासुदेवाय सर्वलो कैकसाक्षिणे ॥५०॥जगद्वीजस्वरुपाय पूर्णाय निभृतात्मने ॥ हरये वासुकिस्थाय श्वेतद्वीपनिवासिने ॥५१॥हंसाय मत्स्यरुपाय वाराहतनुधारिणे ॥ नृसिंहाय ध्रुवे ज्याय सांख्ययोगेश्वराय च ॥५२॥चतुःसनाय कूर्माय पृथवे स्वसुखात्मने ॥ नाभेयाय जगद्धात्रे विधात्रेंऽतकराय च ॥५३॥भार्गवेंद्राय रामा य राघवाय पराय च ॥ कुष्णाय वेदकर्ते च बुद्धकलिकस्वरुपिणे ॥५४॥चतुर्व्यूहाय वेद्याय ध्येयाय परमात्मने ॥ नरनारयणाख्याय शिपिविष्टाय विष्णवे ॥५५॥ऋतधाग्ने विधाम्ने च सुपर्णाय स्वरोचिषे ॥ ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ॥५६॥विश्वरुपाय विश्वाय सृष्टिस्थित्यंतकारिणे ॥ यज्ञाय यज्ञभोक्रे च स्थविष्ठायावेऽर्थिने ॥५७॥आदित्यसोमनेत्राय सहओजोबलाय च ॥ ईज्याय साक्षिणेऽजायबहु शीर्षांघ्रिबाहवे ॥५८॥श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङिणे ॥ अष्टप्रकृत्यधीशाय ब्रह्मणेऽनंतसक्ताये ॥५९॥बृहदारण्यवेद्याय ह्रषीकेशाय वेधसे ॥ पुंडरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ॥६०॥गोविंदाय जगत्कत्रे जगन्नाथाय योगिने ॥ सत्याय सत्यसंधाय वैकुंठायाच्युताय च ॥६१॥अधोक्षजाय धर्माय वामनाय त्रिधातवे ॥ घृतार्चिषे विष्णवे तेऽनंताय कपिलाय च ॥६२॥विरिंचये त्रिककुदे ऋग्यजुःसामरुपिणे ॥ एक श्रृंगाय च शुचिश्रवसे शास्त्रयोनये ॥६३॥वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे ॥ भूर्भुवुःस्वःस्वरुपाय दैत्येघ्ने निर्गुणाय च ॥६४॥निरंज नाय नित्याय ह्याव्य्यायाक्षराय च ॥ नमस्ते पाहि मामीश शरनागतवत्सल ॥६५॥इति स्तुतःस भगवाञ्च्छंखचक्रगदाधरः ॥ आरणेयमु वाचेदं भृशं प्रणतवत्सलः ॥६६॥श्रीभगवानुवाच ॥ व्यासपुत्र महाभाग प्रीतोऽस्मि तव सुव्रत ॥ विद्यामाप्नुहि भक्तिं च ज्ञानीं त्व मम रुपधृक् ॥६७॥यद्रूपं मम दृष्टं प्राक् श्वेतद्वीपे त्वया द्विज ॥ सोऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः ॥६८॥सिद्धोऽसि त्वं महाभाग मोक्षधर्मानुचिं तया ॥ वरलोकान्यथा ॥ वायुर्यथा खं सविता तथा ॥६९॥नित्यमुक्तस्वरुपस्त्वं पूज्यमानः सुरैर्नरैः ॥ भक्तिर्हि दुर्लभा लोके मयि सर्व परायणे ॥७०॥तां लब्ध्वा किंचिल्लब्धव्यमवशिष्यते ॥ आकल्पांतः तपःसंस्थौ नरनारायणावृषी ॥७१॥तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः ॥ कर्तां भागवंत शास्त्रं तदधीष्व भुवं ब्रज ॥७२॥स तष्यति तप्स्त्वद्य पर्वते पर्वते गंधमादने ॥ त्वद्वियोगेन खिन्नात्मा तं प्रसादय मात्प्रिय मूः ॥७३॥एवसुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् ॥ यथागतं निवृत्तोऽसौ पितुंरतिकमागमत् ॥७४॥अथ तं स्वांतिके दृष्ट्रा पाराशर्य्यः प्रता पवान् ॥ पुत्रं प्राप्य प्रह्रष्टात्मा तपसो निववर्त ह ॥७५॥नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ आरणेसमायुक्थ स्वाश्रमं समुपागमत् ॥७६॥नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर ॥ चकारं संहितां दिव्यां नानाख्यानसमन्विताम् ॥७७॥वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् ॥ निवृत्तिनिरतं पुत्रं शुकमध्यापयच्च ताम् ॥७८॥आत्मारामोऽपि भगवान्पाराशर्यात्मजः शुकः ॥ अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम् ॥७९॥एवमेते समाख्याता मोक्षधर्मास्तवानघः ॥ पठतां श्रृण्वतां चापि हरिभक्तिविवर्द्धनाः ॥८०॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीय पादे बृहपाख्याने मोक्षधर्म्मनिरुपणं नाम द्विषाष्टितमोऽध्यायः ॥६२॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP